Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.37.1

अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।
व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ ७.३७.१ ॥

当依法受膏、自知其性的迦古陀斯多(罗摩)登基之后,那增添市民欢喜的前一夜已经过去。

7.37.2

तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।
वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ ७.३७.२ ॥

那夜过去,黎明降临,负责唤醒君王的温和乐官们来到了王宫之中。

7.37.3

ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।
तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ॥ ७.३७.३ ॥

他们个个如受过训练、喉音甜美的紧那罗,满心欢喜,恰如其分地赞颂这位英勇的君王。

7.37.4

वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ ७.३७.४ ॥

英雄啊,温和的人啊,醒来吧!增添憍萨利亚欢喜的人啊!人主啊,你一睡,整个世界都睡去了。

7.37.5

विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।
बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ ७.३७.५ ॥

你的威勇如毗湿奴,你的容貌如双马神。以智慧而言,你与布里哈斯帕提相等;你确实如同生主(Prajāpati)。

7.37.6

क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।
वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ ७.३७.६ ॥

你的宽容如大地,光辉如太阳。你的速度与风相等,你的深沉如大海。

7.37.7

अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।
नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ ७.३७.७ ॥

人主啊,你坚定如不动的柱石,又有如月亮般的温和。这样的君王从前未曾有过,将来也不会有。

7.37.8

यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।
न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥ ७.३७.८ ॥

人中之最,你极难被战胜,常守法度,心系百姓的福祉;因此名声与福德永不离你。

7.37.9

श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।
एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥ ७.३७.९ ॥

迦古特斯田之后啊,吉祥与法常在你身中安住;这些以及其他美好的品德,都已被歌者赞颂。

7.37.10

सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।
स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ ७.३७.१० ॥

歌者以神圣的赞颂唤醒罗祸婆;在这些赞颂被吟唱时,罗祸婆醒来了。

7.37.11

स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् ।
उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ ७.३७.११ ॥

他离开那张铺着白色罩布的床榻而起身,正如哈利·那罗延从蛇床上起身一般。

7.37.12

तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।
सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ ७.३७.१२ ॥

数以千计的人躬身合掌,来到这位已经起身的大德面前,手捧盛水的洁白器皿。

7.37.13

कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।
देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ॥ ७.३७.१३ ॥

他以净水礼洁净自身,适时向火中献祭,迅速前往伊刹婆迦家族常至的那座圣洁神庙。

7.37.14

तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि ।
बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ॥ ७.३७.१४ ॥

他在那里依礼供奉诸神、祖先与婆罗门之后,被众人簇拥着走出,来到外室的内部。

7.37.15

उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।
वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥ ७.३७.१५ ॥

以婆悉吒为首的诸位大德大臣与祭司一同来到那里站立,光彩如同火焰。

7.37.16

क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।
रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ॥ ७.३७.१६ ॥

诸多邦国的大德刹帝利国王们在罗摩身旁就座,如同诸天围绕因陀罗而坐。

7.37.17

भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।
उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ ७.३७.१७ ॥

此处婆罗多、罗什曼那与大名鼎鼎的沙特鲁罗那欢喜侍立,如同三吠陀侍奉一场祭祀。

7.37.18

याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः ।
मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ॥ ७.३७.१८ ॥

合掌而来、面带喜色的侍从,以及站在身旁的众多欢喜之人,都在那里坐下了。

7.37.19

वानराश्च महावीर्या विंशतिः कामरूपिणः ।
सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥ ७.३७.१९ ॥

二十位勇武的猴族战士,能随意变化形貌,以须羯里婆为首,侍立于威力强大的罗摩身旁。

7.37.20

विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।
उपासते महात्मानं धनेशमिव गुह्यकाः ॥ ७.३७.२० ॥

毗भीषण被四名罗刹环绕,侍奉那位大德,如同夜叉侍奉财神俱毗罗一般。

7.37.21

तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।
शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ॥ ७.३७.२१ ॥

同样,城中的长者、出身高贵之人以及有见识之人,向国王低头行礼之后,侍奉于他身旁。

7.37.22

तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः ।
राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥ ७.३७.२२ ॥

如此,国王被光辉的仙人环绕,并有勇武的诸王、猴族与罗刹随侍左右。

7.37.23

यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।
अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ ७.३७.२३ ॥

如同天神之王时常受到仙人侍奉,他(罗摩)以那般威仪,光辉胜过千眼的因陀罗。

7.37.24

तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।
कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ ७.३७.२४ ॥

众人就坐之时,精通往世书的大德们讲述着种种充满法义的甜美故事。