Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.3.1

अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः ।
अचिरेणैव कालेन पितेव तपसि स्थितः ॥ ७.३.१ ॥

随后,补罗斯蒂亚之子、诸仙中最杰出的毗首罗婆,不久便如其父一般专注于苦行。

7.3.2

सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ।
सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ ७.३.२ ॥

他诚实守信、品行端正、心气平和、专注于诵习经典、清净无染;对一切享乐毫不执着,始终奉行法道。

7.3.3

ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः ।
ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ॥ ७.३.३ ॥

大仙人跋低婆闻知其品行,便将自己貌如天女的女儿嫁给毗首罗婆为妻。

7.3.4

प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा ।
प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ॥ ७.३.४ ॥

依法接受了跋低婆之女,并以善于推究的智慧思量于己有利之事,(毗首罗婆便收下了她)。

7.3.5

मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः ।
स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ॥ ७.३.५ ॥

毗首罗婆以无上的喜悦,与她生下了一个充满力量、极其非凡的后代。

7.3.6

जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् ।
तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ॥ ७.३.६ ॥

精通法道的他生下一子,此子具备婆罗门的一切美德。此子出生时,祖父欣喜万分。

7.3.7

दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति ।
नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ ७.३.७ ॥

见他智慧吉祥,心中欢喜,说道:“他将成为财神。”于是与诸天仙一起为他取名。

7.3.8

यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव ।
तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ॥ ७.३.८ ॥

因为他是毗首罗婆之子,又与毗首罗婆相似,所以他将以毗首罗婆子“毗沙门”之名而闻名。

7.3.9

स तु वैश्रवणस्तत्र तपोवनगतस्तदा ।
अवर्धताहुतिहुतो महातेजा यथानलः ॥ ७.३.९ ॥

那时,毗沙门居于苦行林中,渐渐长大,光辉巨大,如同被祭品供养的火焰。

7.3.10

तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः ।
चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ॥ ७.३.१० ॥

居于仙舍的那位大德心中生起这样的决心:“我将践行至上的法,因为法是最高的归宿。”

7.3.11

स तु वर्षसहस्राणि तपस्तप्त्वा महावने ।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ॥ ७.३.११ ॥

他以严格的戒律约束自己,在大森林中修苦行千年,行持极为庞大的苦行。

7.3.12

पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् ।
जलाशी मारुताहारो निराहारस्तथैव च ॥ ७.३.१२ ॥

满千年之后,他依次采取各种修行方式:有时只饮水,有时只以风为食,有时则断食不进食物。

7.3.13

एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् ।
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ॥ ७.३.१३ ॥

如此,数千年如同一年般过去。于是大光明者欣然与因陀罗及诸天众一同,

7.3.14

गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् ।
परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत ।
वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ॥ ७.३.१४ ॥

梵天来到他的净修之处,说道:“孩子,持善誓者,我因你此行而心满意足。请选择一个恩赐吧,愿你吉祥,大智者,你配得上一个恩赐。”

7.3.15

अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् ।
भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ॥ ७.३.१५ ॥

于是毗沙罗婆那对前来的祖父说:“尊贵的主啊,我愿担任世界守护者之位,以守护财富。”

7.3.16

अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा ।
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ ७.३.१६ ॥

于是梵天心中欣悦,与诸天众一同对毗沙罗婆那说:“好,就这样吧。”他们都欢喜起来。

7.3.17

अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ॥ ७.३.१७ ॥

我确实决意要创造世界守护者中的第四位。

7.3.18

यमेन्द्रवरुणानां च पदं यत्तव चेप्सितम् ।
तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि ।
शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ॥ ७.३.१८ ॥

你所渴望的阎摩、因陀罗和伐楼那之位,你将得到。去吧,精通法者,获得财宝之主的权柄;在因陀罗、伐楼那和阎摩之后,你将成为第四位。

7.3.19

एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् ।
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ ७.३.१९ ॥

这辆名为补湿波迦的天界车辇,光如太阳,请接受它作为你的座驾,并与诸神比肩。

7.3.20

स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् ।
कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ॥ ७.३.२० ॥

愿你平安。我们都将如来时一般离去。亲爱的孩子,我们已赐予你两项恩典,我们的使命已经完成。

7.3.21

इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ॥ ७.३.२१ ॥

梵天说完这些话,便与诸神回到自己的居所。

7.3.22

गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् ।
वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान् ।
निवासनं न मे देवो विदधे स प्रजापतिः ॥ ७.३.२२ ॥

梵天等诸神升上天空之后,林中那位自制的儿子合掌对父亲说:“那位生主之神没有为我安排住所。”

7.3.23

भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् ।
तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ॥ ७.३.२३ ॥

尊敬的大人,我已从祖父那里获得了所求的恩典。主啊,请为我寻找一处合适的住所吧。

7.3.24

न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् ।
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ॥ ७.३.२४ ॥

那里应无任何生灵受苦。儿子如此说后,诸仙中最杰出的毗首罗婆……

7.3.25

वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः ।
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ॥ ७.३.२५ ॥

精通法义、善人中最优秀者说道:"听着:南方大海的岸边有一座名为三峰的山。"

7.3.26

तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा ।
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ॥ ७.३.२६ ॥

其顶上有名为楞伽的广阔美丽之城,如因陀罗之城,由毗首羯磨所建。

7.3.27

राक्षसानां निवासार्थं यथेन्द्रस्यामरावती ।
तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ॥ ७.३.२७ ॥

如因陀罗的阿玛拉瓦蒂,此乃罗刹的住所。你应住在那里,愿你安好;此事毫无疑问。

7.3.28

हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता ।
रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ॥ ७.३.२८ ॥

那座城市以金墙与门闩为界,充满机械与兵器,门楼以黄金和琉璃装饰,实在美丽。

7.3.29

राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः ।
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ ७.३.२९ ॥

往昔,罗刹因惧怕毗湿奴而离开了那座城市。所有罗刹众都下到了地底深处,城市因此空无一人。

7.3.30

शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते ।
स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥ ७.३.३० ॥

如今楞伽已空,无主之人。故我儿,可欣然前往那里居住。

7.3.31

निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित् ।
एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ॥ ७.३.३१ ॥

你在那里的居所是无可指摘的,那里也不会有任何人受到妨害。听了这话,那位德行高尚的人接受了父亲最合乎法度的话语。

7.3.32

निवासयामास तदा लङ्कां पर्वतमूर्धनि ।
नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ॥ ७.३.३२ ॥

于是他在山顶上安置了楞伽,与成千上万欢喜雀跃的涅哩多人一同居住。

7.3.33

अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ॥ ७.३.३३ ॥

不久之后,依照他的命令,(楞伽)便人口充满了。

7.3.34

स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः ।
समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ ७.३.३४ ॥

那位德行高尚的涅哩多人中的雄牛、毗室罗婆之子,欢喜地居住在被大海环绕的楞伽。

7.3.35

काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः ।
अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥ ७.३.३५ ॥

每隔一段时间,那位德行高尚、谦逊的财神便乘普什帕卡飞车前来拜见父母。

7.3.36

स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः ।
गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ ७.३.३६ ॥

受到诸天神和乾闼婆群体的赞颂,居所因天女的舞蹈而庄严,这位财神如太阳般以光芒照耀,前往父亲身边。