Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 7.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.29.1

ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः ।
अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ ७.२९.१ ॥

やがて闇が訪れると、力の酔いに狂った神々と羅刹たちは、互いを殺し合いながら戦った。

7.29.2

ततस्तु देवसैन्येन राक्षसानां बृहद्बलम् ।
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ ७.२९.२ ॥

そこで神々の軍勢は、戦いの中で羅刹の大軍の十分の一を食い止め、残りをヤマの館へ送った。

7.29.3

तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः ।
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ७.२९.३ ॥

あの暗闇の戦いでは、神々も羅刹も互いに戦いながら、相手が誰かを見分けられなかった。

7.29.4

इन्द्रश्च रावणश्चैव रावणिश्च महाबलः ।
तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ७.२९.४ ॥

インドラ、ラーヴァナ、そして強大なラーヴァナの子(インドラジット)——この三者は、闇の網に覆われたその戦いの中でも迷い惑うことはなかった。

7.29.5

स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात् ।
क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ॥ ७.२९.५ ॥

だがラーヴァナは、自軍が一瞬にして殺されたのを見て、激しい怒りに襲われ、大音声を上げた。

7.29.6

क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह ।
परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ७.२९.६ ॥

怒りに満ちた不屈の彼は、戦車に立つ御者に言った。「敵軍の真ん中を、その果てまで私を連れて行け。」

7.29.7

अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।
नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७.२९.७ ॥

今日、私自身が戦場で武勇をもって、これら三十の神々を皆、恐ろしい様々な武器でヤマの館へ送ろう。

7.29.8

अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् ।
त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ।
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ७.२९.८ ॥

私はインドラ、ダナダ(クベーラ)、ヴァルナ、ヤマを殺そう。神々を倒した後、私自身が上に立とう。落胆してはならぬ。速やかに私の戦車を進めよ。

7.29.9

द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ७.२९.९ ॥

今日、私は二度言う。戦いの果てまで私を連れて行け。

7.29.10

अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् ।
नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ ७.२९.१० ॥

我々がいるこここそ、あのナンダナの地である。今、私をそこへ、ウダヤ山のある所へ連れて行け。

7.29.11

तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान् ।
आदिदेशाथ शत्रणां मध्येनैव च सारथिः ॥ ७.२९.११ ॥

彼の言葉を聞いて、御者は心のように速い馬を、まさに敵の真ん中を通って駆り立てた。

7.29.12

तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा ।
रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ॥ ७.२९.१२ ॥

彼の決意を知った神々の主シャクラ(インドラ)は、戦車に立ち、戦場にあって、それらの神々にこの言葉を語った。

7.29.13

सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते ।
जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ ७.२९.१३ ॥

神々よ、私の言葉を聞け。今はこれが良いと思われる。十頭の羅刹ダシャグリーヴァを生きたまま、しっかりと捕らえるべきだ。

7.29.14

एष ह्यतिबलः सैन्यै रथेन पवनौजसा ।
गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ ७.२९.१४ ॥

この極めて強大な者は、軍勢を率い、風のように速い戦車に乗って進むであろう。満月の時に大波が高まる海のように。

7.29.15

नह्येष हन्तुं शक्यो ऽद्य वरदानात्सुनिर्भयः ।
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ ७.२९.१५ ॥

恩恵によって彼は全く恐れを知らないので、今日殺すことはできない。ゆえに我々はこの羅刹を捕らえよう。戦いに備えよ。

7.29.16

यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ।
एवमेतस्य पापस्य निरोधो मम रोचते ॥ ७.२९.१६ ॥

バリを抑えた時に私が三界を享受したように、この罪深き者を抑えることが私には良いと思われる。

7.29.17

ततो ऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम् ।
अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ ७.२९.१७ ॥

その後、大王よ、インドラはラーヴァナを離れて別の場所へ行き、戦場で羅刹たちを恐れさせながら戦った。

7.29.18

उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः ।
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ ७.२९.१८ ॥

十頭のラーヴァナは退かずに北から突入し、百祭のインドラは南の側面から突入した。

7.29.19

ततः स योजनशतं प्रविष्टो राक्षसाधिपः ।
देवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ ७.२९.१९ ॥

そこで羅刹の主は百ヨージャナ内へ進み入り、神々の全軍を矢の雨で覆った。

7.29.20

ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् ।
न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥ ७.२९.२० ॥

そこでインドラは自軍が壊滅するのを見て、動じることなく十頭の者を包囲し、退かせた。

7.29.21

एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः ।
हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ ७.२९.२१ ॥

その間に、ダーナヴァと羅刹たちは「ああ、我らは殺された!」と叫び声を上げた。インドラがラーヴァナを捕らえたのを見て。

7.29.22

ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः ।
तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥ ७.२९.२२ ॥

そこでラーヴァナの子(インドラジット)は怒りに我を失い、戦車に乗って、激しく憤り、その恐ろしい軍勢へ突入した。

7.29.23

तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा ।
प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ ७.२९.२३ ॥

かつて牛の主(インドラ)が得た大いなる幻術に入り、激しく怒って、その軍勢へ襲いかかった。

7.29.24

स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत ।
महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ ७.२९.२४ ॥

彼は神々をすべて捨てて、ただインドラへ向かって突進した。しかし大いなる輝きのマヘーンドラは、敵の子を見なかった。

7.29.25

विमुक्तकवचस्तत्र वध्यमानो ऽपि रावणिः ।
त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥ ७.२९.२५ ॥

そこで鎧を外され、非常に勇猛な神々に打たれていたが、ラーヴァニ(インドラジット)は何もしなかった。

7.29.26

स मातलिं समायान्तं ताडयित्वा शरोत्तमैः ।
महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ ७.२९.२६ ॥

近づいてくるマータリを優れた矢で打ち、矢の雨でマヘーンドラを再び覆った。

7.29.27

ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम् ।
ऐरावतं समारुह्य मृगयामास रावणिम् ॥ ७.२९.२७ ॥

そこでシャクラは戦車を捨て、御者を去らせ、アイラーヴァタに乗って、ラーヴァニを探し求めた。

7.29.28

स तत्र मायाबलवानदृश्यो ऽथान्तरिक्षगः ।
इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥ ७.२९.२८ ॥

そこで幻術の力に優れた彼は、姿を消して空を移動し、インドラを幻術で取り囲み、矢で打って逃げ去った。

7.29.29

स तं यदा परिश्रान्तमिन्द्रं जज्ञे ऽथ रावणिः ।
तदैनं मायया बद्ध्वा स्वसैन्यमभितो ऽनयत् ॥ ७.२९.२९ ॥

ラーヴァニはインドラが疲れ果てたことを知ると、幻術で彼を縛り、自軍の方へ四方から連れて行った。

7.29.30

तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात् ।
महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥ ७.२९.३० ॥

マヘーンドラがあの大戦場から力ずくで連れ去られるのを見て、神々は皆、「いったいどうなるのか」と考えた。

7.29.31

दृश्यते न स मायावी शक्रजित्समितिञ्जयः ।
विद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥ ७.२९.३१ ॥

幻術の達人で戦いの勝者であるシャクラジット(Śakrajit)の姿は見えない。学識ある彼は幻術によってインドラを力ずくで連れ去っている。

7.29.32

एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा ।
रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ ७.२९.३२ ॥

その時、怒れる神々の軍勢は皆、ラーヴァナを背けさせ、矢の雨で彼を覆った。

7.29.33

रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा ।
न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥ ७.२९.३३ ॥

しかしラーヴァナはアーディティヤ神群とヴァス神群に出会い、敵に苦しめられて、その戦いで戦うことができなかった。

7.29.34

स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम् ।
रावणिः पितरं युद्धे दर्शनस्थो ऽब्रवीदिदम् ॥ ७.२९.३४ ॥

打撃に打ちのめされ、しおれた父を見て、戦場に姿を現して立っていたラーヴァナの息子はこう父に言った。

7.29.35

आगच्छ तात गच्छामो रणकर्म निवर्तताम् ।
जितं नो विदितं ते ऽस्तु स्वस्थो भव गतज्वरः ॥ ७.२९.३५ ॥

お父上、おいでください、参りましょう。戦いの務めは終わりにしましょう。我らの勝利はご存じのとおりです。ご安心ください、苦悩から解き放たれてください。

7.29.36

अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः ।
स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ ७.२९.३६ ॥

神々の軍勢と三界の主であるこの方は、運命の力によって捕らえられ、神々は誇りを打ち砕かれた。

7.29.37

यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा ।
वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ ७.२९.३७ ॥

力で敵を制し、三界を思いのままに享受せよ。今日ここで戦って苦労する必要がどこにあろうか。この戦いは無益である。

7.29.38

ततस्ते दैवतगणा निवृत्ता रणकर्मणः ।
तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ॥ ७.२९.३८ ॥

そこで神々の群れは戦いの務めから退いた。ラーヴァナの息子のその言葉を聞き、彼は心を落ち着けた。

7.29.39

अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः ।
स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ ७.२९.३९ ॥

さて戦いの熱から解放された主は、勝利を得て、夜歩く者たちの王は喜びのうちに自らの宮殿へ向かった。息子に会うと、彼はこの言葉を語った。

7.29.40

अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम् ।
यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ ७.२९.४० ॥

あの絶大な力にふさわしい武勇によって、お前は我が一族の誉れを高めた。今日お前は、比類なき力を持つこの神々の王と神々を打ち破ったのだ。

7.29.41

नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम् ।
अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ ७.२९.४१ ॥

ヴァーサヴァを戦車に乗せ、ここから都へ連れて行け。軍に囲まれて行くがよい。私も大臣たちとともに、すぐにお前の後ろから続こう。

7.29.42

अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः ।
स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ ७.२९.४२ ॥

さて、軍に囲まれ、乗り物とともに、神々の王を捕らえたラーヴァナの息子は、自らの宮殿に赴き、勇者はこれまで戦った羅刹たちを解散させた。