蚁垤《罗摩衍那》 · 篇 7.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.54.1
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ ७.५४.१ ॥
罗摩的话语被听到后,通晓最高真理的罗什曼那合掌向光芒璀璨的罗怙后裔说道。
7.54.2
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।
महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥ ७.५४.२ ॥
哦,迦古特斯塔之后,因为小小的过失,两位婆罗门降下了如此重的诅咒;对王仙那伽而言,它如同阎摩的第二根权杖。
7.54.3
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ ।
किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ ७.५४.३ ॥
人中之雄啊,国王那伽听到自己被说成与罪业相连,便对两位愤怒的婆罗门说了什么?
7.54.4
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।
शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ॥ ७.५४.४ ॥
罗什曼那如此说后,罗怙后裔又说道:“善良的人啊,听着,那位国王从前如何被诅咒所伤。”
7.54.5
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।
आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ ७.५४.५ ॥
此时,那伽得知两位婆罗门已在路上离去,便召集了所有大臣、城中商人以及祭司们。
7.54.6
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।
दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ ७.५४.६ ॥
国王那伽因悲痛而深受困扰,对他们和所有臣民说道:“请专心听我的话。”
7.54.7
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् ।
गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ ७.५४.७ ॥
那罗陀与波尔瓦塔使我大为恐惧,化作风而去往三界;这二位吉祥而无可指摘。
7.54.8
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् ।
श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।
यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ॥ ७.५४.८ ॥
这位王子,名叫婆苏的神灵,今日应当举行灌顶。请工匠为我修建一个触感舒适的坑穴,我将因婆罗门的诅咒而居住其中。
7.54.9
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।
ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ ७.५४.९ ॥
一坑可遮挡雨水,一坑可遮挡寒冷,一坑可遮挡炎热且触感舒适;请工匠建造这些。
7.54.10
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ।
विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ॥ ७.५४.१० ॥
应栽种结果的树木与开花的藤蔓,也应栽种各种能遮荫的灌木。
7.54.11
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् ।
सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ ७.५४.११ ॥
坑穴四周的各个方向都应布置得优美宜人;在此,我将安适地居住,直到时光流逝。
7.54.12
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः ।
परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ॥ ७.५४.१२ ॥
其中应常年种植芬芳的花朵,使其环绕我方圆一又半由旬。
7.54.13
एवं कृत्वा विधानं स सन्दिदेश वसं तदा ।
धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ ७.५४.१३ ॥
他如此安排之后,便就居所作出吩咐。孩子,常守法则,依刹帝利之法守护百姓吧。
7.54.14
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।
नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ॥ ७.५४.१४ ॥
正如你亲眼所见,两位婆罗门怒气冲冲地对我降下诅咒,人中之最,而我本无此等过失。
7.54.15
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ ।
कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ॥ ७.५४.१५ ॥
人中雄牛啊,不要为我稍有悲伤。孩子,时命(死神)极为精巧,是他使我陷入了困厄。
7.54.16
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।
लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ ७.५४.१६ ॥
人所应得者,必然得之;所应往者,必然往之;所应受者,必然受之——苦与乐皆然。
7.54.17
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ॥ ७.५४.१७ ॥
亲爱的孩子,这是前世业报的结果,所以不要沮丧。
7.54.18
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।
श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ ७.५४.१८ ॥
说完这些,那位大名的君王便对其子——人中雄牛——前往深坑,那是善行者的居所。
7.54.19
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।
सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ॥ ७.५४.१९ ॥
如此,国王进入那座饰有大宝石的洞穴,这位大德之人便实现了两位婆罗门在愤怒中发出的诅咒。