蚁垤《罗摩衍那》 · 篇 7.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.31.1
ततो रामो महातेजा विस्मयात्पुनरेव हि ।
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ ७.३१.१ ॥
于是大光明的罗摩因惊叹而再次俯身行礼,对最优秀的仙人阿加斯提亚说出这些话。
7.31.2
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।
पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥ ७.३१.२ ॥
尊者啊,自那残暴的罗刹开始在大地上游荡以来,世界是否已经空无人烟,再生者中最优秀的人啊?
7.31.3
राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।
धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥ ७.३१.३ ॥
那时这里难道没有一个国王或一名官员,不曾被罗刹之主罗波那所侮辱吗?
7.31.4
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।
बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥ ७.३१.४ ॥
或者大地的君主们已丧失勇力?是否有许多国王被优良的兵器驱逐并被征服?
7.31.5
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।
उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ७.३१.५ ॥
闻听罗怙之子的话语,尊者仙人阿加斯提亚微笑着对罗摩说话,如同祖父梵天对主神说话一般。
7.31.6
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।
चचार रावणो राम पृथिवीं पृथिवीपते ॥ ७.३१.६ ॥
如此,罗波那一边欺压诸王,一边游行于大地之上。罗摩啊,大地之主,诸王中的雄牛。
7.31.7
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।
सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ॥ ७.३१.७ ॥
随后他抵达了名为摩醯湿摩蒂的城市,光彩如天界之城,那里婆苏睿多斯(火神阿耆尼)常在。
7.31.8
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।
अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ ७.३१.८ ॥
因婆苏睿多斯(阿耆尼)的威力,那里的国王与他相等,名为阿周那;那里,卧于箭坑中的阿耆尼常在。
7.31.9
तमेव दिवसं सो ऽथ हैहयाधिपतिर्बली ।
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ७.३१.९ ॥
就在那一天,海诃耶族那位强大的主君阿周那携众女子前往纳尔玛达河嬉游。
7.31.10
तमेव दिवसं सो ऽथ रावणस्तत्र आगतः ।
रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ ७.३१.१० ॥
就在那一天,罗刹之主罗波那到达那里,并询问他的大臣们。
7.31.11
क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।
रावणो ऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।
ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ ७.३१.११ ॥
国王阿周那在哪里?请迅速而准确地告诉我。我罗波那,因渴望与人中最优者交战而来。请先把我的到来告知他。
7.31.12
इत्येवं रावणेनोक्तास्ते ऽमात्याः सुविपश्चितः ।
अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ ७.३१.१२ ॥
罗波那这样问后,那些极有智慧的大臣回答罗刹之主说,国王不在那里。
7.31.13
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।
अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥ ७.३१.१३ ॥
毗首罗婆之子听说阿周那已前往补罗那人的国土,便撤回,来到与喜马拉雅相似的温底耶山。
7.31.14
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम् ।
अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ ७.३१.१४ ॥
罗波那看见那座温底耶山,仿佛被云雾环绕,仿佛在大地上游荡,仿佛在刮擦天空。
7.31.15
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।
प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ॥ ७.३१.१५ ॥
它有千座山峰,洞穴中住着狮子;瀑布飞泻的水流,仿佛大海在放声大笑。
7.31.16
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।
स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥ ७.३१.१६ ॥
天神、danava、乾闼婆,与天女群和紧那罗,同自己的妻子嬉戏;它如同天界,极其高耸。
7.31.17
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम् ।
फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥ ७.३१.१७ ॥
河流奔流,其水如水晶;它矗立着,宛如带着兜帽、吐着颤动舌头的无尽蛇王。
7.31.18
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।
पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥ ७.३१.१८ ॥
罗波那望着那座布满洞穴、与喜马拉雅相似的高山,便从温底耶山前往纳尔马达河。
7.31.19
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥ ७.३१.१९ ॥
神圣的纳尔默达河,河水中布满移动的石头,向西方的大海流去。
7.31.20
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।
उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ॥ ७.३१.२० ॥
其水池被水牛、鹿、狮子、老虎、熊和最好的大象搅动,它们被热浪灼烤,口渴难耐。
7.31.21
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।
सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ॥ ७.३१.२१ ॥
被赤鸭、卡然达瓦鸭、天鹅、水禽和沙罗迦鹤环绕,它们总是欢欣雀跃,婉转鸣叫。
7.31.22
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।
विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ ७.३१.२२ ॥
以盛开的树木为冠,以赤鸭成双为胸,以宽阔的沙岸为腰,以成行的天鹅为华美的腰带。
7.31.23
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।
जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ।
पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ॥ ७.३१.२३ ॥
她的肢体沾满花粉,身披水沫织成的洁白衣裳,沐浴于水中,双眼如盛开的莲花般吉祥——罗波那迅速从普湿波迦车上下来,来到河流中最殊胜的纳尔默达河边。
7.31.24
इष्टामिव वरां नारीमवगाह्य दशाननः ।
स तस्याः पुलिने रम्ये नानामुनिनिषेविते ॥ ७.३१.२४ ॥
十首罗波那仿佛进入一位心爱的殊胜女子一般,潜入了她的水中;他来到她那宜人的岸边,那里是众多仙人常来之地。
7.31.25
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः ।
प्रख्याय नर्मदां सो ऽथ गङ्गेयमिति रावणः ॥ ७.३१.२५ ॥
罗刹之王罗波那与大臣们并坐,将那尔摩达河误认为恒河。
7.31.26
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः ।
उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥ ७.३१.२६ ॥
罗刹之主因见到那尔摩达河而心生喜悦,便在那里戏谑地对shuka和沙那说道。
7.31.27
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।
तीक्ष्णतापकरः सूर्यो नभसो ऽर्धं समाश्रितः ॥ ७.३१.२७ ॥
这太阳以千道光芒使世界变得金黄,散发酷烈的热力,已升至天空的一半。
7.31.28
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ॥ ७.३१.२८ ॥
仿佛知道我坐在这里,太阳竟如月亮一般行事。
7.31.29
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।
मद्भयादनिलो ऽप्यत्र वात्येष सुसमाहितः ॥ ७.३१.२९ ॥
这风因那尔摩达河水而清凉,芬芳而能解除疲倦,因惧怕我而在此轻柔地吹拂。
7.31.30
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।
नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥ ७.३१.३० ॥
这最好的河流那尔摩达,增添欢愉,以鳄鱼、鱼和飞鸟的波浪而立,宛如一位惊恐的女子。
7.31.31
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ७.३१.३१ ॥
因此你们在战斗中被与因陀罗相等的诸王的兵器所伤,身上溅满鲜血,犹如涂抹了檀香汁。
7.31.32
ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।
महापद्ममुखा मत्ता गङ्गामिव गहागजाः ।
अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ७.३१.३२ ॥
你们都去沐浴这吉祥、带来喜悦的纳尔玛达河,如同发情的野象走入恒河。在这大河中沐浴之后,你们将彻底摆脱罪孽。
7.31.33
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।
पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ७.३१.३३ ॥
今天我也要在如秋月般明亮的沙岸上,缓缓向结发的湿婆献上花供。
7.31.34
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।
समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ७.३१.३४ ॥
罗波那如此吩咐之后,普罗哈斯塔、舒卡、萨拉那与摩诃陀罗、烟眼一同步入纳尔玛达河。
7.31.35
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी ।
वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥ ७.३१.३५ ॥
罗刹王的那些象群搅动了纳尔玛达河,正如伟大的象群瓦马那、安闼那、帕德玛等搅动恒河一样。
7.31.36
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।
उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ ७.३१.३६ ॥
随后那些大力的罗刹在纳尔玛达河中沐浴,上岸之后,为罗波那的供奉取来了花朵。
7.31.37
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।
राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ ७.३१.३७ ॥
在那纳尔玛达河美丽的岸边,光明如白云,罗刹们片刻之间便堆成了一座花山。
7.31.38
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।
अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ७.३१.३८ ॥
鲜花如此献上之后,罗刹之主罗波那下到河中沐浴,如同大象走入恒河。
7.31.39
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।
नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ७.३१.३९ ॥
他在那里沐浴,依法诵念至上的真言,罗波那便从纳尔玛达河水中起身上岸。
7.31.40
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।
रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥ ७.३१.४० ॥
随后,他脱去湿衣,披上白衣,合掌前行,所有罗刹都跟随着罗波那。
7.31.41
तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ।
यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।
जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ ७.३१.४१ ॥
众罗刹随其行止,如同化身的群山;罗刹之主罗波那走到哪里,哪里就有人捧着一尊金制湿婆林伽。
7.31.42
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ ७.३१.४२ ॥
罗波那把那尊林伽安放在沙坛中央,以香料和带有甘露芳香的鲜花供奉礼拜。
7.31.43
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।
समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥ ७.३१.४३ ॥
于是那夜行者,以香花敬奉这位至上者——他解除善人之苦,赐予恩惠,以月光为饰——随后吟唱,伸展双臂,在他面前起舞。