蚁垤《罗摩衍那》 · 篇 7.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.30.1
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै ।
प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ ७.३०.१ ॥
当因陀罗这位力量极大的神被罗波那之子击败后,诸神以生主为首前往楞伽城。
7.30.2
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम् ।
अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ॥ ७.३०.२ ॥
他来到被儿子与兄弟们簇拥的罗波那面前,站在空中,以和善之语对他说。
7.30.3
वत्स रावण तुष्टो ऽस्मि पुत्रस्य तव संयुगे ।
अहो ऽस्य विक्रमौदार्यं तव तुल्यो ऽधिको ऽपि वा ॥ ७.३०.३ ॥
"亲爱的孩子罗波那,我为你儿子在战斗中的勇武而感到欣慰。啊,他的勇猛与慷慨与你相当,甚至更胜一筹。"
7.30.4
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।
कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्वसुतेन वै ॥ ७.३०.४ ॥
你以自身的威光征服了三界。你的誓言已经实现,我确实为你的儿子而感到欣慰。
7.30.5
अयं च पुत्रो ऽतिबलस्तव रावण वीर्यवान् ।
जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ ७.३०.५ ॥
还有你这个儿子,罗波那啊,力量极大而勇猛;他将以“世界征服者因陀罗耆”(Jagatīndrajit)之名而闻名。
7.30.6
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः ।
यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ ७.३०.६ ॥
这位罗刹将会强大而不可战胜,啊国王;正是依靠他,你才使诸神臣服于你的掌控之下。
7.30.7
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।
किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥ ७.३०.७ ॥
因此,大臂者啊,愿因陀罗(帕卡之克星)释放他;愿天界的居民为他的释放献上某物。
7.30.8
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः ।
अमरत्वमहं देव वृणे यद्येष मुच्यते ॥ ७.३०.८ ॥
于是大光辉、善战的因陀罗胜者(因陀罗耆)说道:"神啊,若释放此人,我便求取不死之身。"
7.30.9
चतुष्पदां खेचराणामन्येषां वा महौजसाम् ।
वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ॥ ७.३०.९ ॥
无论是四足兽、飞禽、其他大力者,还是树木、灌木、丛林、藤蔓、草、石头与山岳,皆无不死之身。
7.30.10
सर्वे ऽपि जन्तवो ऽन्योन्यं भेतव्ये सति बिभ्यति ।
अतो ऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ॥ ७.३०.१० ॥
一切众生彼此互相畏惧;有可畏之物时,它们便感到恐惧。因此,在此世间,众人将因一切而生恐惧。
7.30.11
ततो ऽब्रवीन्महातेजा मेघनादं प्रजापतिः ।
नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि ।
चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ ७.३०.११ ॥
于是大光辉的众生之主(梵天)对迈加纳达(因陀罗耆)说:大地之上,任何生灵都没有完全的不死——无论是四足兽、飞禽,还是其他大力者。
7.30.12
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ॥ ७.३०.१२ ॥
因陀罗耆闻祖父(梵天)所说,关于那不坏(不死)之事,[作了回应]。
7.30.13
्वं हि कस्यचित्प्राणिनो भुवि ।
अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः ।
श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ ७.३०.१३ ॥
因为,对于地上任何有情众生而言……那时站在那里的大力者Meghanāda说道:请听,愿在释放Śatakratu(因陀罗)之事上成功。
7.30.14
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम् ।
सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ॥ ७.३०.१४ ॥
我所钟爱的(祭祀)总是以咒语和供品礼敬圣火而行;而渴望征服敌人的我,在踏入战场之前也如此行事。
7.30.15
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः ।
तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ॥ ७.३०.१५ ॥
愿从火中为我升起一辆驾着马的战车;愿我站在其上,获得不死——这是我坚定的决心与恩赐。
7.30.16
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ ।
युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ॥ ७.३०.१६ ॥
若在那火中的念诵与献祭尚未完成之前我便投入战斗,啊神,那么对我而言就会是毁灭。
7.30.17
सर्वो हि तपसा देव वृणोत्यमरतां पुमान् ।
विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ ७.३०.१७ ॥
啊神,每个人都以苦行求取不死;而我却以勇武推动了这份不死的实现。
7.30.18
एवमस्त्विति तं चाह वाक्यं देवः पितामहः ।
मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ ७.३०.१८ ॥
神圣的祖父(梵天)对他说:“就这样吧。”因陀罗(帝释天)被因陀罗耆(Indrajit)释放,诸天返回天界。
7.30.19
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः ।
इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ ७.३०.१९ ॥
罗摩啊,此时因忧虑而心神困扰、衣衫与光彩尽失的因陀罗,陷入了沉思冥想。
7.30.20
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः ।
शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ॥ ७.३०.२० ॥
天神生主见他如此,便说道:百祭啊,你从前究竟犯了什么重大过错?
7.30.21
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो ।
एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ ७.३०.२१ ॥
众天神之主啊,主啊,我如此创造了众多生灵,他们颜色相同、言语相似,各方面形貌都一致。
7.30.22
तासां नास्ति विशेषो हि दर्शने लक्षणे ऽपि वा ।
ततो ऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ॥ ७.३०.२२ ॥
他们之间在外貌乃至特征上都毫无区别,于是我专心一意地思量那些生灵。
7.30.23
सो ऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे ।
यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ ७.३०.२३ ॥
于是,为了在他们之间造出差别,我造了一位女子,从众生的每一个肢体中取其特别之处,置于她身上。
7.30.24
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।
हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ॥ ७.३०.२४ ॥
于是,我以美貌与德性造了一位名为阿诃厘雅的女子。这里“哈罗”一词指丑陋,“哈利亚”便由此而来。
7.30.25
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता ।
अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥ ७.३०.२५ ॥
因为她身上没有瑕疵(hálya),她以阿诃利耶(Ahalyā)之名而闻名。啊,帝释天,是我给她取了这个名字。
7.30.26
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ ।
भविष्यतीति कस्यैषा मम चिन्ता ततो ऽभवत् ॥ ७.३०.२६ ॥
啊,诸神中最尊贵者,当神创造出那位女子之后,我便产生了这样的忧虑:“她将属于谁?”
7.30.27
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।
स्थानाधिकतया पत्नी ममैषेति पुरन्दर ॥ ७.३०.२७ ॥
然而,啊,帝释天,主宰,你当时便在心中认出了那位女子:因她的高贵地位,她是我的妻子,啊,城堡摧毁者。
7.30.28
सा मया न्यासभूता तु गौतमस्य महात्मनः ।
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥ ७.३०.२८ ॥
她是由我托付给大德瞿昙仙人的;在他那里寄存了许多年,之后他将她归还了。
7.30.29
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः ।
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ ७.३०.२९ ॥
那时,他察觉到那位大仙的坚定,并知道他因苦行而得成就,于是为了妻子的缘故,她被触碰了。
7.30.30
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः ।
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ ७.३०.३० ॥
啊,正法之人,你怀着愤怒前往那位仙人的修行处,于是看见那女子光耀如火焰。
7.30.31
सा त्वया धर्षिता शक्र कामार्तेन समन्युना ।
दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥ ७.३०.३१ ॥
帝释天啊,你被欲望折磨并怀着愤怒,侵犯了她;那时这位至高的仙人在修行处看见了你。
7.30.32
ततः क्रुद्धेन तेना ऽसि शप्तः परमतेजसा ।
गतो ऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥ ७.३०.३२ ॥
于是那位光辉至高的人愤怒地诅咒了你,诸神之主啊;因此你的境遇发生了逆转。
7.30.33
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।
तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ ७.३०.३३ ॥
因为你毫无畏惧地侵犯了我的妻子,所以,婆薮啊,国王啊,你将在战斗中落入敌人之手。
7.30.34
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।
मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ ७.३०.३४ ॥
邪恶之人啊,你在此所做的这件事,也将在人类的世界中显现,毫无疑问。
7.30.35
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ।
न च ते स्थावरं स्थानं भविष्यति न संशयः ॥ ७.३०.३५ ॥
其果报的一半将落在作此事者身上,一半落在你身上;你的地位将不再稳固,毫无疑问。
7.30.36
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।
एष शापो मया मुक्त इत्यसौ त्वां तदा ऽब्रवीत् ॥ ७.३०.३६ ॥
无论谁成为诸神之主,都不会长久稳固。“此咒是我所发”,他当时对你这样说。
7.30.37
तां तु भार्यां स निर्भर्त्स्य सो ऽब्रवीत्सुमहातपाः ।
दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥ ७.३०.३७ ॥
那位大苦行者责备他的妻子,说道:"放纵无礼的女人,败坏的人,就在我的净修林旁边!"
7.30.38
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता ।
तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ ७.३०.३८ ॥
你虽有美貌与青春,却心志不定;因此你不会是世上唯一美丽的女子。
7.30.39
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ।
यत्तदेकं समाश्रित्य विभ्रमो ऽयमुपस्थितः ॥ ७.३०.३९ ॥
你的美貌将归于所有人,这毫无疑问;这种迷惑是因为执着于一物而产生的。
7.30.40
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।
सा तं प्रसादयामास महर्षिं गौतमं तदा ॥ ७.३०.४० ॥
从那时起,人们大多变得美貌。于是她设法使大仙人乔达摩息怒。
7.30.41
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा ।
न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ॥ ७.३०.४१ ॥
婆罗门啊,我因无知而被以你形象出现的天神所迷惑,并非出于贪欲。婆罗门仙人啊,您应当赐予我恩典。
7.30.42
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ।
उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ ७.३०.४२ ॥
阿诃厘耶如此说后,乔达摩答道:"在甘蔗王族中将诞生一位大放光明的大车将。"
7.30.43
रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ।
ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः ।
तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ॥ ७.३०.४३ ॥
那位在世间以罗摩之名闻名的大臂毗湿奴,将化作人形,为了婆罗门而来到森林。吉祥的女子啊,当你见到他时,你便会得到净化。
7.30.44
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम् ।
तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥ ७.३०.४४ ॥
唯有他能够洗净你所犯的过错。待你以款待迎接他之后,你便会来到我的面前。
7.30.45
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि ।
एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ॥ ७.३०.४५ ॥
那时你将与我同住,美丽的女子啊。说完这些,那位婆罗门中的仙人便回到了自己的修行林。
7.30.46
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः ।
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ॥ ७.३०.४६ ॥
那位梵论者的妻子曾修持极为殊胜的苦行。这一切确实因为那位仙人所施放的诅咒而降临到她身上。
7.30.47
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।
तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ॥ ७.३०.४७ ॥
因此,大臂者啊,请想起你所做过的恶行。婆薮啊,正是因为这个缘故,你才落入敌人之手,而非出于其他原因。
7.30.48
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः ।
पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ ७.३०.४८ ॥
你应当迅速以全心专注举行毗湿奴的祭祀。借这祭祀得到净化之后,你便会升往天界。
7.30.49
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।
नीतः सन्निहितश्चैव आर्यकेण महोदधौ ॥ ७.३०.४९ ॥
天神之主啊,你的儿子在那场大战中并未被杀;阿利耶迦将他带到大海中,妥善安置保护。
7.30.50
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।
पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ ७.३०.५० ॥
因德拉闻此,举行了奉献给毗湿奴的祭祀,再次升上天界,作为诸天之王统治。
7.30.51
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ।
निर्जितस्तेन देवेन्द्रः प्राणिनो ऽन्ये तु किं पुनः ॥ ७.३०.५१ ॥
这就是我所说的因陀罗耆多的力量;他连天神之主都战胜了,何况其他生灵呢?
7.30.52
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा ।
अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ ७.३०.५२ ॥
罗摩与罗什曼那于是说:“真奇妙!”听了阿伽斯提亚的话,猴群与罗刹们也都惊叹。
7.30.53
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् ।
आश्चर्यं स्मारितो ऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ॥ ७.३०.५३ ॥
站在罗摩身旁的毗缚铄那说道:“今天我想起了往昔所见的那桩奇事。”
7.30.54
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ॥ ७.३०.५४ ॥
罗摩对阿伽斯提亚说:“这是真的,我也曾听闻。”
7.30.55
एवं राम समुद्भूतो रावणो लोककण्टकः ।
सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ॥ ७.३०.५५ ॥
罗摩啊,就这样出现了罗波那,这世界的荆棘;他与其子在战斗中击败了诸神之主帝释天。