蚁垤《罗摩衍那》 · 篇 7.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.4.1
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।
कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ॥ ७.४.१ ॥
罗摩听了阿伽斯提亚所说的话,心中惊异:从前楞伽城的罗刹是如何出现的?
7.4.2
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।
तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ॥ ७.४.२ ॥
于是,罗摩摇摇头,多次注视着形体如三火祭火般的阿伽斯提亚,微笑着说道。
7.4.3
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।
श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ ७.४.३ ॥
尊者啊,从前这楞伽城也是食肉罗刹的居所。听了您的这番话,我心中极为惊异。
7.4.4
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।
इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ॥ ७.४.४ ॥
我们听说罗刹出自补罗斯底耶的世系;如今您又从另一来源说明了他们的起源。
7.4.5
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ ७.४.५ ॥
他们是否比罗波那、拘槃迦尔那、普拉哈斯塔、毗迦吒,甚至罗波那的儿子们更加强大?
7.4.6
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः ।
अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥ ७.४.६ ॥
婆罗门啊,他们之中最初的是谁?那位极其强大者名叫什么?因何过错,毗湿奴又是如何驱逐他们的?
7.4.7
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥ ७.४.७ ॥
无罪的圣者啊,请将这一切详细告诉我。如太阳驱散黑暗,请驱散我心中的这份好奇。
7.4.8
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ ७.४.८ ॥
阿伽斯提听了罗伽婆的文雅吉祥之言,略感惊讶,便对罗伽婆说道。
7.4.9
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।
तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ॥ ७.४.९ ॥
往昔,生于水中的生主创造了水,又从莲花中降生,创造众生来守护它们。
7.4.10
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥ ७.४.१० ॥
那些被饥渴与恐惧所折磨的众生,恭敬地来到造物者面前,说道:“我们该怎么办?”
7.4.11
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ७.४.११ ॥
赐人尊荣的生主仿佛微笑着对那些众生说:“要努力守护自己。”
7.4.12
रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।
भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ ७.४.१२ ॥
其中有的说:“我们来守护”,有的说:“我们要吃”。饥饿者与不饥饿者这样说了之后,造物者便对他们说道。
7.4.13
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।
जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ ७.४.१३ ॥
说“我们将守护”的,愿他们成为你们的罗刹;说“我们将吞食”的,愿他们成为夜叉。
7.4.14
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।
मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ॥ ७.४.१४ ॥
那里有两兄弟,赫提与普拉赫提,是罗刹之主,如同摩陀与凯塔巴,是降伏敌人者。
7.4.15
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।
हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥ ७.४.१५ ॥
普拉赫提为人正直,当时已前往苦行林;而赫提则为求妻子作了极大的努力。
7.4.16
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।
उदावहदमेयात्मा स्वयमेव महामतिः ॥ ७.४.१६ ॥
那心灵无量、智慧广大之人,亲自娶了迦罗之妹、令人生畏的少女薄耶(Bhayā)。
7.4.17
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ ७.४.१७ ॥
罗刹中的翘楚赫提与她生下一子,他是有子者中的第一人,名为毗俱吒(Vidyutkeśa,电发)。
7.4.18
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।
व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ ७.४.१८ ॥
赫提之子毗俱吒,光辉如烈日,大威光,如水中云般成长。
7.4.19
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ ७.४.१९ ॥
那夜行者达到吉祥的青年时,他的父亲决定为他安排婚事。
7.4.20
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः ।
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥ ७.४.२० ॥
于是罗刹中的翘楚赫提为求子,聘娶了与傍晚女神同样光辉的桑底雅之女。
7.4.21
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ ७.४.२१ ॥
桑底雅心想:“她终须嫁给别人。”于是,罗怙之后啊,她把女儿许给了电发。
7.4.22
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।
रमते स्म तया सार्धं पौलोम्या मघवानिव ॥ ७.४.२२ ॥
电发得到桑底雅之女,与她欢乐,如同因陀罗与宝罗迷欢乐一般。
7.4.23
केनचित्त्वथ कालेन राम सालकटङ्कटा ।
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ ७.४.२३ ॥
然而过了一些时日,罗摩啊,萨拉卡坦卡塔从电发怀了孕,如同云层从大海升起。
7.4.24
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ ७.४.२४ ॥
于是那罗刹女走到曼陀罗山,产下了如云之胎般光辉的胎儿,正如恒河产下了火所生之子。
7.4.25
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।
रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥ ७.४.२५ ॥
她抛弃了胎儿,渴望如闪电般的美貌,与丈夫同乐,竟忘记了自己的亲生儿子。
7.4.26
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।
निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥ ७.४.२६ ॥
那时,声音如雷云般的胎儿被她抛弃了。被她遗弃的这个婴儿,光辉如秋日的太阳,他把拳头放进嘴里,轻轻地哭了起来。
7.4.27
ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।
वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥ ७.४.२७ ॥
于是,湿婆骑着公牛,与帕尔瓦蒂同行,沿着风道前行,听见了哭泣的声音。
7.4.28
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।
कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥ ७.४.२८ ॥
他与乌玛一同看见哭泣的罗刹之子。出于对帕尔瓦蒂的怜悯,灭三城的婆婆(湿婆)注视着他。
7.4.29
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।
अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ॥ ७.४.२९ ॥
不灭不衰的大天(摩诃提婆)使那罗刹之子与他的母亲同龄,并使他成为不死之身。
7.4.30
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।
उमयापि वरो दत्तो राक्षसानां नृपात्मज ॥ ७.४.३० ॥
出于讨好帕尔瓦蒂的心愿,他赐予了飞行于空中的城市。王子啊,乌玛也赐予了罗刹们一项恩惠。
7.4.31
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।
सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ॥ ७.४.३१ ॥
受孕立即发生,分娩也立即完成;出生后他们立刻便达到与母亲相同的年岁。
7.4.32
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।
चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ॥ ७.४.३२ ॥
于是,苏刻莎(Sukeśa)因所得之恩赐而自豪,伟大而智慧非凡,从主神哈罗(Hara)身旁得到荣光,四处游行,如同因子在空中得到城池的因陀罗(Purandara)一般。