Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.34.1

अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः ।
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ ७.३४.१ ॥

罗刹之王罗波那被阿周那释放后,毫不气馁,就这样遍游整个大地。

7.34.2

राक्षसं वा मनुष्यं वा शृणुते ऽयं बलाधिकम् ।
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ ७.३४.२ ॥

若他听说有比自己更强的罗刹或人类,傲慢的罗波那便会前去找他并向他挑战决战。

7.34.3

ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम् ।
गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ॥ ७.३४.३ ॥

之后有一次,他来到由波利守护的启湿建陀城,向佩戴金花环的波利挑战决战。

7.34.4

ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः ।
उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ ७.३४.४ ॥

于是,猴族大臣、塔拉之父、主君塔罗,对前来求战的他说了这些话。

7.34.5

राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत् ।
को ऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥ ७.३४.५ ॥

罗刹之主啊,波利已经出去了。与你力量相当的只有波利,除他之外,还有哪只猴子能够当面抵挡你?

7.34.6

चतुर्भ्यो ऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण ।
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ ७.३४.६ ॥

罗波那啊,波利在四海之滨完成黄昏祭礼,此刻就要回来了;请稍等片刻。

7.34.7

एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः ।
युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ ७.३४.७ ॥

国王啊,看这些如海螺般洁白的骸骨堆。它们属于那些寻求战斗的人,被猴王的光辉所焚。

7.34.8

यद्वा ऽमृतरसः पीतस्त्वया रावण राक्षस ।
तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ ७.३४.८ ॥

或者,罗刹罗波那啊,即便你饮过甘露,一旦遇到婆利,你的生命就将终结。

7.34.9

पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत ।
इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥ ७.३४.९ ॥

毗舍罗婆之子啊,现在看这世间的奇观。停留片刻;这对你来说将是难得的。

7.34.10

अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम् ।
वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ ७.३४.१० ॥

或者你若急于赴死,就去南海吧;在那里你将看到婆利立于大地上,如同烈火。

7.34.11

स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः ।
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ ७.३४.११ ॥

于是令世界恐惧的罗波那斥责了多罗,登上普什帕卡飞车,向南海进发。

7.34.12

तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम् ।
रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ॥ ७.३४.१२ ॥

罗波那在那里看见婆利,他如同金山,面如初升的太阳,专心于晨昏的祭拜。

7.34.13

पुष्पकादवरुह्याथ रावणो ऽञ्जनसन्निभः ।
ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ॥ ७.३४.१३ ॥

罗波那从普史波迦飞车上下来,黑如眼墨,悄无声息地迅速走近,想要抓住波林。

7.34.14

यदृच्छया तदा दृष्टो वालिनापि स रावणः ।
पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ॥ ७.३४.१४ ॥

此时,波林偶然也看见了罗波那;他虽看出这恶意之人的图谋,却并不慌乱。

7.34.15

शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा ।
न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ ७.३४.१५ ॥

犹如狮子看见兔子、金翅鸟看见蛇时并不担忧,波林也不把立意作恶的罗波那放在心上。

7.34.16

जिघृक्षमाणमायान्तं रावणं पापचेतसम् ।
कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ ७.३४.१६ ॥

我要把这个心怀恶念、想要抓我的罗波那夹在腋下,带着他前往三大海洋。

7.34.17

द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम् ।
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ ७.३४.१७ ॥

他们将看见我怀中的那个敌人,十颈的罗波那,大腿、手臂和衣物滑落下垂,像被金翅鸟提着的蛇。

7.34.18

इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः ।
जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥ ७.३४.१८ ॥

波林如此打定主意,将手贴近耳朵,口中低诵吠陀真言,像山王一样岿然不动地站立。

7.34.19

तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ ।
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ ७.३४.१९ ॥

二者,猴王与罗刹王,恃力自豪,各欲擒住对方,遂竭力为之。

7.34.20

हस्तग्राहं तु तं मत्वा पादशब्देन रावणम् ।
पराङ्मुखो ऽपि जग्राह वाली सर्पमिवाण्डजः ॥ ७.३४.२० ॥

察觉其欲执手之意,又凭脚步声认出罗波那,婆梨虽背转着脸,仍将他抓住,如大鸟擒蛇。

7.34.21

ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः ।
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ ७.३४.२१ ॥

猴子擒住欲擒自己的罗刹之主,夹于腋下,疾速跃向天空。

7.34.22

तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः ।
जहार रावणं वाली पवनस्तोयदं यथा ॥ ७.३४.२२ ॥

罗波那虽折磨他,又以指甲屡屡抓撕,婆梨仍将他带走,如风卷云。

7.34.23

अथ ते राक्षसामात्या ह्रियमाणं दशाननम् ।
मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ ७.३४.२३ ॥

此时罗刹诸大臣见十首之王被掳去,欲救其出,便呼喊着向婆梨冲去。

7.34.24

अन्वीयमानस्तैर्वाली भ्राजते ऽम्बरमध्यगः ।
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ ७.३४.२४ ॥

婆梨被众人追随,行于空中央,光辉耀眼,如日处天际,为群云所逐。

7.34.25

ते ऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः ।
तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ ७.३४.२५ ॥

那些罗刹中的翘楚无法追上婆利,因他双臂与双腿的疾速而精疲力竭,停立原地。

7.34.26

वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः ।
किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ ७.३४.२६ ॥

婆利前行之时,连山王也让开了他的道路;那么,一个血肉之躯、想要保全性命的人又该怎么办呢?

7.34.27

अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः ।
क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ॥ ७.३४.२७ ॥

这位速度极快的猴王越过群鸟,依次穿过所有大海,在黄昏时分到达。

7.34.28

सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः ।
पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ ७.३४.२८ ॥

受众生与空行者的敬重,空行者中的翘楚婆利与罗波那一同抵达西方大海。

7.34.29

तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः ।
उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥ ७.३४.२९ ॥

他在那里行了黄昏礼、沐浴并持诵之后,背负着十首之王,朝北方的大海而去。

7.34.30

बहुयोजनसाहस्रं वहमानो महाहरिः ।
वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥ ७.३४.३० ॥

这位大猴背负着敌人,以如风、如意的速度,飞驰了数千由旬。

7.34.31

उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम् ।
वहमानो ऽगमद्वाली पूर्वं वै स महोदधिम् ॥ ७.३४.३१ ॥

在北方之海完成黄昏祭礼后,瓦利背负十首罗婆那,先前往那大海而去。

7.34.32

तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः ।
किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ ७.३४.३२ ॥

在那里他同样完成黄昏祭礼,因陀罗之子(瓦利)与猴王一同抓住罗婆那,又返回基什坎陀四周。

7.34.33

चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः ।
रावणोद्वहनश्रान्तः किष्किन्धोपवने ऽपतत् ॥ ७.३४.३३ ॥

在四海之中也完成了黄昏祭礼之后,因背负罗婆那而疲惫的猴子,倒在基什坎陀的花园中。

7.34.34

रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः ।
कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥ ७.३४.३४ ॥

于是猿中最优者把罗婆那从腋下放开,一次又一次地嘲笑罗婆那,说道:“你是从哪里来的?”

7.34.35

विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः ।
राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ ७.३४.३५ ॥

然而罗刹之王大为惊愕,眼神因疲惫而游移不定,对猴王说了这番话。

7.34.36

वानरेन्द्र महेन्द्राभ राक्षसेन्द्रो ऽस्मि रावणः ।
युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ॥ ७.३४.३६ ॥

猴王啊,光辉如大因陀罗!我是罗刹之王罗婆那。怀着求战之心来到这里,今日你终于遇到了我。

7.34.37

अहो बलमहो वीर्यमहो गाम्भीर्यमेव च ।
येनाहं पशुवद्गृह्य भ्रामितश्चतुरो ऽर्णवान् ॥ ७.३४.३७ ॥

啊,何等力量!啊,何等勇武!啊,何等深沉!你像擒获野兽一样抓住我,使我在四海之间漂泊。

7.34.38

एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान् ।
मां चैवोद्वहमानस्तु को ऽन्यो वीरः क्रमिष्यति ॥ ७.३४.३८ ॥

如此,英雄啊,你不知疲倦地负载着我,迅速渡过了大海。还有哪位英雄能背负着我渡过这些海洋呢?

7.34.39

त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम ।
मनोनिलसुपर्णानां तव चात्र न संशयः ॥ ७.३४.३९ ॥

跳跃者中最优秀的啊,这便是三者的速度:意念、风与迦楼罗;而你的速度也在其中,此事毫无疑问。

7.34.40

सो ऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव ।
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ ७.३४.४० ॥

我已见识你的力量,猴中之杰啊,我愿在火神面前与你结下长久而极为深厚的友谊。

7.34.41

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम् ।
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ ७.३४.४१ ॥

妻子、儿子、城邑、国土、享乐、衣饰与饮食——一切,猴王啊,都将为我们二人所共有而不分割。

7.34.42

ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ ।
भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ॥ ७.३४.४२ ॥

于是二者——猴与罗刹——点燃火,结为兄弟,相互拥抱。

7.34.43

अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ ।
किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥ ७.३४.४३ ॥

于是两人彼此伸臂相拥,欢欣地进入了基什肯陀,如同两头狮子走进山间洞穴。

7.34.44

स तत्र मासमुषितः सुग्रीव इव रावणः ।
अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥ ७.३४.४४ ॥

罗波那在那里停留了一个月,如同须羯哩婆一样;他被前来的大臣带去那里,这些人渴望毁灭三界。

7.34.45

एवमेतत्पुरावृत्तं वालिना रावणः प्रभो ।
धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥ ७.३४.४५ ॥

主啊,此事在往昔已然发生:罗波那被婆利击败,并在圣火面前被立为兄弟。

7.34.46

बलमप्रतिमं राम वालिनो ऽभवदुत्तमम् ।
सो ऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ ७.३४.४६ ॥

罗摩啊,婆利的力量无与伦比、至高无上;然而他也被你焚毁了,正如飞蛾被火焚烧。