Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.48.1

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।
परं विषादमागम्य वैदेही निपपात ह ॥ ७.४८.१ ॥

闻听罗什曼那的严厉之言,阇那伽之女毗提诃陷入极度悲痛,跌倒在地。

7.48.2

सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा ।
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ ७.४८.२ ॥

她片刻之间仿佛失去知觉;泪眼迷蒙中,阇那伽之女以哀切的声音对罗什曼那说道。

7.48.3

मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ।
धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ॥ ७.४८.३ ॥

罗什曼那啊,我这身躯必定是为受苦而造的,因为今日它显现为苦难的化身。

7.48.4

किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः ।
या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ ७.४८.४ ॥

我前世犯了什么罪,或是谁使我与夫君分离,以致我这品行纯洁的贞妇,竟被君王抛弃?

7.48.5

पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी ।
अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ ७.४८.५ ॥

从前我住在修行林中,追随罗摩的脚步;如今,苏弥陀罗之子啊,我却活在这般苦难之中。

7.48.6

सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता ।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥ ७.४८.६ ॥

善人啊,我被孤零零地抛下,怎能再住在修行林中?沉溺于苦难的我,又能向谁诉说我的悲伤呢?

7.48.7

किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् ।
कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ॥ ७.४८.७ ॥

我该对众仙人说什么呢?我做过什么善行?或者,伟大的罗ghava因何缘故抛弃了我?

7.48.8

न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ७.४८.८ ॥

萨米特丽啊,我今天不会在恒河水中舍弃生命,否则我丈夫的王族便会被抛弃。

7.48.9

यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् ।
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ७.४८.९ ॥

萨米特丽啊,照你所受的命令去做,抛弃我这个分担痛苦的人吧。愿国王的命令得以执行;也请听听我的这番话。

7.48.10

श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च ।
शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ ७.४८.१० ॥

不分彼此地向所有婆婆的双足合掌低头致敬,并向国王问安。

7.48.11

शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ।
वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥ ७.४८.११ ॥

罗什曼那啊,你应低头对她们所有人这样说;也应对国王说,他在法义上是坚定不移的。

7.48.12

जानासि च यथा शुद्धा सीता तत्त्वेन राघव ।
भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ ७.४८.१२ ॥

罗ghava啊,你确实知道悉多是纯洁的,她充满至上的虔诚,并且始终希望你安好。

7.48.13

अहं त्यक्ता त्वया वीर अयशोभीरुणा जने ।
यच्च ते वचनीयं स्यादपवादसमुत्थितम् ।
मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥ ७.४८.१३ ॥

英雄啊,你因畏惧不名誉,在众人面前抛弃了我。因诽谤而可能加在你身上的谴责,我必须加以消除,因为你是我最高的依靠。

7.48.14

वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः ।
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ ७.४८.१४ ॥

对于在法中安定的国王,应当这样说:你如何对待兄弟,就应当始终如此对待城中的百姓。

7.48.15

परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥ ७.४८.१५ ॥

这确实是你最高的法;因此你的名声将无与伦比。

7.48.16

यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् ।
अहं तु नानुशोचामि स्वशरीरं नरर्षभ ॥ ७.४८.१६ ॥

城中百姓若能凭法而得所求,愿他们得之,大王。但我并不为自己的身体悲伤,人中之雄牛啊。

7.48.17

यथापवादं पौराणां तथैव रघुनन्दन ।
पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥ ७.४८.१७ ॥

正如城中百姓的非议,同样,罗怙之喜啊:丈夫是女子的神明,丈夫是她的亲人,丈夫是她的师长。

7.48.18

प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः ।
निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ ७.४८.१८ ॥

因此,丈夫所喜爱之事,甚于性命,尤应去做。所以今日看过我——我的经期已经过去——你就去吧。

7.48.19

एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ।
शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ ७.४८.१९ ॥

悉多如此说时,心怀悲伤的罗什曼那低头向大地致敬,却不能开口。

7.48.20

प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः ।
ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ॥ ७.४८.२० ॥

他向右绕行,大声哭泣,沉思片刻后说道:“啊,光彩照人的人,你要对我说什么呢?”

7.48.21

दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे ।
कथमत्र हि पश्यामि रामेण रहितां वने ॥ ७.४८.२१ ॥

“啊,无瑕之人,你的这副容颜我从未见过,只见过你的双足。如今与罗摩分离的你,怎会在这森林中出现在我眼前?”

7.48.22

इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् ।
आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ ७.४८.२२ ॥

罗什曼那说完这些并向她致礼后,又登上船,上船后催促船夫前行。

7.48.23

स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ।
सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥ ७.४८.२३ ॥

他背负着沉重的悲伤来到北岸,仿佛被痛苦弄得昏乱,立刻登上战车。

7.48.24

मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् ।
चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ ७.४८.२४ ॥

他一再回头,看见悉多站在对岸,像无依无靠的人一样挣扎,然后罗什曼那便前行了。

7.48.25

दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः ।
निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥ ७.४८.२५ ॥

悉多屡次望着远处的车与罗什曼那,心神不安,悲愁便袭上心头。

7.48.26

सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती ।
रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ ७.४८.२६ ॥

悉多承受着悲痛的重负,低垂着身子,她是名声显赫、以美名为财富的贞女。见不到夫君,她在孔雀鸣叫回荡的森林里放声痛哭,完全沉浸在悲伤之中。