蚁垤《罗摩衍那》 · 篇 7.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.47.1
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः ।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ ७.४७.१ ॥
随后,罗怙后裔之弟罗什曼那先让摩蒂利上了那艘宽大、备妥的尼沙陀之船,然后自己也登上了船。
7.47.2
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।
उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥ ७.४७.२ ॥
悲痛万分的罗什曼那说:“让苏曼陀罗连同他的战车留在这里。”又对船夫说:“开船吧。”
7.47.3
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ॥ ७.४७.३ ॥
随后,罗什曼那来到婆吉罗提河岸,泪流满面,合掌对摩蒂利说了这些话。
7.47.4
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता ।
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ७.४७.४ ॥
维得希啊,我心中埋着一根大刺,因为这件事,贤明的阿利耶(罗摩)使我成为世人议论的对象。
7.47.5
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् ।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ७.४७.५ ॥
今日对我而言,死亡更好,或者说最高的死亡更好;我不该被派去做这种为世人所非议的事情。
7.47.6
प्रसीद च न मे पापं कर्तुमर्हसि शोभने ।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ७.४७.६ ॥
“光彩照人的人啊,请垂怜,不要让我犯下罪过。”说罢,罗什曼那合掌,跪倒在地。
7.47.7
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ ७.४७.७ ॥
见罗什曼流泪、合掌,求死于己,极度惊惶的美提利对罗什曼说了这些话。
7.47.8
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण ।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ७.४७.८ ॥
罗什曼啊,我不明白这是怎么回事。请如实告诉我。我看你并不安好,国王的平安也似乎无从得知。
7.47.9
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः ।
तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ ७.४७.९ ॥
你因国王让你立下誓言,才陷入如此忧伤。请当着我的面说出来;我命令你。
7.47.10
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।
अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ ७.४७.१० ॥
在美提利的催促下,心情沮丧的罗什曼低着头,哽咽着说出了这些话。
7.47.11
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् ।
पुरे जनपदे चैव त्वत्कृते जनकात्मजे ।
रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ॥ ७.४७.११ ॥
在议会之中,听到因你而在城乡传播的极其残酷的诽谤,遍体伤痛的罗摩,甚至没有告知我便回家去了,哦,遮那伽之女。
7.47.12
न तानि वचनीयानि मया देवि तवाग्रतः ।
यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥ ७.४७.१२ ॥
女神啊,国王藏在心中、又因愤怒在你背后说出的那些话,我不应当在你面前说。
7.47.13
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ।
पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ॥ ७.४७.१३ ॥
国王虽知你无辜却抛弃了你。女神啊,请在我面前明白这一点:国王因惧怕百姓的非议而如此行事,不要有别的想法。
7.47.14
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।
राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥ ७.४७.१४ ॥
在仙人居所的边缘,我必须将你留下;得知国王的命令,这正是你怀孕时的心愿。
7.47.15
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ ७.४७.१५ ॥
这里是恒河岸边婆罗门仙人的苦行林,神圣而美丽。吉祥的人啊,不要悲伤。
7.47.16
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ।
सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ ७.४७.१६ ॥
婆罗门仙人瓦尔米基,是诸仙中的最杰出者,深受国王十车王喜爱,是我父亲的至交,名声极为远扬。
7.47.17
पादच्छायामुपागम्य सुखमस्य महात्मनः ।
उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ ७.४७.१७ ॥
你到他的足下荫庇之处,在这位大德身边安乐地居住,吧,遗世的女儿,专心于斋戒,心意专一。
7.47.18
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ ७.४७.१८ ॥
女神啊,你若恪守贞妇之道,常将罗摩放在心中,如此行事,你将获得最高的福祉。