ヴァールミーキのラーマーヤナ · サルガ 7.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.41.1
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् ।
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ ७.४१.१ ॥
大臂のラーマは熊・猿・羅刹を送り出し、兄弟たちと共に幸せに喜び楽しんだ。
7.41.2
अथापराह्णसमये भ्रातृभिः सह राघवः ।
शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥ ७.४१.२ ॥
その後、午後のころ、兄弟たちと共にいたラーガヴァは、空から語られる甘美な声を聞いた。
7.41.3
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् ।
कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ७.४१.३ ॥
穏やかなラーマよ、穏やかな顔で私を見てください。主よ、クベーラの館から来たプシュパカだと知ってください。
7.41.4
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति ।
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ ७.४१.४ ॥
あなたの命令を知り、あなたに仕えるためにあなたの館へ向かいました。人の中の最上の者よ。彼は私に語りかけました。
7.41.5
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।
निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ७.४१.५ ॥
偉大なる人の王ラーガヴァは、戦いで難敵のラークシャサの王ラーヴァナを討ち、あなたを征服されました。
7.41.6
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि ।
रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ७.४१.६ ॥
邪悪なラーヴァナが、その従者、息子、親族とともに討たれたことで、私もまた最高の喜びを感じています。
7.41.7
स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।
वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७.४१.७ ॥
ラーマに、至高の魂をもつ彼に、ランカーで敗れた汝よ、穏やかなる者よ、まさに彼を運べ。私は汝に命じる。
7.41.8
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।
वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ७.४१.८ ॥
これこそ私の最高の願いである。ラーガヴァの喜びであるラーマを、世界の道へ運べ。憂いなく行け。
7.41.9
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः ।
त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ७.४१.९ ॥
偉大なるダナダ(クベーラ)の命を受けて、私はあなたの御前に来ました。恐れなく私を待ちなさい。
7.41.10
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।
चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ ७.४१.१० ॥
ダナダの命により、私はすべての生き物に見えず、己の力で動き、あなたの命に従います。
7.41.11
एवमुक्तस्तदा रामः पुष्पकेण महाबलः ।
उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ७.४१.११ ॥
プシュパカにそう呼びかけられ、力強いラーマは再び戻ってきたその飛車を見て、プシュパカに言った。
7.41.12
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक ।
आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥ ७.४१.१२ ॥
そうであれば、飛車の中で最もすぐれたプシュパカよ、汝を歓迎する。ダネーシャ(クベーラ)の好意により、我らの行いに過失が生じませんように。
7.41.13
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः ।
पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ ७.४१.१३ ॥
そのとき大腕の ラーガヴァ は、炒り米、花、芳しい香でプシュパカを供養した。
7.41.14
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।
सिद्धानां च गतौ सौम्य मा विषादेन योजय ।
प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥ ७.४१.१४ ॥
「行け」と言い、さらに「私が思い出したとき、来るがよい。善き者よ、聖者たちの道で憂いに囚われてはならぬ。望む方角へ行くとき、そなたに妨げが生じませんように」と告げた。
7.41.15
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् ।
अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ ७.४१.१५ ॥
「そうあれ」とラーマは言い、供養して送り出した。そこでそのプシュパカは望む方角へと去っていった。
7.41.16
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।
भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ ७.४१.१६ ॥
その徳高きプシュパカがこのように姿を消すと、バラタは合掌してラグの喜び、ラーマに次の言葉を述べた。
7.41.17
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ ७.४१.१७ ॥
勇士よ、あなたが統治している間に、さまざまな姿の凶兆が現れ、人ならぬ生き物の叫びが幾度も聞こえます。
7.41.18
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।
जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ ७.४१.१८ ॥
ラーガヴァよ、生き物には病がなく、すでに一月余りが過ぎました。老いた生き物にさえ死は訪れないのです。
7.41.19
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ ७.४१.१९ ॥
女性は病なく出産し、人々は壮健で美しかった。王よ、都の人々の喜びはいっそう大きかった。
7.41.20
काले वर्षति पर्जन्यः पातयन्नमृतं पयः ।
वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥ ७.४१.२० ॥
季節に応じて雨雲は甘露のような水を降らせ、これらの風も触れて柔らかく、心地よく、吉祥に吹く。
7.41.21
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः ।
कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ ७.४१.२१ ॥
「このような王が永遠であらんことを」と、王よ、都と地方の人々は人主について言う。
7.41.22
एता वाचः सुमधुरा भरतेन समीरिताः ।
श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ ७.४१.२२ ॥
バラタが語ったこの甚だ甘美な言葉を聞き、王者の中の最上者ラーマは喜びに満たされた。