Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.35.1

अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् ।
प्राञ्जलिर्विनयोपेत इदमाह वचो ऽर्थवत् ॥ ७.३५.१ ॥

于是罗摩怀着谦逊,合掌向南方净修林的仙人发问,说出了这些有意义的话。

7.35.2

अतुलं बलमेतद्वै वालिनो रावणस्य च ।
न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ ७.३५.२ ॥

婆梨与罗波那的这份力量无与伦比,但依我之见,此二人都不及哈奴曼。

7.35.3

शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।
विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ७.३५.३ ॥

勇气、技巧、力量、坚定、智慧、善治之道、威武与威严,都在哈奴曼身上安住。

7.35.4

दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।
समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ ७.३५.४ ॥

他望见大海,又见猴军陷于绝望,便安慰众猴,纵身跃过了百由旬之远。

7.35.5

धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।
दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ ७.३५.५ ॥

他震慑了楞伽城,进入罗波那的内宫,见到悉多,与她交谈,也安慰了她。

7.35.6

सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।
एते हनुमता तत्र ह्येकेन वितिपातिताः ॥ ७.३५.६ ॥

军中的先锋、大臣之子、侍从以及罗波那之子,都被哈奴曼一人在那里击倒。

7.35.7

भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।
लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ ७.३५.७ ॥

他再次从束缚中挣脱,与十首罗波那交谈之后,将楞伽焚为灰烬,如同大火焚烧大地。

7.35.8

न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ७.३५.८ ॥

无论是死神、因陀罗、毗湿奴还是俱毗罗,都未曾听闻有如此事迹;这些是哈努曼在战斗中所建的功业。

7.35.9

एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।
प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ७.३५.९ ॥

凭借他双臂的力量,我得到了楞伽、悉多和罗什曼那,也得到了胜利、王国、朋友与亲族。

7.35.10

हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा ।
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ ७.३५.१० ॥

若哈努曼不是我们猴王的朋友,谁又能够探知耶那吉(悉多)的消息呢?

7.35.11

किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ७.३५.११ ॥

当敌对产生时,婆利为了讨好须羯里婆,为何没有像火焚烧藤蔓那样将他烧尽呢?

7.35.12

नहि वेदितवान्मन्ये हनूमानात्मनो बलम् ।
यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ ७.३५.१२ ॥

我认为哈努曼没有认识到自己的力量,因为他看见了比生命还珍贵的猴王正在受苦。

7.35.13

एतन्मे भगवन्सर्वं हनूमति महामतौ ।
विस्तरेण यथातत्त्वं कथयामरपूजित ॥ ७.३५.१३ ॥

尊者啊,请将关于大智慧的哈努曼的这一切,详尽而如实地告诉我吧,您是受天神敬奉的。

7.35.14

राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।
हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ ७.३५.१४ ॥

闻罗摩之言有理有据,于是仙人当着哈努曼的面对他说了这番话。

7.35.15

सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।
न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ ७.३५.१५ ॥

罗怙子中最优秀者啊,你所说关于哈努曼的话是真实的:力量上无人能与他相比,速度与智慧上也无人胜过他。

7.35.16

अमोघशापैः शप्तस्तु दत्तो ऽस्य मुनिभिः पुरा ।
न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ ७.३५.१६ ॥

他被圣人们很早以前降下的不可避免的诅咒所缠,因此不知自己的力量,虽然他强大,能摧毁敌人。

7.35.17

बाल्ये ऽप्येतेन यत्कर्म कृतं राम महाबल ।
तन्न वर्णयितुं शक्यमिति बालतया ऽ ऽस्यते ॥ ७.३५.१७ ॥

罗摩啊,大力者,即便在童年,他所做的事迹也难以全部描述;因为年幼,人们只当作孩童的游戏。

7.35.18

यदि वा ऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।
समाधाय मतिं राम निशामय वदाम्यहम् ॥ ७.३५.१८ ॥

罗怙子啊,若你有意听闻,那么罗摩啊,请凝神静心地听吧,我将为你讲述。

7.35.19

सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ ७.३५.१९ ॥

有一座名为须弥的山,其金色光辉由太阳所赐;那里,他们的父亲名叫羯萨里,统治着王国。

7.35.20

तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।
जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ ७.३५.२० ॥

他的妻子名叫安遮那,以此闻名;她由风神伐由赐予,生下了一个杰出的儿子。

7.35.21

शालिशूकनिभाभासं प्रासूतामुं तदा ऽञ्जना ।
फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ ७.३५.२१ ॥

安遮那生下这个光辉如稻芽的儿子之后,那时想要采摘果实,便走出去,在深林中游走。

7.35.22

एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।
रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ ७.३५.२२ ॥

这孩子因离开母亲和饥饿而极度痛苦,哭得非常厉害,正如当年那个孩子在芦苇丛中哭泣一样。

7.35.23

तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।
ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ ७.३५.२३ ॥

那时,他看见升起的太阳,红如一堆槿花,他因贪图果实,便朝太阳跃起。

7.35.24

बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।
ग्रहीतुकामो बालार्कं प्लवते ऽम्बरमध्यगः ॥ ७.३५.२४ ॥

那孩子面向初升的太阳,仿佛化身的一轮初日,想要抓住这初日,便在天空中间跳跃前行。

7.35.25

एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।
देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ ७.३५.२५ ॥

当幼年的哈努曼如此跳跃之时,天神、檀那婆与夜叉皆大为惊异。

7.35.26

नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।
यथा ऽयं वायुपुत्रस्तु क्रमते ऽम्बरमुत्तमम् ॥ ७.३५.२६ ॥

即便疾风、迦楼罗或意念,也不如这位风之子在高空中如此疾行。

7.35.27

यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ।
यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ ७.३५.२७ ॥

若此幼童的行进与勇力已如此,待他得到青春与力量,其速度将会如何?

7.35.28

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।
सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ ७.३५.२८ ॥

恐惧太阳的炙热,风神清凉如霜雪堆积,跟随跳跃的爱子,护持着他。

7.35.29

बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ ७.३५.२९ ॥

他穿越天空数千由旬,凭借父亲的力量与孩童的无畏,已靠近了太阳。

7.35.30

शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।
कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ७.३५.३० ॥

太阳心想:“此童无所过失,且此处有事系于他身”,于是没有焚烧他。

7.35.31

यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।
तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ७.३५.३१ ॥

此人昨日跃起欲捉太阳,今日罗睺又想捉住这位日神。

7.35.32

अनेन स परामृष्टो राम सूर्यरथोपरि ।
अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ७.३५.३२ ॥

罗摩啊!他在日车之上被捉住,那摧残月亮与太阳的罗睺惊恐地退去了。

7.35.33

स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।
अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ७.३५.३३ ॥

那辛哈迦之子怒气冲冲地来到因陀罗的宫殿,皱起眉头,对被众天神环绕的天帝说道。

7.35.34

बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ७.३५.३४ ॥

婆薮啊!你既把月亮和太阳赐给我以解饥饿,为何又把它们给了别人,噢,击败弗栗多之力者?

7.35.35

अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।
अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ७.३५.३५ ॥

今日在交会之时我前来欲捉太阳,此时另一个罗睺走近,突然捉住了太阳。

7.35.36

स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।
उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ ७.३५.३६ ॥

因陀罗听到罗睺的话,惊慌失措,离开座位跃然而起,身上戴着金色花环。

7.35.37

ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।
शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ७.३५.३७ ॥

随后,那头如同凯拉萨山峰、有四根象牙、流淌发情液、装饰华丽、高大、以金铃铛的声响如同狂笑的象(因陀罗登上了它)。

7.35.38

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।
प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ७.३५.३८ ॥

因陀罗骑上那头雄伟的象,让罗睺走在前面,前往太阳与这位哈努曼同在的地方。

7.35.39

अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।
अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ ७.३५.३९ ॥

于是罗睺以极快的速度离开因陀罗而来;此人(哈努曼)看见了他,他像山峰一样猛冲过来。

7.35.40

ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।
उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ७.३५.४० ॥

于是,他放开太阳,看见罗睺如同一颗果实,便再次跃入天空,要抓住辛希卡之子。

7.35.41

उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।
अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ ७.३५.४१ ॥

罗摩啊!他放开太阳,看见这只飞奔而来的猴子,于是这样转身,背过脸去,躲开了。

7.35.42

इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।
इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ॥ ७.३५.४२ ॥

然而辛希卡之子(罗睺)以因陀罗为救护者而怀着希望,因恐惧而一再呼喊:“因陀罗!因陀罗!”

7.35.43

राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।
श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ७.३५.४३ ॥

因陀罗听到罗睺那先前无人察觉的呼声,说道:“不要怕,我要消灭他。”

7.35.44

ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।
फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ७.३५.४४ ॥

于是他看见爱罗婆多,心想:“这真是大的收获。”马鲁蒂便向那象王冲去。

7.35.45

तथास्य धावतो रूपमैरावतजिघृक्षया ।
मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ७.३५.४५ ॥

他奔跑着想要抓住爱罗婆多,身形一瞬间变得可怖而光耀,如同因陀罗与阿耆尼。

7.35.46

एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।
हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ७.३५.४६ ॥

因陀罗,舍基的夫君,并未十分愤怒,便将从手中掷出的金刚杵击中了冲来的他。

7.35.47

ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।
पतमानस्य चैतस्य वामो हनुरभज्यत ॥ ७.३५.४७ ॥

他被因陀罗的金刚杵击中,倒在山上,坠落时左颌骨折断。

7.35.48

तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।
चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ७.३५.४८ ॥

当那孩子倒下、被金刚杵击得昏乱时,风神(婆由)因对众生的伤害而对因陀罗大怒。

7.35.49

प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।
गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ७.३५.४९ ॥

那主宰者风神止住了在众生之中的运行,抱起自己的幼子,走进了一个山洞。

7.35.50

विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।
रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ७.३५.५० ॥

那使众生极度痛苦的风,将作为粪尿容器的身体全部封闭,阻止了一切众生,正如因陀罗止住降雨。

7.35.51

वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।
सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ७.३५.५१ ॥

因风的暴怒,各处众生都无法呼吸,关节断裂,变得如同木头一般。

7.35.52

निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।
वायुप्रकोपात्ऺत्रैलोक्यं निरयस्थमिवाभवत् ॥ ७.३५.५२ ॥

因风的暴怒,三界无诵读吠陀与供养之呼声,无祭祀之行,失去法度,仿佛身处地狱。

7.35.53

ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।
प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ७.३५.५३ ॥

于是众生与乾闼婆、天神、阿修罗及人类一同,忧伤而渴求安乐,奔向生主。

7.35.54

ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।
त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ७.३५.५४ ॥

众天神合掌而言,腹部胀大如大肚:"世尊,众生之主,确是您创造了四类众生。"

7.35.55

त्वया दत्तो ऽयमस्माकमायुषः पवनः पतिः ।
सो ऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषो ऽद्य सत्तम ॥ ७.३५.५५ ॥

您曾把这风赐予我们作为生命之主。至善者啊,他既是我们的气息之主,今日为何如此行事?

7.35.56

रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।
तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ ७.३५.५६ ॥

他阻挡我们,使我们受苦,仿佛我们是内宫的妇人。因此,我们被风所击,前来投奔您的庇护。

7.35.57

एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।
कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ ७.३५.५७ ॥

生灵之主、造物主补充道:"原因就在于此",听完众生之言后,他再次对他们说话。

7.35.58

यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।
प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ७.३५.५८ ॥

风之所以愤怒并阻挡你们,是因为某个缘故。众生啊,请听完整的始末,这对你们而言是值得聆听的。

7.35.59

पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।
राहोर्वचनमास्थाय ततः स कुपितो ऽनिलः ॥ ७.३५.५९ ॥

他的儿子今日被诸神之主因陀罗所击倒。于是,那风听信了罗睺的话,便愤怒起来。

7.35.60

अशरीरः शरीरेषु वायुश्चरति पालयन् ।
शरीरं हि विना वायुं समतां याति दारुभिः ॥ ७.३५.६० ॥

无形的风在众身之中运行,护持着它们。没有风,身体便如木头一样僵硬不动。

7.35.61

वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ ७.३५.६१ ॥

风即是生气,风即是安乐,风即是这整个世界。被风所弃的世界无法得到安乐。

7.35.62

अद्यैव च परित्यक्तं वायुना जगदायुषा ।
अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ७.३५.६२ ॥

今日,作为世界生命的风已将其舍弃;今日他们无息而立,如同木头或墙壁。

7.35.63

तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ७.३५.६३ ॥

那么我们便去往解除痛苦的风神所在之处吧。阿底提之子们啊,我们不可在未取悦他之前走向毁灭。

7.35.64

ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।
जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ७.३५.६४ ॥

于是造物主偕众生、诸天、乾闼婆、龙蛇与守秘者前往风神所在之处,将被天主因陀罗击伤的儿子抱起。

7.35.65

ततो ऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।
चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ७.३५.६५ ॥

于是四面之神看见那孩子如日、火、金般光辉,躺在萨达迦提的怀中,便与诸天、乾闼婆、仙人、夜叉、罗刹一同生起了悲悯。