Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.55

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.55.1

एष ते नृगशापस्य विस्तरो ऽभिहितो मया ।
यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ ७.५५.१ ॥

我已把那那伽(Nṛga)的诅咒的详细经过讲给你听了。若你有聆听的诚心,现在就听另一个故事吧。

7.55.2

एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ ७.५५.२ ॥

罗摩如此说后,苏弥特利之子罗什曼那再次说道:大王啊,对于这些奇妙的故事,我从未感到满足。

7.55.3

लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।
कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ७.५५.३ ॥

罗什曼那如此说后,甘蔗王族的喜乐者罗摩开始讲述一个充满至高法(达摩)的故事。

7.55.4

आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।
पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ७.५५.४ ॥

在甘蔗王族的大德之人中,有一位名叫尼弥的国王,他是第十二子,在勇力与达摩中坚定不移。

7.55.5

स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् ।
निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ७.५५.५ ॥

那位勇力具足的国王便在乔达摩仙人的附近建立了一座如同天神之城的城市。

7.55.6

पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।
निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ७.५५.६ ॥

这座精美的城市名为吠阇衍多,大名鼎鼎的王仙尼弥便在那里建立了住所。

7.55.7

तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।
यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७.५५.७ ॥

他建立了一座大城后,心中generated决意:"我要举行长期的萨特拉祭祀,以慰父亲之心。"

7.55.8

ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।
वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ७.५५.८ ॥

随后,他禀告父亲——摩奴之子伊克ṣvāku——之后,首先请最优秀的梵仙婆悉瑟吒为祭司。

7.55.9

अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।
अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ७.५५.९ ॥

随后,伊克ṣvāku族之喜的王仙尼弥又选定了阿特利、安吉罗娑,以及以苦行为财富的婆利古。

7.55.10

तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।
वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ ७.५५.१० ॥

于是婆悉瑟吒对王仙中最优秀的尼弥说:"我先已被因陀罗选定了,请你稍候。"

7.55.11

अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।
वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ७.५५.११ ॥

随后,大婆罗门瞿昙依次履行了承诺,而光辉的婆悉瑟吒也主持了因陀罗的祭祀。

7.55.12

निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः ।
अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः ।
पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥ ७.५५.१२ ॥

然而尼弥王,人主之首,召集了那些婆罗门,在喜马拉雅山麓、靠近自己城邑之处举行了祭祀。国王进入灌顶誓愿,长达五千年。

7.55.13

इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः ।
सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ ७.५५.१३ ॥

因陀罗祭祀结束之时,无可指摘的尊者仙人伐悉吒前来国王处,担任祭司之职(hotṛ)。

7.55.14

तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।
कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ ७.५५.१४ ॥

此时他看到已被乔达摩占据。梵天之子伐悉吒被巨大的愤怒所笼罩,看到了这一点。

7.55.15

स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।
तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ॥ ७.५५.१५ ॥

他想见国王,便坐下片刻。那一天,王仙被睡眠深深征服。

7.55.16

ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।
अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ ७.५५.१६ ॥

于是,伟大的伐悉吒心中生起愤怒。因为看不到王仙,他便开口说话。

7.55.17

यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।
चेतनेन विनाभूतो देहस्तव भविष्यति ॥ ७.५५.१७ ॥

因为你轻视我而选择了别人,大王啊,你的身体将失去知觉。

7.55.18

ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।
ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥ ७.५५.१८ ॥

于是,王仙醒来,听到所说的诅咒,因激动而心神昏乱,怒不可遏,对梵生的伐悉吒说道。

7.55.19

अजानतः शयानस्य क्रोधेन कलुषीकृतः ।
मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ ७.५५.१९ ॥

你在愤怒中蒙蔽了心智,对熟睡不知的我又降下了一道如阎摩杖般的诅咒之火。

7.55.20

तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।
देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ ७.५५.२० ॥

因此,婆罗门仙人啊,你的身体也将失去知觉;然而它将如诸神一般美丽,此事无疑。

7.55.21

सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ ७.५५.२१ ॥

霎时间,他们二人都失去了身体,并获得了与之相当的威力。