Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.61.1

एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।
किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ ७.६१.१ ॥

诸仙如此说话时,迦句特什族的罗摩说道:「诸位仙人,请告诉我要做什么。愿你们的恐惧先行消散。」

7.61.2

तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।
भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ ७.६१.२ ॥

迦句特什族的罗摩如此说话时,婆利古之子说道:「人主啊,请听这片土地恐惧的根源。」

7.61.3

पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।
लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ७.६१.३ ॥

国王啊,往昔圆满时代,有一位名叫摩度的大阿修罗,是提提之子,力量强大,是罗罗的长子。

7.61.4

ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।
सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ॥ ७.६१.४ ॥

他敬奉婆罗门,是众生的庇护,智慧坚定;极为慷慨的诸天对他有无与伦比的眷顾。

7.61.5

स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः ।
बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ॥ ७.६१.५ ॥

摩度既具勇力,又在法中坚定,为了让楼陀罗欢喜,修行苦行数千年。

7.61.6

रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः ।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ७.६१.६ ॥

楼陀罗对他感到欢喜,前去赐予他恩惠;怀着极大的敬意,楼陀罗赐予他一个奇妙的恩惠。

7.61.7

शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७.६१.७ ॥

大精神的湿婆大喜,从自己的三叉戟上抽出一柄威力巨大、光芒耀眼的三叉戟赠给他,并说了这些话。

7.61.8

त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।
प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ७.६१.८ ॥

你所行的这无比的善法赢得了我的恩惠。怀着至高的爱意,我赐予你一件上好的兵器。

7.61.9

यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।
तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥ ७.६१.९ ॥

大阿修罗啊,只要你不与诸天神和婆罗门为敌,这三叉戟就归你所有;否则它将会毁灭。

7.61.10

यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।
तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ ७.६१.१० ॥

凡向你挑起战斗者,此三叉戟会将他化为灰烬,然后再回到你的手中。

7.61.11

एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ७.६१.११ ॥

大阿修罗如此从楼陀罗处得到恩赐后,再次向大天神行礼,并说了这些话。

7.61.12

भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ ७.६१.१२ ॥

尊贵的主啊,愿这无上的三叉戟永远留给我的族类。神啊,你确是诸天神的主宰。

7.61.13

तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।
प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ ७.६१.१३ ॥

对说话的摩dhu,万物之主、大光明的湿婆神回答道:“事情不会这样发生。”

7.61.14

मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।
भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ ७.६१.१४ ॥

“愿你因我的恩典而得的吉祥之言不落空。你的一个儿子将执持这把三叉戟。”

7.61.15

यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते ।
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ ७.६१.१५ ॥

“只要这把三叉戟在你儿子手中,他手持三叉戟,便不会被任何众生杀死。”

7.61.16

एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।
भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ ७.६१.१६ ॥

阿修罗中的最杰出者摩dhu,得到神明如此伟大而奇妙的恩赐后,便下令建造了一座辉煌的宫殿。

7.61.17

तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।
विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ ७.६१.१७ ॥

他那位福德深厚、深受宠爱的妻子名叫鸠咏那西(Kumbhīnasī),是毗湿伐苏(Viśvāvasu)之女,由光辉的阿那罗(Analā)所生。

7.61.18

तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।
बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ ७.६१.१८ ॥

她的儿子名叫罗婆那(Lavaṇa),勇武非凡而残酷,心性邪恶,自幼便只做罪恶之事。

7.61.19

तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।
मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ ७.६१.१९ ॥

摩度见到这个桀骜不驯的儿子,满怀愤怒,陷入悲伤,却一句话也没有对他说。

7.61.20

स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ ७.६१.२० ॥

他离开此世,进入伐楼那的居所;将三叉戟置于罗婆那身上后,向他宣告了恩赐。

7.61.21

स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।
सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ ७.६१.२१ ॥

凭借三叉戟的威力与自身的邪恶,他折磨三界,尤其是苦行者。

7.61.22

एवंप्रभावो लवणः शूलं चैव तथाविधम् ।
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ ७.६१.२२ ॥

罗婆那有如此威力,其三叉戟也是如此;听闻此事,啊,迦恭特他,你是我们的依靠,你是我们至高的归宿。

7.61.23

बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।
अभयं याचिता वीर त्रातारं न च विद्महे ॥ ७.६१.२३ ॥

啊,罗摩,从前许多国王曾被受恐惧折磨的仙人请求庇护;啊,英雄,我们不知道有谁能庇护我们。

7.61.24

ते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।
त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।
तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ ७.६१.२४ ॥

听闻罗婆那连同军队与坐骑一同被杀,啊,亲爱的,我们在世上不知还有别的人主可作庇护者;因此我们希望得到庇护,受罗婆那之子楼婆那恐惧的折磨。

7.61.25

विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ ७.६१.२५ ॥

你有能力制止他;英勇无穷的主上,请随意而为吧。