蚁垤《罗摩衍那》 · 篇 7.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.38.1
एवमास्ते महाबाहुरहन्यहनि राघवः ।
प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ ७.३८.१ ॥
如此,大臂的罗阁婆日复一日地治理城中与乡间百姓的一切事务,居于彼处。
7.38.2
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम् ।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.२ ॥
过了几天,罗阁婆合掌对弥提罗的主宰、毗提诃王说了这些话。
7.38.3
भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।
भवतस्तेजसोग्रेण रावणो निहतो मया ॥ ७.३८.३ ॥
您实为我们坚定的依靠;是您守护了我们,我借着您猛烈的威光杀死了罗婆那。
7.38.4
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।
अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ॥ ७.३८.४ ॥
大王!对于甘蔗王族与弥提罗人,因婚姻姻亲而生的无比欢喜,在各方面都走在最前。
7.38.5
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव ।
भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ॥ ७.३८.५ ॥
因此,大王,您带着珍宝回到自己的城邑吧;婆罗多将在您身后随行,以为助力。
7.38.6
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।
प्रीतो ऽस्मि भवतो राजन्दर्शनेन नयेन च ॥ ७.३८.६ ॥
国王说“就这样吧”,并对罗阁婆说:“大王,我因见到您与您的良策而心中欢喜。”
7.38.7
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै ।
दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ ७.३८.७ ॥
我为自己所积聚的这些珍宝,大王啊,我全都交给我的女儿。
7.38.8
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः ।
प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ ७.३८.८ ॥
对着迦古特斯特家族的罗摩如此说完,心中欢喜的吉祥的遮那伽向罗怙后裔告辞,返回了弥提罗。
7.38.9
ततः प्रयाते जनके केकयं मातुलं प्रभुः ।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.३८.९ ॥
吉祥的遮那伽离去后,主上罗怙后裔合掌向他的母舅、俱伽国王说了这些话。
7.38.10
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।
आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ ७.३८.१० ॥
这王国、我、婆罗多和罗什曼那,都依靠你,大王;你,人中之牛,实为我们的归宿。
7.38.11
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति ।
तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥ ७.३८.११ ॥
年迈的国王必会因你而忧伤;所以,大王啊,愿你今日便欣然启程。
7.38.12
लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते ।
धनमादाय विपुलं रत्नानि विविधानि च ॥ ७.३८.१२ ॥
罗什曼那将在后随行护送,携带丰厚的财富和各种珍宝。
7.38.13
युधाजित्तु तथेत्याह गमनं प्रति राघवम् ।
रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ ७.३८.१३ ॥
犹陀耆多对罗om说,关于他的启程:“就这样吧。”又说:“愿珍宝与财富只在你身上永不耗尽。”
7.38.14
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः ।
रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ ७.३८.१४ ॥
增益Kekaya家族者绕着国王右旋行礼;此前罗摩也恭敬地问候并右绕行礼。
7.38.15
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः ।
हते ऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ ७.३८.१५ ॥
Kekaya之主与罗什曼那同行启程,犹如因陀罗在恶魔弗栗多被杀后与毗湿奴同行。
7.38.16
तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ ७.३८.१६ ॥
送别他后,罗摩拥抱了无畏的朋友迦尸之主波罗达那,并说了这些话。
7.38.17
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।
उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ ७.३८.१७ ॥
大王啊,你展示了深情与至高的友谊;你与婆罗多一同也尽了力。
7.38.18
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।
रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ ७.३८.१८ ॥
因此你今日便前往迦尸城瓦腊纳西,那里美丽,由你守护,极其光明,并有精美的门楼。
7.38.19
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् ।
पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ ७.३८.१९ ॥
说完这些话,正直的迦古特斯塔之子罗摩从高座上起身,将靠在胸前的他紧紧拥抱。
7.38.20
विसर्जयामास तदा कौसल्यानन्दवर्धनः ।
राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः ।
वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ ७.३८.२० ॥
于是增添考莎厘雅喜悦的罗摩送别了迦尸王。得到罗怙之子的许可,这位无所畏惧的迦尸主很快返回瓦腊纳西,由罗怙之子送别。
7.38.21
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।
प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ ७.३८.२१ ॥
送别迦尸王和三百位国王后,罗怙之子微笑着说出了音韵甜美的话语。
7.38.22
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ ७.३८.२२ ॥
愿你们的情谊坚定不移,愿你们的勇力护持它;愿你们的法常恒不变,愿你们的真实永远长存。
7.38.23
युष्माकं चानुभावेन तेजसा च महात्मनाम् ।
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ ७.३८.२३ ॥
凭借你们的威力与大德者的勇力,那恶心、恶智、罗刹中最卑劣的罗婆那被杀死了。
7.38.24
हेतुमात्रमहं तत्र भवतां तेजसा हतः ।
रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ ७.३८.२४ ॥
我在其中只是一个缘由;凭借你们的勇力,罗婆那在战斗中与他的军队、儿子、大臣和亲族一同被杀。
7.38.25
भवन्तश्च समानीता भरतेन महात्मना ।
श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ ७.३८.२५ ॥
大士婆罗多听说遮那迦王之女在林中被劫走,便将你们都召集到了这里。
7.38.26
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।
कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥ ७.३८.२६ ॥
诸位准备就绪的大士国王已等候多时,因此我认为现在应当启程。
7.38.27
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः ।
दिष्ट्यां त्वं विजयी राम स्वराज्ये ऽपि प्रतिष्ठितः ॥ ७.३८.२७ ॥
被巨大喜悦所包围的诸王回答他说:“幸运的是,你获胜了,罗摩;你也已在自己的王国中确立了地位。”
7.38.28
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः ।
एष नः परमः काम एषा नः पीतिरुत्तमा ॥ ७.३८.२८ ॥
幸运的是,悉多被找回;幸运的是,敌人被击败。这正是我们最高的愿望,也是我们最大的喜悦。
7.38.29
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥ ७.३८.२९ ॥
罗摩啊,我们看到你获胜,敌人已被消灭。
7.38.30
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे ।
प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ ७.३८.३० ॥
你这样赞美我们,对你来说是恰当的;但我们并不配受此赞誉,也不知如何说出这样的赞美之词。
7.38.31
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ।
वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।
भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ ७.३८.३१ ॥
我们辞行而去;您始终居于我们心中。啊,大臂者,我们在此受到深厚情谊的环绕。啊,大王,愿您对我们的爱永远长存。
7.38.32
बाढमित्येव राजानो हर्षेण परमान्विताः ।
उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ ७.३८.३२ ॥
众王怀着无上的喜悦说:“好,就这样吧。”他们合掌,急于启程,对罗ghava说道。
7.38.33
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ ७.३८.३३ ॥
受到罗摩的尊敬之后,他们各自返回了自己的国土。