Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.25.1

स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् ।
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ॥ ७.२५.१ ॥

十首罗刹将那片可怕的森林赐给斯瓦拉萨,安慰了妹妹,心中欢喜,更加镇定安稳。

7.25.2

ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ।
तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ ७.२५.२ ॥

随后,强大的罗刹之主与随从一同进入了楼罗卡城名为尼昆比拉的上好园林。

7.25.3

ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।
ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ॥ ७.२५.३ ॥

随后他看到一场已经设立的祭祀,满布数百根祭柱,装饰着吉祥的祭坛,其光辉仿佛在熊熊燃烧。

7.25.4

ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।
ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ७.२५.४ ॥

在那里,他看到自己的儿子梅伽那达,身披黑羚羊皮,手持净水瓶,束着发髻,立着旗帜,外貌令人畏惧。

7.25.5

तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः ।
अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥ ७.२५.५ ॥

楼罗卡之主走近他,以双臂拥抱他,说道:“孩子,你这是在做什么?请据实告诉我。”

7.25.6

उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये ।
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ७.२५.६ ॥

此时,大苦行者乌莎纳斯,即再生者中最杰出者,为使祭祀圆满兴盛,对罗刹中最优秀的罗波那说道。

7.25.7

अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।
यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ॥ ७.२५.७ ॥

大王,我将告诉你,请听全部。你的儿子获得了七种祭祀,数量众多且规模宏大。

7.25.8

अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।
राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ७.२५.८ ॥

阿耆尼投摩祭、马祠、多金祭、王祭、牛祭,以及毗湿奴祭。

7.25.9

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ ७.२५.९ ॥

当摩诃首婆祭祀开始时,那是凡人极难获得的祭祀,你的儿子在此亲自从帕苏帕蒂那里得到了恩赐。

7.25.10

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।
मायां च तामसीं नाम यया सम्पद्यते तमः ॥ ७.२५.१० ॥

那辆随意而行、翱翔天空的神圣战车,确定无疑;还有名为多摩西的幻术,借此便会生出黑暗。

7.25.11

एतया किल सङ्ग्रामे मायया राक्षसेश्वर ।
प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ॥ ७.२५.११ ॥

罗刹之王啊,在战斗中施展此幻术时,其行踪即使天神和阿修罗也无法知晓。

7.25.12

अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।
अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ॥ ७.२५.१२ ॥

两只取之不竭的箭袋配有箭矢,以及极难战胜的弓;还有强大的兵器,大王,能在战场上摧毁敌人。

7.25.13

एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन ।
अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ॥ ७.२५.१३ ॥

十首之王啊,你的这个儿子已经获得了所有这些恩赐。今天祭祀结束之际,我因想见你而站在这里。

7.25.14

ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् ।
पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ ७.२५.१४ ॥

于是十颈之王说:"这样做不好,因为以因陀罗为首的敌人却用财物受到了供奉。"

7.25.15

एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः ।
आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ॥ ७.२५.१५ ॥

来吧,现在要知道所做的确是善举,毫无疑问。来吧,善良的人,让我们回到自己的住所去。

7.25.16

ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।
स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ॥ ७.२५.१६ ॥

于是十颈之王与儿子、维毗沙那一同前往,让所有那些哽咽流泪的女子都下来。

7.25.17

लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।
तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ॥ ७.२५.१७ ॥

她们是天神、檀那婆与罗刹中如珠宝般的有福女子。知道了他对她们的意图,正直的维毗沙那便说了这些话。

7.25.18

ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ।
धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ॥ ७.२५.१८ ॥

你以这样毁灭名声、财富与家族的行为,凭自己的意志而行,明知亲族正在遭受羞辱。

7.25.19

ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः ।
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥ ७.२५.१९ ॥

大王啊,你侮辱了那些亲族,把这些优秀的女子带到了这里;而Madhu竟无视你,劫走了Kumbhīnasī。

7.25.20

रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।
को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ॥ ७.२५.२० ॥

罗波那说:我不明白你这番话。你提到名叫Madhu的这个人究竟是谁?

7.25.21

विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ ७.२५.२१ ॥

维毗沙那怒不可遏,对兄长说:听着,这个恶人所作之业的果报已经来临。

7.25.22

मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।
माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥ ७.२५.२२ ॥

他是你外祖父与Sumālin的长兄,名声远扬的Mālyavān,是一位年老而有智慧的夜行者。

7.25.23

पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् ।
तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ॥ ७.२५.२३ ॥

他是我们母亲的长辈,也是我们的祖父;他女儿的女儿名叫Kumbhīnasī。

7.25.24

मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा ।
भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ॥ ७.२५.२४ ॥

那位少女是我们母亲姐妹的女儿,生于火中,依法理而言,她实为我们众兄弟的妹妹。

7.25.25

सा हृता मधुना राजन्राक्षसेन बलीयसा ।
यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥ ७.२५.२५ ॥

大王,当您的儿子正忙于祭祀,而我住在水中时,强大的罗刹摩度将她劫走了。

7.25.26

कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।
निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ॥ ७.२५.२६ ॥

大王,那时鸩钵耳正在沉睡;在此杀害了罗刹中的精英和受尊敬的大臣之后……

7.25.27

धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव ।
श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ ७.२५.२७ ॥

她在您的内宫睡着时,遭受侮辱后被劫走。大王,他听闻此事,仍以忍耐宽恕了,因此他并未被杀。

7.25.28

यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।
तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥ ७.२५.२८ ॥

既然姐妹必须由兄弟交给丈夫,那么,恶念之人啊,这便是那罪恶行为的果报。

7.25.29

अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते ।
विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।
दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ॥ ७.२५.२९ ॥

愿此事在世间广为人知。罗刹之主罗波那听了维毗沙那的话,因自身的邪恶而翻腾起来,如同沸热之水的大海。

7.25.30

ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः ।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ॥ ७.२५.३० ॥

于是,十颈的罗波那怒火中烧,双目赤红,说道:"速备我的战车;让我们的勇士们也准备就绪。"

7.25.31

भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥ ७.२५.३१ ॥

愿我的兄弟昆跋迦尔纳与诸位主要的夜行者,执持各种兵器,登上各自的坐骑。

7.25.32

अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।
सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥ ७.२५.३२ ॥

今日我在战场上杀死那不畏罗波那的摩度,渴望战斗,被朋友环绕,我将前往天界。

7.25.33

अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ७.२५.३३ ॥

罗刹们四千个主要的阿刹护匿尼大军,渴望战斗,迅速持各种兵器出发了。

7.25.34

इन्द्रजित्त्वग्रतः सैन्यात्सैनिकान्परिगृह्य च ।
जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ७.२५.३४ ॥

因陀罗耆特率领军队走在前面,聚集了士兵;罗波那走在中间,昆跋迦尔纳走在后面。

7.25.35

विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् ।
शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ७.२५.३५ ॥

德行高尚的维毗沙那在楞伽持守法道;其余所有大福之人都前往摩图城。

7.25.36

खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः ।
राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ॥ ७.२५.३६ ॥

骑着驴、骆驼、闪耀的马、鳄形坐骑和大蛇,所有罗刹连绵不断地充满天空而前进。

7.25.37

दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ७.२५.३७ ॥

与诸天结下仇怨的数百名达提耶见罗波那前行,便从后面紧紧跟随。

7.25.38

स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ॥ ७.२५.३८ ॥

十首罗波那到达摩度城并进入其中,却没有见到摩度,而在那里见到了他的妹妹。

7.25.39

सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ॥ ७.२५.३९ ॥

她恭敬地合掌,低头俯身,用头叩拜在他的脚下。

7.25.40

तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ।
तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ॥ ७.२५.४० ॥

在罗刹王面前惊恐的Kumbhīnasī,他扶她起来,说:“不要害怕。”

7.25.41

रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।
साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।
भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥ ७.२५.४१ ॥

“十首罗波那,罗刹中最优秀者,我能为你做什么?”她说:“大王,大臂者,若你对我满意,赐予尊荣者啊,今日请不要在此杀死杀害我丈夫的人。”

7.25.42

न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते ।
भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ७.२५.४२ ॥

对于高贵家族的女子,此处并不说有如此的恐惧;在一切恐惧之中,寡居乃是最大的灾难。

7.25.43

सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।
त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥ ७.२५.४३ ॥

王中之王啊,请守信言;看看我这个乞求者吧。大王啊,您自己曾说过:“不必害怕。”

7.25.44

रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥ ७.२५.४४ ॥

于是傲慢的罗波那对站在那里的妹妹说:“你的那位丈夫在哪里?快告诉我。”

7.25.45

सह तेन गमिष्यामि सुरलोकं जयावहे ।
तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ॥ ७.२५.४५ ॥

“带来胜利的人啊,我将与他同往天界。因你的慈悲与情谊,我才从杀害摩度的行动中收手。”

7.25.46

इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।
अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ॥ ७.२५.४६ ॥

说罢,这位罗刹女唤醒了熟睡的那位夜行者,仿佛极为欣喜,对丈夫说出了这番话。

7.25.47

एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ ७.२५.४७ ॥

“我那威力强大的兄长十首王来了;他渴望征服天界,前来请你相助。”

7.25.48

तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।
स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥ ७.२५.४८ ॥

“因此,罗刹啊,你应与亲属同往助他。为亲近而又前来投靠的人成全其所求,才是恰当的。”

7.25.49

तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ७.२५.४९ ॥

摩都听了她的话,说道:「就这样吧。」并说了温和的话语。

7.25.50

ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ।
पूजयमास धर्मेण रावणं राक्षसाधिपम् ॥ ७.२५.५० ॥

他依礼上前,见到罗刹中的至尊,并依法礼敬罗刹之主罗波那。

7.25.51

प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् ।
तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ७.२५.५१ ॥

在摩都的家中受到款待后,这位威猛的十首者在那里停留了一夜,随即开始准备启程。

7.25.52

ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।
राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥ ७.२५.५२ ॥

随后,他到达毗沙门的居所凯拉萨山,这位如大因陀罗般光辉的罗刹之主,命令大军在那里扎营。