蚁垤《罗摩衍那》 · 篇 7.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.45.1
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् ।
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ ७.४५.१ ॥
在座诸人心情悲伤,迦古特斯塔之子罗摩面容憔悴地说出了这些话。
7.45.2
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा ।
पौराणां मम सीतायां यादृशी वर्तते कथा ॥ ७.४५.२ ॥
诸位请听,愿你们吉祥;不要心生别念。请听听百姓们之间关于我与悉多的是何种议论。
7.45.3
पौरापवादः सुमहांस्तथा जनपदस्य च ।
वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ७.४५.३ ॥
城中百姓与乡野之人之间,关于我的大毁谤正在流传,那可耻的议论刺痛着我的心。
7.45.4
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् ।
सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ॥ ७.४५.४ ॥
我生于伟大的伊刹婆迦族之家,悉多也生于伟大的遮那迦族之良家。
7.45.5
जानासि त्वं यथा सौम्य दण्डके विजने वने ।
रावणेन हृता सीता स च विध्वंसितो मया ॥ ७.४५.५ ॥
温和的人啊,你知道悉多在檀特迦的荒僻森林中被罗波那劫走,而我将他毁灭了。
7.45.6
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति ।
अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ७.४५.६ ॥
于是我心中对于遮那迦之女产生了这样的念头:如何将在此居住过的这位悉多带回城中呢?
7.45.7
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा ।
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ।
अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७.४५.७ ॥
于是悉多为了证明自己而进入火中。啊,苏弥德罗,在诸神面前,持供奉之火的阿耆尼与行于天空的风神公开宣告迈提利没有罪过。
7.45.8
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ।
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ७.४५.८ ॥
月神与日神也曾在诸神与一切仙人面前宣告,遮那竭之女没有罪过。
7.45.9
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ ।
लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ७.४५.९ ॥
如此,品行纯洁的悉多在诸天神与乾闼婆面前,于楞伽岛上由因陀罗交付到我手中。
7.45.10
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ।
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ ७.४५.१० ॥
我的内心知道光荣的悉多是纯洁的。于是,我带着毗提诃之女返回了阿逾陀。
7.45.11
अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ७.४५.११ ॥
然而,这桩大的流言与忧愁仍留在我心中,还有城中百姓与全国的极大非议。
7.45.12
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ ७.४५.१२ ॥
世上若有人的恶名被传唱,他便堕入下劣的世界,只要那毁谤之词仍被传扬。
7.45.13
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ ७.४५.१३ ॥
诸天神责备恶名,美名在世间受人尊崇。所有大德之人的努力,都是为了美名。
7.45.14
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः ।
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ ७.४५.१४ ॥
诸位人中雄杰!我因畏惧谤议,甚至会舍弃自己的性命,或舍弃你们。何况是舍弃遮那迦之女!
7.45.15
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे ।
नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ॥ ७.४५.१५ ॥
因此,愿诸位看见我陷入悲伤之海。我确实看不到任何众生有比这更大的痛苦。
7.45.16
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ ७.४५.१६ ॥
明天清晨,苏弥特拉之子啊,你登上由苏曼特罗驾驶的车,也让悉多登上,然后在国界把她舍弃。
7.45.17
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ।
आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ॥ ७.४५.१७ ॥
恒河对岸,靠近达摩萨河岸边,有伟大的蚁垤仙人的苦行林,宛如天界。
7.45.18
तत्रैनां विजने देशे विसृज्य रघुनन्दन ।
शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ ७.४५.१८ ॥
罗怙之喜乐者啊!在那寂静之地舍弃她后,速速回来。愿你安好,依我的话去做。
7.45.19
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन ।
तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥ ७.४५.१९ ॥
此事关于悉多,任何人都不可以任何方式回应。因此,苏弥陀之子啊,你去吧;此事无需再作考虑。
7.45.20
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते ।
शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ ७.४५.२० ॥
你若阻拦此事,将使我极为不悦。我已以我的双臂与性命,令你们所有人立誓。
7.45.21
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन ।
अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ ७.४५.२१ ॥
若有人在言语之间试图以任何方式劝我回心转意,那些人必定常常与我为敌,因为他们阻挠我的心愿。
7.45.22
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ।
इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ॥ ७.४५.२२ ॥
若你们遵从我的命令,就请敬重我。今日就把悉多从此带走;照我的话去做。
7.45.23
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् ।
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ ७.४५.२३ ॥
她先前对我说:「让我看看恒河岸边的修行道场。」愿她这个心愿得以实现。
7.45.24
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः ।
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥ ७.४५.२४ ॥
说完这番话,以泪遮面的迦古特斯塔之裔罗摩,在诸兄弟簇拥下,这位法性高尚者走了进去。
7.45.25
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ॥ ७.४५.२५ ॥
他心被悲伤缠绕,像大象一样深深地叹息。