蚁垤《罗摩衍那》 · 篇 7.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.62.1
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः ।
किमाहारः किमाचारो लवणः क्व च वर्तते ॥ ७.६२.१ ॥
诸仙如此说罢,罗摩合掌回答道:“罗婆那吃什么,行为如何,又住在何处?”
7.62.2
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥ ७.६२.२ ॥
诸仙听闻罗怙子(罗摩)之言后,便述说了罗婆那如何逐渐长大。
7.62.3
आहारः सर्वसत्त्वानि विशेषेण च तापसाः ।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ७.६२.३ ॥
诸位苦行者,他的食物是一切众生,尤其是;他的行为始终残暴;他住在摩度林中。
7.62.4
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् ।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ७.६२.४ ॥
他每日杀死数以千计的狮、虎、鹿和象,也杀人,以此作为他每日的食物。
7.62.5
ततो ऽन्तराणि सत्त्वानि खादते स महाबलः ।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ७.६२.५ ॥
此后那位大力者吞食林中的众生,犹如毁灭之时张口的死神阎摩。
7.62.6
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् ।
घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ७.६२.६ ॥
罗怙子听罢,对那些大仙说:“我将杀死那罗刹,愿你们的恐惧消散。”
7.62.7
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम् ।
स भ्रातऽन्सहितान्सर्वानुवाच रघुनन्दनः ॥ ७.६२.७ ॥
罗伽努难陀向那些威光炽盛的仙人许下诺言后,对所有兄弟说道。
7.62.8
को हन्ता लवणं वीरः कस्यांशः स विधीयताम् ।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ ७.६२.८ ॥
谁是英雄,能杀死罗婆那?这件事应归谁负责?是大臂的婆罗多,还是智慧的设睹噜祇那?
7.62.9
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ ७.६२.९ ॥
罗伽婆如此说后,婆罗多说道:“我将杀死他。请把这件事交给我负责。”
7.62.10
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम् ।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ ७.६२.१० ॥
听了婆罗多充满坚毅与勇武的话语,罗什曼那的幼弟离开金座,站立起来。
7.62.11
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम् ।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ ७.६२.११ ॥
此时,大臂、善于行事的中间兄弟、罗伽族的喜悦设睹噜祇那,向人主顶礼后说道。
7.62.12
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता ।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ ७.६२.१२ ॥
从前,正是尊者守护着空荡的阿逾陀,心中怀着悲伤,等待尊者的归来。
7.62.13
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव ।
शयानो दुःखशय्यासु नन्दिग्रामे ऽवसत्पुरा ॥ ७.६२.१३ ॥
君王啊,我在此确曾经历许多苦难;从前我住在难提村,躺在忧愁的床上。
7.62.14
फलमूलाशनो भूत्वा जटी चीरधरस्तथा ।
अनुभूयेदृशं दुःखमेष राघवनन्दनः ।
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥ ७.६२.१४ ॥
吃果实与根茎,蓬头、身披树皮,经历了这样的苦难,愿罗怙之喜(婆罗多)啊,君王,在我留此为仆时,不再遭受苦难。
7.62.15
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ ७.६२.१५ ॥
舍睹卢那如此说时,罗怙之子又说道:“就这样吧,甘古斯塔的后裔!执行我的命令。”
7.62.16
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ।
निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ ७.६२.१६ ॥
大臂者啊!我将在吉祥的摩度城为你行灌顶,立你为王;若你认为妥当,就在那里立婆罗多为王。
7.62.17
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ ७.६२.१७ ॥
你勇武,学识精通,且有能力治理城邦。
7.62.18
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये ।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ ७.६२.१८ ॥
若有人杀灭敌人,在国王覆灭之后,却不在那里另立国王,他必定堕入地狱。
7.62.19
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ ७.६२.१९ ॥
你杀死摩图之子罗婆那,其心怀恶意,然后依法治理国家,若你听从我的话。
7.62.20
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम ।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ ७.६२.२० ॥
勇士啊,在我讲话之间不应回答。幼者应当执行长者的命令,此事毫无疑问。
7.62.21
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम् ।
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ॥ ७.६२.२१ ॥
迦古特斯特ha啊,请接受我所备办的这场灌顶礼,由以婆悉吒为首的婆罗门依仪轨与咒语举行。