蚁垤《罗摩衍那》 · 篇 7.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.27.1
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः ।
आससाद महातेजा इन्द्रलोकं निशाचरः ॥ ७.२७.१ ॥
罗波那越过凯拉萨山,这位十颈、光辉赫赫的夜行罗刹,抵达了因陀罗的世界。
7.27.2
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।
देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ ७.२७.२ ॥
当那罗刹大军从四面八方推进时,如搅动大海般的声响传到了天界。
7.27.3
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।
अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ॥ ७.२७.३ ॥
因陀罗闻知罗波那已到,便从座位上起身,对聚集在那里的所有天神说道。
7.27.4
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ ७.२७.४ ॥
诸位阿底提耶、婆苏、楼陀罗、毗首、萨提耶与摩录多众,请为与恶心的罗波那作战做好准备!
7.27.5
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।
सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ॥ ७.२७.५ ॥
因陀罗如此吩咐之后,那些在战场上与因陀罗相等、具有极大勇力的天神穿上铠甲,充满了战斗的热情。
7.27.6
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।
विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ॥ ७.२७.६ ॥
然而摩呵因陀罗因罗波那而沮丧恐惧,来到毗湿奴面前,说出了这些话。
7.27.7
विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।
असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ॥ ७.२७.७ ॥
啊,毗湿奴!我以大威力、大勇武,该如何行事?那强大的罗刹正为战斗而来。
7.27.8
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।
तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ॥ ७.२७.८ ॥
他的强大只因所赐之恩惠,并非另有原因。然而,莲花所生者所说的真实之言必须实现。
7.27.9
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।
त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ॥ ७.२७.९ ॥
正如我依仗你的力量,焚灭了那穆吉、弗栗多、钵利、那罗迦和商跋罗,现在也请如此行事。
7.27.10
नह्यन्यो देवदेवेश त्वामृते मधुसूदन ।
गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ॥ ७.२७.१० ॥
诸神之主啊,摩图苏陀那!除你之外再无他者;在包括动与不动之物的三界中,除你之外没有归依,也没有最终的依靠。
7.27.11
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।
त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥ ७.२७.११ ॥
你是光荣的那罗延,脐生莲花,永恒不灭。这些世界由你所建立,而我,因陀罗(释迦),诸神之主,也由你所建立。
7.27.12
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ ७.२७.१२ ॥
这整个三界,连同动与不动之物,皆由你所创造。世尊啊,在劫末之时,一切众生都只归入于你。
7.27.13
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् ।
अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ॥ ७.२७.१३ ॥
因此,众神之神啊,请你亲口告诉我真相:主啊,你是否会以轮宝为助,与罗波那交战?
7.27.14
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।
अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ॥ ७.२७.१४ ॥
因因陀罗如此说,神那罗衍那主说道:“不应恐惧,现在请听我说。”
7.27.15
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।
हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ ७.२७.१५ ॥
这个恶念之人,此刻神与阿修罗都无法战胜或杀死他,因为他得到了恩赐,已变得不可战胜。
7.27.16
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।
राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ ७.२७.१६ ॥
然而这位恃力自大的罗刹将与众子一道,在各方面建立伟大的功业;这是出于其本性而可见的。
7.27.17
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर ।
नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ ७.२७.१७ ॥
众神之主啊,你对我说“去战斗吧”,但在战场上,我不会与那罗刹罗波那交战。
7.27.18
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।
दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ॥ ७.२७.१८ ॥
毗湿奴不在战场上杀死敌人便不会返回;但如今要实现这一愿望,对抗受恩赐庇护的罗波那却很困难。
7.27.19
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।
भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ॥ ७.२७.१९ ॥
天神之主啊,百祭之神啊,我在你面前发誓:我将成为这个罗刹死亡的原因。
7.27.20
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् ।
देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ।
एतत्ते कथितं तत्त्वं देवराज शचीपते ॥ ७.२७.२० ॥
我将亲手杀死罗婆那及其首领。知道时机已到,我将使诸天欢喜。天神之王啊,舍质之夫啊,这真理我已告诉你。
7.27.21
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ ७.२७.२१ ॥
大力者啊,无所畏惧地与他们所有人一同作战吧。
7.27.22
यामि ज्ञात्वा कालमुपागतम् ।
ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ ।
सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ॥ ७.२७.२२ ॥
知道时机已到,我将前往。于是楼陀罗们与阿提耶们、婆苏们、摩录多们以及双马神,披甲待发,迅速从城中向四面的罗刹冲出。
7.27.23
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ ७.२७.२३ ॥
此时,在夜尽之际,罗婆那的军队在四面激战,传来一阵巨大的喧声。
7.27.24
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।
सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ॥ ७.२७.२४ ॥
那些大勇的战士彼此相望,面对战阵,欢欣鼓舞地向前冲去。
7.27.25
ततो दैवतसैन्यनां सङ्क्षोभः समजायत ।
तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ ७.२७.२५ ॥
于是诸天之军一片骚动,他们见到战场前列那支不可穷尽的大军。
7.27.26
ततो युद्धं समभवेद्देवदानवरक्षसाम् ।
घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ॥ ७.२७.२६ ॥
于是诸天、檀那婆与罗刹之间爆发了可怕的大战,喧声震天,各种兵器高高举起。
7.27.27
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।
युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥ ७.२७.२७ ॥
此时,罗波那的那些勇猛而形貌可怖的大臣罗刹,为了战斗而挺身向前。
7.27.28
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।
अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ ७.२७.२८ ॥
摩利遮与普拉哈斯塔,大胁与大腹,阿堪波那与尼昆婆,还有鹦鹉与萨罗那。
7.27.29
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।
जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ॥ ७.२७.२९ ॥
僧诃罗陀与烟幢,大牙与瓶腹,阎浮摩利,大喜,还有罗刹毗卢叉。
7.27.30
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।
त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ७.२७.३० ॥
睡杀与祭怒,恶面,都舍那与呵罗,三头与莲目,还有罗刹日敌。
7.27.31
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ ।
एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ७.२७.३१ ॥
被所有这些人包围——摩诃迦耶与阿提迦耶、提婆安多迦与那罗安多迦——他,威力巨大,力量强盛。
7.27.32
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ।
स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः ।
व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ॥ ७.२७.३२ ॥
罗波那的外祖父苏摩利进入军中。他大怒,以各种锋利的兵器将诸神众尽数驱散,如同狂风吹散雨云。
7.27.33
तद्दैवतबलं राम हन्यमानं निशाचरैः ।
प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ७.२७.३३ ॥
啊,罗摩!那支被夜行者击杀的天神军队,从四面八方被驱散,如同被狮子驱赶的鹿群。
7.27.34
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।
सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ७.२७.३४ ॥
就在此时,诸婆苏中的第八位、以萨维特拉之名闻名的英雄婆苏踏入了战场。
7.27.35
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।
निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥ ७.२७.३५ ॥
同样,两位大勇的阿底提耶,特瓦史特与普善,披甲无惧,与其军队一同踏入了战场。
7.27.36
ततो युद्धं समभवत्सुराणां सह राक्षसैः ।
क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ ७.२७.३६ ॥
于是诸神与罗刹之间爆发了战斗:那些愤怒的罗刹从不在战场上后退,他们的威名在此显现。
7.27.37
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् ।
नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ ७.२७.३७ ॥
于是所有罗刹以种种可怖的兵器,在战场上对站立的诸天神发动了成千上万次的打击。
7.27.38
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।
समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ॥ ७.२७.३८ ॥
诸天神在战斗中以明亮的兵器,把那些凶猛、大力而勇猛的罗刹送往阎摩之处。
7.27.39
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।
नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ॥ ७.२७.३९ ॥
此时,罗摩啊,一名名叫苏摩利的罗刹愤怒地携带种种兵器,向那支军队猛扑过去。
7.27.40
स दैवतबलं सर्वं नानाप्रहणैः शितैः ।
व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ॥ ७.२७.४० ॥
那位极度愤怒者以种种锐利兵器,将诸天神的全部军队冲散,如同大风吹散雨云。
7.27.41
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।
हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ७.२७.४१ ॥
诸天神遭受大箭之雨以及极为可怕的三叉戟与长矛的打击,全都无法聚集站稳。
7.27.42
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।
वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ७.२७.४२ ॥
于是,诸天神被苏摩利击溃之时,诸婆薮中的第八位萨维特罗愤怒地坚定挺立。
7.27.43
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।
विक्रमेण महातेजा वारयामास संयुगे ॥ ७.२७.४३ ॥
他被自己的军队包围,以勇武在战斗中阻挡了正在进攻的夜行者。
7.27.44
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ॥ ७.२७.४४ ॥
于是二人之间爆发了一场令人毛骨悚然的大战。
7.27.45
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ।
ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।
निहतः पन्नगरथः क्षणेन विनिपातितः ॥ ७.२७.४५ ॥
在战斗中从不退缩的苏马林与婆苏之间:于是那位大德的婆苏以大箭在顷刻间射倒了蛇旗战车。
7.27.46
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।
गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ७.२७.४६ ॥
婆苏在战斗中摧毁了那辆插满数百支箭的战车后,便用手抓起一柄铁棒,要杀死他。
7.27.47
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।
तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥ ७.२७.४७ ॥
于是,萨维特拉婆苏举起那柄顶端燃烧、如死神之杖的铁棒,朝苏马林的头顶打去。
7.27.48
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ।
इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ॥ ७.२७.४८ ॥
那柄铁棒如火炬般燃烧,仿佛落向他身上;又如因陀罗所掷、咆哮着坠向山峦的大霹雳。
7.27.49
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।
गदया भस्मतां नीतं निहतस्य रणाजिरे ॥ ७.२७.४९ ॥
此时,战场上被杀者的骨、头、肉皆不可见;被钵杵化为灰烬。
7.27.50
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।
व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् ।
विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ७.२७.५० ॥
众罗刹见他战死,便从四面一同呼喊着奔逃;被婆苏驱赶的罗刹们无法站稳。