蚁垤《罗摩衍那》 · 篇 7.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.52.1
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः ।
प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ ७.५२.१ ॥
在羯西尼河岸度过那一夜后,罗怙子孙的欢喜者罗什曼那在黎明时再次起身,随即启程。
7.52.2
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः ।
अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ॥ ७.५२.२ ॥
随后正午时分,这位大战车武士进入了阿逾陀城,城中珠宝充盈,人民欢乐而富足。
7.52.3
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।
रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ७.५२.३ ॥
然而,苏弥陀之子罗什曼那虽极其睿智,却陷入深深的沮丧。他来到罗摩脚前,心想:“我该说什么?来到这里,我做了什么?”
7.52.4
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् ।
रामस्य परमोदारं पुरस्तान्समदृश्यत ॥ ७.५२.४ ॥
他正这样思量时,罗摩那如月亮般的极为宏伟的宫殿出现在他面前。
7.52.5
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।
अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ७.५२.५ ॥
他在王宫门前从上好的战车上下来,低着头,心中悲伤,无人阻拦便走了进去。
7.52.6
स दृष्ट्वा राघवं दीनमासीनं परमासने ।
नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ७.५२.६ ॥
他看见罗怙后裔悲伤地坐在至尊的宝座上,并以充满泪水的双眼望见了眼前的兄长。
7.52.7
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।
उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७.५२.७ ॥
罗什曼那心怀悲伤,抓住他的双足,合掌专注,以哀切的声音说道。
7.52.8
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ७.५२.८ ॥
遵从尊者的命令,我把遮那迦之女留在恒河岸边、跋尔弥吉清净的修行处,正如所吩咐的那样。
7.52.9
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् ।
पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ७.५२.९ ॥
在修行处的边缘,我把那位德行高尚、名声显赫的女子留下;如今我回来了,英雄啊,为了侍奉您的足下。
7.52.10
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी ।
त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥ ७.५२.१० ॥
人中猛虎啊,不要悲伤;时间的流转本就如此。像您这样智慧而有胸怀的人,是不会悲伤的。
7.52.11
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ७.५२.११ ॥
一切积累终归消散,一切高升终归跌落,一切聚合终归离别,而生命终归死亡。
7.52.12
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ।
नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ ७.५२.१२ ॥
因此,不应对儿子、妻子、朋友或财富过度执着,因为与他们的分离是必然的。
7.52.13
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि ।
लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ॥ ७.५२.१३ ॥
迦古特斯塔啊,你能以心念自制,也能约束一切世界;何况是你自己的忧伤呢?
7.52.14
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः ।
अपवादः स किल ते पुनरेष्यति राघव ॥ ७.५२.१४ ॥
啰怙婆啊,像你这样的人中之杰,不会为这类事而迷惑;但那非议终将再次降临到你身上。
7.52.15
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप ।
सो ऽपवादः पुरे राजन्भविष्यति न संशयः ॥ ७.५२.१५ ॥
国王啊,正因惧怕非议而抛弃了迈提利,那同样的非议将在城中出现,这是毫无疑问的。
7.52.16
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ।
त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥ ७.५२.१६ ॥
人中猛虎啊,以坚定之心安住,舍弃这软弱的念头,不要陷入忧愁。
7.52.17
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥ ७.५२.१७ ॥
大力的罗什曼那如此说罢,珍爱朋友的迦古特斯塔以极大的亲爱对苏弥特拉说道。
7.52.18
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण ।
परितोषश्च मे वीर मम कार्यानुशासने ॥ ७.५२.१८ ॥
人中之杰罗什曼那啊,正如你所说;英雄啊,你对我职责的教导令我欣慰。
7.52.19
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।
भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ॥ ७.५२.१९ ॥
温和的罗什曼那啊,你那极其动听的话语让我得到了安慰,我的忧伤已经消散,我已被抚慰。