Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.58

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.58.1

एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।
प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ ७.५८.१ ॥

罗摩如此说时,摧毁敌方英雄的罗什曼那,对那光辉耀眼的大德者作了回答。

7.58.2

महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।
निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ॥ ७.५८.२ ॥

王中之虎啊,往昔在毗提诃王(尼弥)与婆悉吒之间,曾发生过一件伟大而奇异的事。

7.58.3

निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।
न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ७.५८.३ ॥

尼弥是刹帝利,勇猛,尤其已受祭祀之戒;然而这位王对大德的婆悉吒却不肯宽恕。

7.58.4

एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः ।
उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ॥ ७.५८.४ ॥

罗什曼那如此说后,尊贵的罗摩,刹帝利中的最优者,对精通一切经论的罗什曼那说了这番话。

7.58.5

रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ।
न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ ७.५८.५ ॥

能令人欢喜者中最优的罗摩对光辉的弟弟说:勇士啊,人间并非处处可见宽恕。

7.58.6

सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना ।
सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ॥ ७.५८.६ ॥

苏弥特拉之子啊,犹如耶耶提忍受了难以忍受的愤怒,你应以自身的善性为依归,专心听我说这些。

7.58.7

नहुषस्य सुतो राजा ययातिः पौरवर्धनः ।
तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७.५८.७ ॥

那诃沙之子、补卢家族的增益者国王耶耶提,有两位妻子,哦善良者,她们的容貌在大地上无与伦比。

7.58.8

एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।
शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ७.५८.८ ॥

那位王仙、那诃沙之子的妻子中,被尊为首位的是名为沙尔弥什陀的提耶女,即伐沙波婆之女。

7.58.9

अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।
न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ७.५८.९ ॥

另一位是乌赏那斯的妻子,哦人中之牛;但她并非国王所爱——那位纤腰的提婆耶尼。

7.58.10

तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ ।
शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ॥ ७.५८.१० ॥

二人生下了容貌俊美、自制沉稳的儿子:沙尔弥什陀生了补卢,提婆耶尼生了耶度。

7.58.11

पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।
ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ ७.५८.११ ॥

补卢因德行及母亲的缘故,深受国王喜爱。于是被悲痛所笼罩的耶度对母亲说道。

7.58.12

भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।
सहसे हृद्गतं दुःखमवमानं च दुःसहम् ॥ ७.५८.१२ ॥

母亲啊,你生于婆利古家族,出身于行事不倦的天神(室科罗)之族。我忍受着藏在心中的悲痛,以及难以承受的羞辱。

7.58.13

आवां च सहितौ देवि प्रविशाव हुताशनम् ।
राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ ७.५८.१३ ॥

女神啊,我们二人一同走入火中吧;让国王与阿修罗之女共度许多夜晚的欢愉吧。

7.58.14

यदि वा सहनीयं ते मामनुज्ञातुमर्हसि ।
क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ॥ ७.५८.१४ ॥

若你能忍受,便请允许我;你忍耐吧,我却不能忍受,我必定会死去,毫无疑问。

7.58.15

पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।
देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ॥ ७.५८.१५ ॥

听到那极度悲痛、哭泣之人的话,愤怒的提婆雅尼便想起了她的父亲。

7.58.16

इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।
आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ ७.५८.१६ ॥

婆哩古(沙吉罗)理解了女儿的那个暗示,便急忙来到提婆雅尼所在之处。

7.58.17

दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।
पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ ७.५८.१७ ॥

看到她不似平常,毫无喜色,神志恍惚,父亲便对女儿说:“这是怎么回事?”

7.58.18

पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।
देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ॥ ७.५८.१८ ॥

对于那位反复追问的光辉婆哩古(沙吉罗),愤怒的提婆雅尼对父亲说了这些话。

7.58.19

अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।
भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ ७.५८.१९ ॥

至上的仙人啊,我将吞食火、烈毒或水,或投入其中;但我不能再活下去。

7.58.20

न मां त्वमवजानीषे दुःखितामवमानिताम् ।
वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥ ७.५८.२० ॥

你难道不轻视痛苦而受辱的我吗?婆罗门啊,轻视树木,依树而生者便会被砍伐。

7.58.21

अवज्ञया च राजर्षिः परिभूय च भार्गव ।
मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥ ७.५८.२१ ॥

婆迦婆啊,那位王仙以轻蔑和侮辱对待我;他并不十分尊重我。

7.58.22

तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।
व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥ ७.५८.२२ ॥

婆迦婆听了她的话,被愤怒所笼罩,开始对那位那护沙之子说话。

7.58.23

यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।
जरया परया जीर्णः शैथिल्यमुपयास्यसि ॥ ७.५८.२३ ॥

那护沙之子啊,因为你轻视我,恶念之人,你将被极度的衰老所耗尽,陷入衰弱。

7.58.24

एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।
पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ॥ ७.५८.२४ ॥

说完这些,安慰了女儿之后,大名鼎鼎的婆罗门仙人婆迦婆便返回了自己的住所。

7.58.25

स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।
पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ ७.५८.२५ ॥

说完这些,最杰出的再生者之首安慰了他的女儿提婆耶尼;随后,这位光辉如太阳的仙人向那难浮沙之子降下诅咒,又离开了。