蚁垤《罗摩衍那》 · 篇 7.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.28.1
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ॥ ७.२८.१ ॥
见苏摩利已被伐苏所杀、化为灰烬,又看见自己的军队溃散,被诸天神所逼迫,
7.28.2
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा ।
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ ७.२८.२ ॥
于是勇猛而愤怒的罗波那之子雷云,使所有罗刹回转,屹立不动。
7.28.3
सुरथेनाग्निवर्णेन कामगेन महारथः ।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ७.२८.३ ॥
这位大车手乘着火红色、随意而行的战车,冲向那支军队,如同烈火扑向森林。
7.28.4
ततः प्रविशतस्तस्य विविधायुधधारिणः ।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ७.२८.४ ॥
随后,他持着各种兵器进入,诸天神一见到他便向四方奔逃。
7.28.5
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे ।
सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ॥ ७.२८.५ ॥
于是在他面前已无人想要交战。因众神皆惊恐,因陀罗便对诸天神说道。
7.28.6
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ७.२८.६ ॥
诸天神啊,不要惧怕,不要逃走,回到战场上来吧。我这位不败的儿子正去作战。
7.28.7
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।
रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ॥ ७.२८.७ ॥
于是,以因陀罗(帝释天)之子而闻名的神祇闍衍多,乘坐构造奇妙的战车,在战场上向前推进。
7.28.8
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ ७.२८.८ ॥
于是诸天神围住舍脂之子,在战斗中迎战罗婆那之子,并对他发起打击。
7.28.9
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ७.२८.९ ॥
诸天神与罗刹之间的那场战斗势均力敌,因陀罗之子与罗刹王之子之间的战斗也同样势均力敌。
7.28.10
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।
सारथौ पातयामास शरान्कनकभूषणान् ॥ ७.२८.१० ॥
于是罗刹之子向摩多利之子名为郭目的御者射下饰金的箭矢。
7.28.11
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।
तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ ७.२८.११ ॥
舍脂之子闍衍多同样设法保护他的御者,但愤怒的罗婆那之子也从四面八方用箭射穿了他。
7.28.12
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ ७.२८.१२ ॥
罗婆那之子满怀愤怒,力大无穷,双目圆睁,以箭雨覆盖了帝释之子。
7.28.13
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः ।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ ७.२८.१३ ॥
于是愤怒的罗波尼以千计的方式,将各式锋利的兵器投向诸神的军队。
7.28.14
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ ७.२८.१४ ॥
罗波尼投掷了百杀器、木棒、长矛、铁锤、长剑和战斧,还有巨大的山峰。
7.28.15
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् ।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ ७.२८.१५ ॥
于是世界恐惧,黑暗降临,因为罗波那之子正在击杀敌军。
7.28.16
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ ७.२८.१६ ॥
于是诸神之军四面受箭所害,在帝释天(舍suo之子)周围陷入多种混乱。
7.28.17
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा ।
तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ ७.२८.१७ ॥
他们彼此不能分辨,谁是罗刹,谁是天神;四面惶乱,东奔西跑。
7.28.18
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा ।
सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ ७.२८.१८ ॥
诸神互相残杀,罗刹也相互残杀;其余被黑暗所蔽、迷惑的人也同样四散奔逃。
7.28.19
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।
दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ॥ ७.२८.१९ ॥
此时,勇猛有力的补罗摩(Pulomā),即阿修罗之主,抓住了舍遮之子,将他带走了。
7.28.20
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।
आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ ७.२८.२० ॥
他抓住那外孙,便进入了大海;因为补罗摩是他的外祖父,舍遮是其女。
7.28.21
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।
अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ ७.२८.२१ ॥
诸神得知遮延多的败亡,便都失去欢喜,满怀忧伤,四散奔逃。
7.28.22
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ ७.२८.२२ ॥
于是罗波那之子怒火填膺,被自己的部众包围,向那些天神猛冲过去,发出巨大的吼声。
7.28.23
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।
मातलिं चाह देवेशो रथः समुपनीयताम् ॥ ७.२८.२३ ॥
看到儿子的败亡和诸神逃散,天神之主对摩多梨说:“把战车牵到这里来。”
7.28.24
स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो महाजवः ॥ ७.२८.२४ ॥
那辆神圣、极为可怖的大战车早已备妥,在摩多梨的驾驭下,疾速来到。
7.28.25
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ ७.२८.२५ ॥
此时,在那辆战车前方,携带闪电的强大云层疾如风,发出震天的巨响。
7.28.26
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।
ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ ७.२८.२६ ॥
天神之主出发时,乾闼婆们专注地奏响各种乐器,阿普萨拉斯的群众翩翩起舞。
7.28.27
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः ।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ ७.२८.२७ ॥
被楼陀罗、婆苏、阿底提、萨提亚与风神众环绕,手持各式兵器,三十三天之主出发了。
7.28.28
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।
भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ ७.२८.२८ ॥
帝释出发时,狂风大作,太阳失去光辉,巨大的流星纷纷坠落。
7.28.29
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ ७.२८.२९ ॥
此时,英勇而威猛的十首罗波那登上了毗首羯摩所造的神圣战车。
7.28.30
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः ।
तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ ७.२८.३० ॥
那战车被巨大而令人毛骨悚然的蛇群环绕,它们吐出的气息如风,使战车在战场上仿佛燃烧起来。
7.28.31
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।
समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ॥ ७.२८.३१ ॥
那辆战车被提提耶和夜行者环绕,提提耶面向战场,朝摩亨陀罗(因陀罗)推进。
7.28.32
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।
सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ७.२८.३२ ॥
他阻止了儿子,自己挺身而立;罗婆尼也退出战斗,坐了下来。
7.28.33
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।
शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ७.२८.३३ ॥
接着,诸神与罗刹之间爆发了可怕的战斗,武器如云般在战场上倾泻。
7.28.34
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।
नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ ७.२८.३४ ॥
然而心地邪恶的鸠摩羯罗那举起各种兵器投入战斗,那时竟不知他在与谁交战。
7.28.35
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः ।
येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ७.२८.३५ ॥
他以牙齿、双臂、双脚,以及长矛、投枪和箭——凡是手边所有,他都怒气冲冲地击打诸神。
7.28.36
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ ७.२८.३६ ॥
随后,他与极其可怕的楼陀罗相遇,在战斗中猛烈厮杀,并不断被他们的兵器所伤。
7.28.37
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।
विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥ ७.२८.३७ ॥
Kumbhakarṇa身上布满兵器,鲜血淋漓,光彩如乌云伴着闪电与雷鸣,倾盆而下。
7.28.38
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।
रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ ७.२८.३८ ॥
于是,那支与摩录多诸众激烈交战的罗刹大军,在战场上被各式锐利兵器彻底驱散。
7.28.39
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ ७.२८.३९ ॥
有些人被杀、被砍倒,在地上翻滚挣扎;有些人紧紧攀附在坐骑上;另一些人则仍然立在战场上。
7.28.40
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे ।
शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥ ७.२८.४० ॥
战斗中,他们骑乘战车、象、驴、骆驼、蛇、马、鳄鱼(śiṃśumāra)、野猪,以及长着毗舍遮面孔的怪物。
7.28.41
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः ।
देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ ७.२८.४१ ॥
有些人用双臂紧抱着它们,高高挺立;但被诸神的兵器刺穿,那些夜行者终于死去。
7.28.42
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः ।
निहतानां प्रमत्तानां राक्षसानां महीतले ॥ ७.२८.४२ ॥
那片战场的洪流,倒在地上、毫无防备的罗刹们的尸体,看起来就像一幅画。
7.28.43
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला ।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ७.२८.४३ ॥
一条流淌着血水的河流,布满白鹭与秃鹫,在战阵前奔涌而出,充满了兵器化作的鳄鱼。
7.28.44
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।
निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ ७.२८.४४ ॥
此时,愤怒而威猛的十首罗波那看见,他的全部大军已被诸神击倒。
7.28.45
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् ।
त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥ ७.२८.४५ ॥
他迅速冲入那浩瀚的兵海,在战斗中击杀诸神,径直朝因陀罗冲去。
7.28.46
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।
यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥ ७.२८.४६ ॥
因陀罗前来,以巨大的声响拉开他的大弓;弓弦的鸣响使十方都轰然作响。
7.28.47
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।
निपातयामास शरान्पावकादित्यवर्चसः ॥ ७.२८.४७ ॥
因陀罗拉开那张大弓,将如火焰与太阳般炽烈的箭矢射落在罗波那的头上。
7.28.48
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ७.२८.४८ ॥
同样,大臂的十首罗波那岿然不动,以从他弓上射出的箭雨将因陀罗覆盖。
7.28.49
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।
न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥ ७.२८.४९ ॥
二人交战之时,箭雨从四面八方落下,那时什么也看不见,因为一切都被黑暗笼罩。