Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.26

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.26.1

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् ।
अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ ७.२६.१ ॥

威力强大的十首王与军队一同在那里,待太阳落山后,便决定在此扎营。

7.26.2

उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि ।
प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ ७.२६.२ ॥

当如山般光辉的明净月亮升起时,那支手持各种兵器的庞大军队正沉沉睡去。

7.26.3

रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि ।
स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ॥ ७.२६.३ ॥

威力强大的罗波那坐在山顶,望着那里被月光装点的美景。

7.26.4

कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा ।
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ७.२६.४ ॥

这里装点着闪耀的卡尔尼迦拉树林、茂密的甘巴丛、盛开的莲池以及曼陀吉尼河的流水。

7.26.5

चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा ।
चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः ।
तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ॥ ७.२६.५ ॥

这里点缀着瞻波树、无忧树、布那迦树和曼陀罗树;芒果树、波吒罗树、罗陀树、普利扬古树、阿周那树和露兜树;还有多伽罗树、椰子树、普利亚拉树和波罗蜜树。

7.26.6

आरग्वधैस्तमालैश्च प्रियालवकुलैरपि ।
एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे ।
किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ॥ ७.२६.६ ॥

林中深处被阿羯婆、多摩罗、普利亚拉、巴库拉以及其他类似的树木照亮;那里声音甜美的紧那罗因爱欲所苦而情动难抑。

7.26.7

समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ ७.२६.७ ॥

他们在那里齐声歌唱,使心中的喜悦倍增。

7.26.8

भिरुद्भासितवनान्तरे ।
विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ।
योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ॥ ७.२६.८ ॥

持明们因醉酒而眼角泛红,与女子们相聚,嬉戏欢乐。

7.26.9

घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः ।
अप्सरोगणसङ्घानां गायतां धनदालये ॥ ७.२६.९ ॥

传来如铃铛般的甜美声音,财神宫中群群天女正在歌唱。

7.26.10

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।
शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ ७.२६.१० ॥

被风吹动的树木纷纷撒下花雨,仿佛要用春蜜与花香熏染那座山。

7.26.11

मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् ।
प्रववौ वर्धयन्कामं रावणस्य सुखो ऽनिलः ॥ ७.२६.११ ॥

携带着混有蜜花花粉的浓郁芬芳,一阵宜人的风吹来,助长了罗波那的欲望。

7.26.12

गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् ।
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ ७.२६.१२ ॥

由于歌声,花朵繁盛,微风清凉,山的特性;夜幕降临,月亮升起。

7.26.13

रावणस्तु महावीर्यः कामस्य वशमागतः ।
विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ॥ ७.२६.१३ ॥

英勇的罗波那陷入了欲望的控制。他一次又一次深深叹息,凝视着月亮。

7.26.14

एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता ।
सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ ७.२६.१४ ॥

这时,天女中最优秀的蓝跋(Rambhā)出现了,她佩戴天界饰物,装饰着天界的花朵。

7.26.15

दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा ।
दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ ७.२६.१५ ॥

身涂天界檀香,发间插着曼陀罗花,开始了天界的盛宴,面容如同满月。

7.26.16

चक्षुर्मनोहरं पीनं मेखलादामभूषितम् ।
समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ ७.२६.१६ ॥

她的臀部丰满,令人悦目赏心,系着链状腰带,宛如爱情最高的献礼。

7.26.17

कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ॥ ७.२६.१७ ॥

以六季之花制成的湿润花钿装饰着她。

7.26.18

बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् ।
नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ ७.२६.१८ ॥

她光彩照人,仿佛独自化身为美丽、光辉、明艳、智慧与羞涩;她裹着如盛满水的云朵般的深蓝衣裳。

7.26.19

यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे ।
ऊरू करिकराकारौ करौ पल्लवकोमलौ ।
सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ ७.२६.१९ ॥

她的脸如月亮,秀美的眉如弓,大腿如象鼻,双手柔嫩如嫩芽;当她从军队中间走过时,罗婆那注视着她。

7.26.20

तां समुत्थाय गच्छन्तीं कामबाणवशं गतः ।
करे गृहीत्वा लज्जन्तीं स्मयमानो ऽभ्यभाषत ॥ ७.२६.२० ॥

她起身欲走时,被爱欲之箭所制的罗婆那握住她的手,微笑着对这位羞怯的女子说道。

7.26.21

क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् ।
कस्याभ्युदयकालो ऽयं यस्त्वां समुपभोक्ष्यते ॥ ७.२६.२१ ॥

美腰的女子啊,你要去哪里?你自己追求什么成就?这是谁的兴盛之时,将来会享有你呢?

7.26.22

त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ।
सुधामृतरसस्येव को ऽद्य तृप्तिं गमिष्यति ॥ ७.२६.२२ ॥

你脸上的甘露,芬芳如莲花与青莲,甘美如仙露琼浆——今日谁能从中得到满足?

7.26.23

स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ।
कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ॥ ७.२६.२३ ॥

胆怯的女子啊,你这两只乳房如金瓶般饱满、美好而紧靠,将给予谁的胸膛相贴呢?

7.26.24

सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु ।
अध्यारोहति कस्ते ऽद्य जघनं स्वर्गरूपिणम् ॥ ७.२६.२४ ॥

你那宽阔的腰臀,如金轮,饰以金带,形如天界——今日谁将登临?

7.26.25

मद्विशिष्टः पुमान्को ऽद्य शक्रो विष्णुरथाश्विनौ ।
मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ॥ ७.२६.२५ ॥

今日谁能胜过我?是因陀罗、毗湿奴,还是双阿输瞿?你越过我,要去向谁,怯弱者?这不合适。

7.26.26

विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥ ७.२६.२६ ॥

宽臀的美人啊,请在这块吉祥的岩石上休息吧。

7.26.27

त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ ७.२६.२७ ॥

在三界之中,除我以外再无其他主宰。

7.26.28

तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः ।
भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥ ७.२६.२८ ॥

因此,十首罗波双手合十、俯身躬身地恳求你:请接纳我吧,我是三界之主的主宰,也是三界的创造者。

7.26.29

एवमुक्ता ऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः ।
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ ७.२६.२९ ॥

罗波被如此呵斥,浑身颤抖,双手合十说道:请您开恩。您不该对我说这样的话,因为您是我的师长。

7.26.30

अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि ।
तद्धर्मतः स्नुषा ते ऽहं तत्त्वमेव ब्रवीमि ते ॥ ७.२६.३० ॥

您本应从他人手中保护我。若我竟在您的手中遭受凌辱,那么依照法道,我便是您的儿媳——这正是我对您所说的。

7.26.31

अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् ।
रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ ७.२६.३१ ॥

那时十首罗波那对她说道。她面朝他的脚站立,一见到他便毛发竖立。

7.26.32

सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः ।
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ॥ ७.२६.३२ ॥

如果你成为我儿子的妻子,那么你就是我的儿媳。于是蓝婆答复罗波那说:“好。”

7.26.33

धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव ।
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ।
विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ ७.२६.३३ ॥

众罗刹之首啊,依法我是你儿子的妻子。这个儿子比生命还珍爱他的兄长毗舍罗婆那,在三界中以那罗俱婆罗之名闻名。

7.26.34

धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् ।
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥ ७.२६.३४ ॥

他依法是婆罗门,凭勇力是刹帝利,发怒时如火,忍耐时如大地。

7.26.35

तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै ।
तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥ ७.२६.३५ ॥

我曾与那位世界守护者之子约定相见;我正是为他,才装饰了这一切饰物。

7.26.36

तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥ ७.२६.३६ ॥

因此他的心意只专注于我一人;对别的任何人,他都没有这样的情意。

7.26.37

तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ॥ ७.२६.३७ ॥

君王啊,降伏敌人者,凭着那份真实,你应当放我走。

7.26.38

स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः ।
तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ ७.२६.३८ ॥

那位德行高尚的人正急切地在那里等候我。你不应在此阻碍他儿子的事;放开我吧。

7.26.39

सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव ।
माननीयो मम त्वं हि पालनीया तथा ऽस्मि ते ॥ ७.२६.३९ ॥

罗刹中的翘楚啊,走善人所行的道路吧。你在我心中值得敬重,而我也应当受你的庇护。

7.26.40

एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ।
स्नुषा ऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।
देवलोकस्थितिरियं सुराणां शाश्वती मता ॥ ७.२६.४० ॥

十首罗刹听罢,谦恭地回答说:“正如你所说,我是你的儿媳。这是关于一夫一妻者的规矩。天界的这种秩序,在诸天之中被认为是永恒的。”

7.26.41

पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ ७.२६.४१ ॥

天女们没有唯一的丈夫,也没有只娶一位妻子的规矩。

7.26.42

स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः ।
एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले ।
कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ ७.२६.४२ ॥

罗刹说完这些,便让她坐在石台上,沉溺于欲乐之中,开始与她交合。

7.26.43

सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ।
गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ ७.२६.४३ ॥

于是获释的罗陀,花环与饰物散落,如同被大象嬉戏搅动的河水,陷入慌乱。

7.26.44

लुलिताकुलकेशान्ता करवेपितपल्लवा ।
पवनेनावधूतेव लता कुसुमशालिनी ॥ ७.२६.४४ ॥

发丝散乱,嫩芽如手般颤抖,犹如被风吹动的满花藤蔓。

7.26.45

सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ।
नलकूबरमासाद्य पादयोर्निपपात ह ॥ ७.२६.४५ ॥

她颤抖、羞惭、惊恐,合掌走到那罗俱婆身边,跪倒在他脚下。

7.26.46

तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः ।
अब्रवीत्किमिदं भद्रे पादयोः पतिता ऽसि मे ॥ ७.२६.४६ ॥

那罗俱婆见她如此,便说:“善女,这是什么?你为何跪倒在我脚下?”

7.26.47

सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः ।
तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ७.२६.४७ ॥

她深深叹息,颤抖着合掌,开始将一切如实地向他诉说。

7.26.48

एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् ।
तेन सैन्यसहायेन निशेयं परिणामिता ॥ ७.२६.४८ ॥

主公啊,十首罗波那来到此处,要前往三界。他与军队同行,度过了这一夜。

7.26.49

आयन्ती तेन दृष्टा ऽस्मि त्वत्सकाशमरिन्दम ।
गृहीता तेन पृष्टा ऽस्मि कस्य त्वमिति रक्षसा ॥ ७.२६.४९ ॥

降敌者啊,我前行时他看见了我;我来到你面前时,那罗刹抓住我问道:“你是谁的人?”

7.26.50

मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् ।
काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ७.२६.५० ॥

我把一切真实之事都告诉了他;可他心被欲望与迷惑所蔽,没有听我的话。

7.26.51

याच्यमानो मया देव स्नुषा ते ऽहमिति प्रभो ।
तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥ ७.२६.५१ ॥

神啊,主啊,我哀求他说:“我是你的儿媳”;可他把这一切抛在脑后,竟用暴力侵犯了我。

7.26.52

एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत ।
न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ ७.२६.५२ ॥

因此,持守善誓者啊,你应当宽恕我的过错。温和的人啊,女子与男子的力量本不相等。

7.26.53

एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः ।
धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ॥ ७.२६.५३ ॥

毗舍罗婆之子听罢此言,勃然大怒;听闻那极大的侵犯之事,他便深深陷入禅定之中。

7.26.54

तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः ।
मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥ ७.२६.५४ ॥

毗舍罗婆之子得知他的那一行为后,片刻之间,怒目通红,便以手取水。

7.26.55

गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि ।
उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ॥ ७.२६.५५ ॥

他取水,依礼仪漱口净身,然后向罗刹之王降下了可怕的诅咒。

7.26.56

अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता ।
तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ७.२६.५६ ॥

善良的女子啊,因为他违背你的意愿,强行侵犯了你,他将去接近另一位女子——一位不愿意的女子,而非愿意的女子。

7.26.57

यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् ।
मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ ७.२६.५७ ॥

每当他被欲望折磨,强迫一个不愿意的女子时,他的头颅就会碎裂成七块。

7.26.58

तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।
पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ ७.२६.५८ ॥

当那诅咒如烈火般光辉地被宣说时,天鼓齐鸣,天空中落下花雨,以梵天为首的诸神都欢喜不已。

7.26.59

ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः ।
ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ ७.२६.५९ ॥

得知世界的全部进程以及那罗刹的死亡,诸仙与祖灵获得了无上的喜悦。

7.26.60

श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् ।
नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ ७.२६.६० ॥

闻听那令人毛骨悚然的诅咒,十首罗波那仍旧乐于与女子交合——但不与不愿意的女子。

7.26.61

तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ।
नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ ७.२६.६१ ॥

被他掳来的所有贞洁妇女,听到那纳罗俱婆罗所说、令人心悦的诅咒后,都感到欣慰。