ヴァールミーキのラーマーヤナ · サルガ 7.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.40.1
तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ ७.४०.१ ॥
熊、猿、羅刹たちがともに暮らしていたとき、大いなる光輝のラーガヴァはスグリーヴァにこう言った。
7.40.2
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।
पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥ ७.४०.२ ॥
優しき者よ、神々にも阿修羅にも攻め落とせぬキシュキンダーへ行け。大臣たちとともに、棘の除かれた王国を治めよ。
7.40.3
अङ्गदं च महाबाहो प्रीत्या परमया युतः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ७.४०.३ ॥
大いなる腕の者よ、最上の愛情をもって、アンガダ、ハヌマーン、そして大いに力強いナラを見守れ。
7.40.4
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ७.४०.४ ॥
義父たる勇者スシェーナ、力ある者の中で最もすぐれたターラ、征服しがたいクムダ、そして大力のニーラを見守れ。
7.40.5
वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।
गजं गवाक्षं गवयं शरभं च महाबलम् ।
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ७.४०.५ ॥
勇者シャタバリ、マインダ、ドゥヴィダ、ガジャ、ガヴァークシャ、ガヴァヤ、大力のシャラバ、そしてガンダマーダナをも愛情をもって見よ。
7.40.6
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।
ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥ ७.४०.६ ॥
非常に勇猛なリシャバと大力のジャーンバヴァーンを見守れ。また、私のために命を捨てたこれら偉大な魂たちをも。
7.40.7
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७.४०.७ ॥
見よ、愛情に満ちていなさい。そして彼らに不快なことを何もしてはならない。
7.40.8
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।
विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ७.४०.८ ॥
このように言い、スグリーヴァを何度も抱きしめてから、ラーマは甘い言葉でヴィビーシャナに語った。
7.40.9
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।
पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ॥ ७.४०.९ ॥
ダルマに従ってラṅカーを統治せよ。あなたはダルマを知る者と私は考える。都の者、羅刹たち、そしてあなたの兄弟にも認められている。
7.40.10
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ ७.४०.१० ॥
王よ、決してどのような形でも心を不正に向けてはならない。賢い王こそ確かに大地を享受する。
7.40.11
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ७.४०.११ ॥
王よ、あなたはスグリーヴァとともに、いつも至上の愛情をもって私を思い出さなければならない。今は憂いなく行きなさい。
7.40.12
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ ७.४०.१२ ॥
ラーマの言葉を聞いて、熊・猿・羅刹たちは「善い、善い」と言い、カクッツタの裔ラーマを幾度も賞賛した。
7.40.13
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ ७.४०.१३ ॥
ああ、大いなる腕を持つ方よ、あなたの知恵と武勇はまことに驚くべきものです。ああ、ラーマよ、あなたの至上の温和さは常に自生神(ブラフマー)のようです。
7.40.14
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् ।
हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ॥ ७.४०.१४ ॥
彼らがこのように語っていると、猿たちも羅刹たちも共に語っていた。ハヌマーンは謙虚に身をかがめ、ラーガヴァにこの言葉を述べた。
7.40.15
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ ७.४०.१५ ॥
ああ王よ、私の至上の愛は永遠にあなたにあり続けますように。ああ英雄よ、私の信愛が揺るぎないものでありますように。私の心が他へ向かうことがありませんように。
7.40.16
वायद्रामकथा वीर चरिष्यति महीतले ।
तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ ७.४०.१६ ॥
ああ英雄よ、ラーマの物語が地上で語り継がれるかぎり、私の命の息はこの身体に宿り続けるでしょう。それに疑いはありません。
7.40.17
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।
तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ ७.४०.१७ ॥
ラグを喜ばせる方よ、アプサラスと呼ばれる者たちが、私を通してあなたのこの神聖な行いと物語を聞かせてくれますように。人の中の最も優れた方よ。
7.40.18
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ ७.४०.१८ ॥
ああ英雄よ、ああ主よ、それを聞き、そしてあなたの行いという甘露を聞いて、風が雲の筋を散らすように、私はその渇望を消し去るでしょう。
7.40.19
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ ७.४०.१९ ॥
ハヌマーンがこのように語るとき、ラーマは尊い座から立ち上がり、愛情をもって彼を抱擁し、この言葉を語った。
7.40.20
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ।
तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ॥ ७.४०.२० ॥
そうなるであろう、猿の中の最良者よ、疑いはない。この私にまつわる物語が世に語り継がれるかぎり、お前の名声も続き、身体の命の息もまた同じく続くであろう。
7.40.21
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ ७.४०.२१ ॥
世界が存続するかぎり、私の物語もまた存続するであろう。
7.40.22
लोके च मामिका ।
एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।
नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ॥ ७.४०.२२ ॥
世界において、私にまつわる物語の中で、お前の一つ一つの恩に報いて、猿よ、私は命を与えよう。人は、恩に報いる資格を得るのは…
7.40.23
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।
वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ ७.४०.२३ ॥
するとラーガヴァは、月のように輝く首飾りを自分の喉から外し、青玉のように煌めくそれをハヌマーンの首にかけた。
7.40.24
तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ ७.४०.२४ ॥
その大きな首飾りを胸に結ばれた猿は、頂を月に覆われた黄金の山王メールのように輝いた。
7.40.25
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ ७.४०.२५ ॥
ラーガヴァのこの言葉を聞き、猿たちは何度も立ち上がり、頭を垂れて彼の足に礼拝し、あの大力の者たちは去っていった。
7.40.26
सुग्रीवः स च रामेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥ ७.४०.२६ ॥
スグリーヴァはラーマの胸に強く抱きしめられ、法の魂ヴィビーシャナも。彼らは皆、涙に打ちひしがれた。
7.40.27
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ ७.४०.२७ ॥
彼らは皆、涙に満ちた心と目で、心は乱れ、悲しみに惑わされたかのようにして、そのとき、ラーガヴァを離れていった。
7.40.28
कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ ७.४०.२८ ॥
偉大な魂ラーガヴァからこのように恩寵を受け、彼らは皆それぞれの家へ帰っていった。ちょうど有身の魂が身体を捨てるように。
7.40.29
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥ ७.४०.२९ ॥
そこで羅刹、熊、猿たちは、ラグ族を栄えさせるラーマに礼拝し、別れから生じた涙で目を満たしながら、住まいへ帰る人々のように引き返していった。