蚁垤《罗摩衍那》 · 篇 7.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.32.1
नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ ७.३२.१ ॥
在那纳尔马达河岸,离那地方不远,极其可怕的罗刹王在那里献上花供。
7.32.2
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ ७.३२.२ ॥
胜利者中最杰出的阿周那,摩醯湿摩提的主人与君主,依托纳尔马达河水,与众女子嬉戏。
7.32.3
तासां मध्यगतो राजा रराज च तदार्जुनः ।
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ७.३२.३ ॥
国王阿周那置身其中,光辉灿烂,犹如千头母象中间的雄象。
7.32.4
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।
रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ७.३२.४ ॥
他想试验自己千臂的无上力量,被众多手臂环绕,遏止了纳尔马达河的奔流。
7.32.5
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।
कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ७.३२.५ ॥
那清澈的河水被迦尔塔维利耶的臂膀所阻,向河岸献上供奉,逆流奔去。
7.32.6
समीननक्रमकरः सपुष्पकुशसंस्तरः ।
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ७.३२.६ ॥
纳尔马达河的水流,鱼、鳄、摩伽罗遍布,铺满鲜花与吉祥草,宛如雨季般辉煌。
7.32.7
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः ।
पुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७.३२.७ ॥
那水流仿佛是迦尔塔维尔亚所遣,冲走了罗波那全部的花供。
7.32.8
रावणो ऽर्धसमाप्तं तमुत्सृज्य नियमं तदा ।
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ७.३२.८ ॥
于是罗波那舍弃未完成的仪式,望着那纳尔玛达河,仿佛看着一位心爱却怨怒的妻子。
7.32.9
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ७.३२.९ ॥
他望见西方那如大海涌起般不断增长的水势,便进入东方。
7.32.10
ततो ऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।
निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ ७.३२.१० ॥
于是罗波那看见那河流,上空鸟儿不安地盘旋,它恢复了本来的平静,宛如一位神情不动的女子。
7.32.11
सव्येतरकराङ्गुल्या सशब्दं च दशाननः ।
वेगप्रभावमन्वेष्टुं सो ऽदिशच्छुकसारणौ ॥ ७.३२.११ ॥
十首罗波那以左手指弹出声响,派遣数迦与萨兰那去探查水流的威势。
7.32.12
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ ।
व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ ७.३२.१२ ॥
罗波那所派的那两位英勇兄弟数迦与萨兰那,在空中穿行,面向西方出发了。
7.32.13
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ ७.३२.१३ ॥
两个夜行者走了半由旬,看见一个男子与女子们在水中嬉戏。
7.32.14
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।
मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ ७.३२.१४ ॥
他像一棵高大的娑罗树;头发因水而散乱,因醉意眼角发红,光彩也因醉意而昏乱。
7.32.15
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।
गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ ७.३२.१५ ॥
这位碾碎敌人的人以千臂拦住河流,像一座山以千足拦住大地。
7.32.16
बालानां वरनारीणां सहस्रेण समावृतम् ।
समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ ७.३२.१६ ॥
他被千名优秀的年轻女子环绕,犹如一头雄象被千头发情的母象环绕。
7.32.17
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।
सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ ७.३२.१७ ॥
两个罗刹首=Śuka和Sāraṇa看到那极为奇异的景象后,转身回来,走到罗波那面前对他说。
7.32.18
बृहत्सालप्रतीकाशः को ऽप्यसौ राक्षसेश्वर ।
नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ ७.३२.१८ ॥
罗刹之主啊,那个像一棵大娑罗树的人是谁?他像堤坝一样拦住了纳尔玛达河,让女子们在那里嬉戏。
7.32.19
तेन बाहुसहस्रेण सन्निरुद्धजला नदी ।
सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ॥ ७.३२.१९ ॥
那河水被千臂所阻,一次又一次地涌起如大海奔腾般的波浪。
7.32.20
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ ।
रावणो ऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ ७.३२.२० ॥
罗波那听了这两位——修伽与萨罗那——如此的话,渴望战斗,说了一声“这是阿周那”,便出发了。
7.32.21
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे ।
चण्डः प्रवाति पवनः सनादः सुरजास्तथा ॥ ७.३२.२१ ॥
当罗刹之主罗波那面向阿周那前进时,猛烈的风伴着呼啸吹起,诸天的花朵也同样如此。
7.32.22
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ।
महोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥ ७.३२.२२ ॥
罗波那被摩诃多罗、摩诃波湿伐、烟眼、修伽与萨罗那所围绕,只发出一声血红的吼叫,仿佛是乌云所送出。
7.32.23
संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र चार्जुनः ।
अदीर्घेणैव कालेन स तदा राक्षसो बली ।
तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ ७.३२.२३ ॥
被围绕的罗刹之主前往阿周那所在之处;不久,那位强大的罗刹,肤色如黑眼膏,便来到了可怖的那尔玛达湖。
7.32.24
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ ७.३२.२४ ॥
他在那里看见那位被女人们环绕的君王,如同被发情母象环绕的大象;罗刹之王此时看见了阿周那。
7.32.25
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ ७.३२.२५ ॥
罗刹之主因愤怒而双目通红,因力量而傲慢狂妄。
7.32.26
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा ।
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥ ७.३२.२६ ॥
他以低沉的声音对阿周那的大臣说:"海哈耶王的大臣们,快去通报。"
7.32.27
युद्धार्थी समनुप्राप्तो रावणो नाम राक्षसः ।
रावणस्य वचः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।
उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ ७.३२.२७ ॥
"求战的罗刹罗波那已经到来。"阿周那的大臣听到罗波那的话,持械起身,对罗波那说道。
7.32.28
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ॥ ७.३२.२८ ॥
"战斗的时机应当明确。好,罗波那,好。"
7.32.29
चः श्रुत्वा मन्त्रिणो ऽथार्जुनस्य ते ।
यः क्षीबं स्त्रीवृतं चैव योद्धुमुत्सहते नृपम् ।
स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसे ऽर्जुनम् ।
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ ७.३२.२९ ॥
"你醉酒而被女人环绕,竟敢与国王交战。在女人面前,你怎敢与阿周那交战?正如猛虎扑向母象群中狂暴的公象。"
7.32.30
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया ।
युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरे ऽर्जुनम् ॥ ७.३२.३० ॥
"十首的罗刹啊,今日且饶你,在此过夜吧。若你对战斗有信心,明日便在战场上与阿周那交战。"
7.32.31
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता ।
निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ७.३२.३१ ॥
若你有意作战,且被战斗的渴望所笼罩,那你便先杀死我们,然后再去与阿周那交战。
7.32.32
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।
सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ७.३२.३२ ॥
于是,那位国王的大臣在战斗中被罗波那的大臣杀死,并被饥饿的罗刹吞食。
7.32.33
ततो हलहलाशब्दो नर्मदातीर आबभौ ।
अर्जुनस्यानुयातऽणां रावणस्य च मन्त्रिणाम् ॥ ७.३२.३३ ॥
于是,在那摩陀河岸边,阿周那的随从与罗波那的大臣们发出了喧嚣之声。
7.32.34
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः ।
सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ ७.३२.३४ ॥
他们用箭、矛、枪、三叉戟和如金刚般的兵器折磨罗波那等人,从四面八方猛扑过来。
7.32.35
हैहयाधिपयोधानां वेग आसीत्सुदारुणः ।
सनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥ ७.३२.३५ ॥
海诃耶王的战士们冲杀的势头极为可怖,宛如充满鳄鱼、鱼和摩伽罗的大海的咆哮。
7.32.36
रावणस्य तु ते ऽमात्याः प्रहस्तशुकसारणाः ।
कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥ ७.३२.३६ ॥
罗波那的那些大臣——普罗诃斯塔、舒迦和萨罗那——怒火中烧,以其威力焚烧了迦尔塔维利耶的军队。
7.32.37
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।
क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ ७.३२.३७ ॥
罗波那的大臣们通过守门的侍卫,把那件事告诉了正在嬉戏的阿周那。
7.32.38
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततो ऽर्जुनः ।
उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ ७.३२.३८ ॥
阿周那听后,安慰那些女子说不必害怕,然后便像象王安遮那一样从恒河水中走了出来。
7.32.39
क्रोधदूषितनेत्रस्तु स ततो ऽर्जुनपावकः ।
प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ७.३२.३९ ॥
此时,眼中因愤怒而燃烧的阿周那,如同火焰一般,恐怖至极,犹如劫末之火般燃烧起来。
7.32.40
स तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।
अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ७.३२.४० ॥
他身戴精美金臂钏,迅速举起金刚杵,如太阳扑向黑暗一般,冲向罗刹们。
7.32.41
बाहुविक्षेपकरणां समुद्यम्य महागदाम् ।
गारुडं वेगमास्थाय चापपातैव सो ऽर्जुनः ॥ ७.३२.४१ ॥
举起那可以用双臂挥舞的大棒,取得金翅鸟般的速度,阿周那如同离弦之箭般向前冲去。
7.32.42
तस्य मार्गं समारुद्ध्य विन्ध्यो ऽर्कस्येव पर्वतः ।
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ७.३२.४२ ॥
阻挡他的去路,如同毗陀山挡在太阳前面,手持杵形武器的普拉哈斯塔屹立不动,如毗陀山一般稳固。
7.32.43
ततो ऽस्य मुसलं घोरं लोहबद्धं महोद्धतः ।
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ ७.३२.४३ ॥
于是愤怒的普罗诃斯塔投出他那铁箍的可怕铁杵,如云般咆哮。
7.32.44
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ७.३२.४४ ॥
从普罗诃斯塔手中脱出的那根铁杵顶端,出现了如无忧花簇般的火焰,仿佛在燃烧。
7.32.45
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः ।
निपुणं वञ्चयामास सगदो ऽगदविक्रमः ॥ ७.३२.४५ ॥
此时,卡尔塔维里雅·阿周那以自己的铁杵巧妙地迷惑了飞来的铁杵;他拥有不败的勇力。
7.32.46
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।
भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ७.३२.४६ ॥
于是海哈雅之主扑向普罗诃斯塔,挥舞着高达五百臂的沉重铁杵。
7.32.47
तथा हतो ऽतिवेगेन प्रहस्तो गदया तदा ।
निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ ७.३२.४७ ॥
普罗诃斯塔被铁杵以极大的力量击中,倒下了,如同被因陀罗金刚杵击中的山岳。
7.32.48
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।
समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ ७.३२.४८ ॥
见普罗诃斯塔倒下,摩利遮、舒迦、萨罗那与摩诃陀罗、烟眼一同退出了战场。
7.32.49
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते ।
रावणो ऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ ७.३२.४९ ॥
大臣们退去,普拉哈斯塔倒下后,罗波那迅速扑向最优秀的君王阿周那。
7.32.50
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।
नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥ ७.३२.५० ॥
千臂王与二十臂魔王之间那场可怖的战斗在那里开始了,这是国王与罗刹之间令人毛骨悚然的搏斗。
7.32.51
सागराविव संरब्धौ चलन्मूलाविवाचलौ ।
तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ७.३२.५१ ॥
二者怒火中烧,如同两片海洋;如同根基震动的两座山岳;如同光辉灿烂的两轮太阳;如同燃烧的两团烈火。
7.32.52
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ७.३२.५२ ॥
二者因力量而骄傲,如同两头象,或如同为所欲求而相斗的两头公牛;如同轰鸣的两朵乌云,如同两头猛狮。
7.32.53
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ ।
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ ७.३२.५३ ॥
于是二者如楼陀罗与死神般震怒,罗刹与阿周那以铁锤猛烈地相互击打。
7.32.54
वज्रप्रहारानचला यथा घोरान्विषेहिरे ।
गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ७.३२.५४ ॥
如同群山承受雷霆的可怕击打,那里的人与罗刹也承受着铁锤的打击。
7.32.55
यथा ऽ शनिरवेभ्यस्तु जायते ऽथ प्रतिश्रुतिः ।
तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ७.३२.५५ ॥
如雷霆之声从山间升起、回荡成回响,他们二人的铁杵击打之声,使四面八方都回响起来。
7.32.56
अर्जुनस्य गदा सा तु पात्यमाना ऽहितोरसि ।
काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ ७.३२.५६ ॥
阿周那的铁杵落在敌人胸前时,将天空映照成金色,如闪电一般。
7.32.57
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ७.३२.५७ ॥
同样,罗波那一次次击打在阿周那胸前的铁杵,如火球落在大山上般闪耀。
7.32.58
नार्जुनः खेदमायाति न राक्षसगणेश्वरः ।
इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ७.३२.५८ ॥
阿周那和罗刹众之主都不曾疲倦;他们二人的这场战斗,如同往昔两位强大的因陀罗之战。
7.32.59
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ ।
परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ ७.३२.५९ ॥
如两头公牛以角相斗,两头大象以象牙之尖相搏,那两位人中与罗刹中的最优者,彼此互相击打。
7.32.60
ततो ऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।
स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ७.३२.६० ॥
于是阿周那愤怒,以全部生命之力,将那铁杵掷向罗波那宽大的胸膛,正落在两乳之间。
7.32.61
वरदानकृतत्राणे सा गदा रावणोरसि ।
दुर्बलेव यथावेगं द्विधाभूत्वा ऽपतत्क्षितौ ॥ ७.३२.६१ ॥
那根鹿棒如同羸弱之物,在受恩赐庇护的罗波那胸前依其冲力裂为两段,坠落于地。
7.32.62
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ ७.३२.६२ ॥
罗波那被阿周那投来的鹿棒击中,后退一张弓的距离,呻吟着坐了下去。
7.32.63
स विह्वलं तदालक्ष्य दशग्रीवं ततो ऽर्जुनः ।
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ७.३२.६३ ॥
阿周那见罗波那神志昏乱,便猛然跃起,将这十首之王抓住,如金翅鸟擒住蛇一般。
7.32.64
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम् ।
बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ ७.३२.६४ ॥
那位有力的王以千臂用力抓住十面者并将其捆绑,正如那罗延捆绑了波利一般。
7.32.65
बध्यमाने दशग्रीवे सिद्धचारणदेवताः ।
साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ७.३२.६५ ॥
十首者被缚之时,悉达、遮罗那与天神齐声称善,向阿周那头上撒下花朵。
7.32.66
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ।
ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ७.३२.६६ ॥
如虎擒鹿、狮擒象而咆哮,哈伊哈耶王欢喜之下,如云般一再吼声震天。
7.32.67
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।
सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ ७.३२.६७ ॥
普拉哈斯塔恢复了神志,见十首罗波那被缚,怒火中烧,与那些罗刹一同扑向国王。
7.32.68
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ ।
उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ७.३२.६८ ॥
那些夜行者的冲击如此猛烈,如同暑气消退后升起于大海之上的云团。
7.32.69
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।
मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ॥ ७.३२.६९ ॥
他们一再大喊:“放开他!放开他!”“站住,站住!”随即向阿周那投掷铁杵与长矛。
7.32.70
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः ।
आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७.३२.७० ॥
那些兵器尚未到达,无所畏惧的阿周那,作为敌人的摧毁者,便迅速抓住了诸神之敌的兵器。
7.32.71
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।
भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७.३२.७१ ॥
随后,他以那些难以抵挡的上等兵器刺穿罗刹,将他们驱散,如同风吹散云团。
7.32.72
राक्षसांस्त्रासयित्वा तु कार्तवीर्यो ऽर्जुनस्तदा ।
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७.३२.७२ ॥
迦尔塔维尔亚·阿周那惊吓了罗刹之后,擒住罗波那,在朋友们的簇拥下进入了城市。
7.32.73
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः ।
तदा ऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७.३२.७३ ॥
此时,婆罗门与城中百姓以花朵和完整的米粒成堆地向他撒去。阿周那如同因陀罗一般,走进了那座城市,仿佛千眼之神降伏了迦利之后入城一般。