蚁垤《罗摩衍那》 · 篇 7.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.57.1
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् ।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ ७.५७.१ ॥
拉克什曼听了这段如神圣般、令人惊叹的故事,非常欣喜,便对罗摩说了这番话。
7.57.2
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ ।
पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ॥ ७.५७.२ ॥
啊,迦古特斯塔!那两人——一位婆罗门与一位国王——放下了身体,又如何在诸神认可下与身体重新结合?
7.57.3
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ।
तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ ७.५७.३ ॥
罗摩听了他的话,这位真正勇武的罗摩,讲述了大德仙人婆悉瑟吒的那段故事。
7.57.4
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ।
तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ॥ ७.५७.४ ॥
罗怙之最,从那充满大德者光明的瓶中,诞生了两位由光辉构成的婆罗门,即最优秀的仙人。
7.57.5
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ।
नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ ७.५७.५ ॥
起初那里诞生了尊贵的仙人阿伽斯蒂耶。他说道:“我不是你的儿子”,便从弥多罗身边离开了。
7.57.6
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् ।
तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ ७.५७.६ ॥
那光辉属于弥多罗,先前放置于乌尔瓦希之中;在有婆樓那之光的那只瓶中,这光辉便产生了。
7.57.7
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः ।
वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ॥ ७.५७.७ ॥
过了一段时间,由弥陀罗与伐楼那所生、具足光辉的婆私吒降生,成为甘蔗王族的守护神。
7.57.8
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् ।
वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ॥ ७.५७.८ ॥
大光明的甘蔗王在他出生之时便选他——这位无可指摘之人——为家族祭司,哦,善良者,为了我们这一族的福祉。
7.57.9
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ।
कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ॥ ७.५७.९ ॥
如此已叙述了身形无比、大德之人婆私吒的出生。哦,善良者,现在听听关于弥的事是如何发生的。
7.57.10
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते ।
तं च ते योजयामासुर्यागदीक्षां मनीषिणः ॥ ७.५७.१० ॥
众仙人见国王无身,那些智者便让他进入祭祀的受戒仪式。
7.57.11
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः ।
गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ ७.५७.११ ॥
诸位最优秀的再生者与市民、仆人一同,以香料、花环和衣物守护着国王的遗体。
7.57.12
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् ।
आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ॥ ७.५७.१२ ॥
随后祭祀完毕,婆利古在那里说道:“国王啊,我将把你的心识带回来;我对你很满意。”
7.57.13
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् ।
वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥ ७.५७.१३ ॥
诸神甚为欢喜,对尼弥说道:王仙啊,请选择一个恩赐吧。请说明你的心意所向。
7.57.14
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् ।
नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ ७.५७.१४ ॥
众神如此对他说后,尼弥便说道:诸神中最优秀的啊,愿我居于一切众生的眼中。
7.57.15
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् ।
नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥ ७.५७.१५ ॥
于是诸神对尼弥说:很好。你将化为风,在一切众生的眼中游行。
7.57.16
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते ।
वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥ ७.५७.१६ ॥
大地之主啊,因为你,眼睛才会眨动;你化为风而行,为了休息,一次又一次地停下。
7.57.17
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् ।
ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ॥ ७.५७.१७ ॥
说完这些,诸神便循原路离去;而大心的诸仙人则收集了尼弥的身体。
7.57.18
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ ७.५७.१८ ॥
在那里放置好取火木,大心者们用力钻动;以咒语和献祭,那时是为了求得尼弥的儿子。
7.57.19
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः ।
मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् ।
यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ॥ ७.५७.१९ ॥
当取火木被钻动时,大苦行者弥提出现了。因钻动之故称他为弥提,因出生而成为遮那迦。因他生于毗提诃,故被称为毗提诃之子。
7.57.20
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् ।
मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ॥ ७.५७.२० ॥
如此,毗提诃王遮那迦成为此系之始。大光明者名为弥提,他是其先祖;因他之故,此人被称为弥提罗之人。