蚁垤《罗摩衍那》 · 篇 7.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.44.1
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ ७.४४.१ ॥
罗怙婆在遣散朋友之众、以智慧决断之后,对身旁坐着的守门人说了这番话。
7.44.2
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ ७.४४.२ ॥
速将吉相的萨乌米特里罗什曼那、大福的婆罗多,以及不败的沙特鲁格那带来。
7.44.3
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ७.४४.३ ॥
守门人听闻罗摩之言,双手合十置于额前,前往罗什曼那的住所,无人阻拦便走了进去。
7.44.4
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ७.४४.४ ॥
他双手合十,赞颂那位大德之人,说道:国王想见您;请速往那里,不要耽搁。
7.44.5
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।
प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ७.४४.५ ॥
萨乌米特里说了声「好」,听闻罗怙婆的命令后,登上战车,急速奔向罗怙婆的住所。
7.44.6
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ७.४४.६ ॥
守门人见罗什曼那离去,便从近处双手合十、赞颂着向婆罗多说道。
7.44.7
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥ ७.४४.७ ॥
国王谦卑地俯身,想要见你。婆罗多从守门人那里听到罗摩传来的话后——
7.44.8
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ७.४४.८ ॥
力大的婆罗多立刻从座位上跳起,徒步前往。看到离去的罗什曼那,他合掌急忙——
7.44.9
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ७.४४.९ ॥
他来到舍睦悭那的住处,便说道:“来吧,来吧,罗怙族中最优秀的人!国王想要见你。”
7.44.10
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ ७.४४.१० ॥
罗什曼那早已离去,名声显赫的婆罗多也已离去。舍睦悭那听到他的话,便从尊位上起身——
7.44.11
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।
निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ॥ ७.४४.११ ॥
他低头触地,走向罗怙之子所在之处。随后守门人合掌而来,告知罗摩他的所有兄弟都已到来。
7.44.12
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥ ७.४४.१२ ॥
听说王子们已经到来,他心神因忧虑而慌乱,低垂着脸,带着悲伤的心,对守门人说了这些话。
7.44.13
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ ७.४४.१३ ॥
你快快把那些少年带到我面前。我的生命就在他们身上,他们对我来说如同我的性命一般珍贵。
7.44.14
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ ७.४४.१४ ॥
奉人主之命,那些如因陀罗般光辉的少年谦恭地合掌行礼,心神专注地走了进去。
7.44.15
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ ७.४४.१५ ॥
他们看见他的脸容,如同被罗睺所吞的月亮,又如黄昏时失去光辉的太阳。
7.44.16
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ ७.४४.१६ ॥
他们看见智慧的罗摩双眼满含泪水,面容如同枯萎的莲花失去了光彩;见此情景,他们都感到惊讶。
7.44.17
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ ७.४४.१७ ॥
随后他们急忙以头触地,拜倒在罗摩的脚下,全都心神专注地站立;罗摩则拭去了眼泪。
7.44.18
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ ७.४४.१८ ॥
大力的罗摩用双臂拥抱他们,扶他们起身,说道:“坐到座位上去。”然后他说出了这些话。
7.44.19
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ ७.४४.१९ ॥
你们是我的全部财富,你们是我的生命。我守护着由你们所成就的这个王国,诸位人主啊。
7.44.20
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ॥ ७.४४.२० ॥
你们已通晓经典之义,智慧坚定。诸位人主啊,请你们共同为我考量此事。
7.44.21
तथा वदति काकुत्स्थे अवधानपरायणाः ।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ ७.४४.२१ ॥
迦古特斯特之子罗摩如此说完,众人凝神静听,心中不安,都在想:国王接下来将说什么?