Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.65.1

प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ ७.६५.१ ॥

送走全部军队,在路上只停留了一个月,then 舍to鲁格那独自迅速前行。

7.65.2

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ ७.६५.२ ॥

中途停留两夜后,那位勇猛的罗怙族之喜悦者前往蚁垤仙人(瓦尔米基)的圣洁修行所,寻求一处上好的住所。

7.65.3

सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ७.६५.३ ॥

他向伟大的、最优秀的圣人蚁垤(瓦尔米基)致敬,合掌而立,说出了这些话。

7.65.4

भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ७.६५.४ ॥

尊者,我想在此住宿;我因师长之事而来此。明日黎明我将前往婆噜那之西方。

7.65.5

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ७.६५.५ ॥

舍to鲁格那的话语被那位最优秀的圣人听到后,他微笑着回答这位伟大的人:欢迎你,大名声者。

7.65.6

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि ।
आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ७.६५.६ ॥

温和的人啊,此修行所本就是罗怙家族的。请毫无顾虑地接受我的座位、洗足水与敬礼供养。

7.65.7

प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७.६५.७ ॥

于是,接受了敬意的迦古特斯塔食用了果实与根茎的餐食,获得了无上的满足。

7.65.8

स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ७.६५.८ ॥

吃完果实与根茎后,他对那位大仙说:"你这祭祀的光辉靠近谁的修行处?"

7.65.9

तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ७.६५.९ ॥

听了他的话,瓦尔米基说道:"舍special你听:这里从前是谁的居所。"

7.65.10

युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ ७.६५.१० ॥

你们的先祖是国王萨乌达萨;那位国王的儿子名叫毗罗萨诃,勇武而极其守法。

7.65.11

स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ७.६५.११ ॥

萨乌达萨年幼之时便开始狩猎;那位勇士看见两个罗刹在游荡。

7.65.12

शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ ७.६५.१२ ॥

两个化作老虎模样的可怖罗刹,吞食了成千上万的鹿,却始终不知满足,从未得到饱足。

7.65.13

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ॥ ७.६५.१३ ॥

他见那两个罗刹,又见森林已无鹿群,被巨大的愤怒所攫,以一支大箭射倒了其中一个。

7.65.14

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ॥ ७.६५.१४ ॥

萨陀萨,人中之雄,击倒那一个后,热病与愤怒皆已消退,他望向被杀的罗刹。

7.65.15

निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥ ७.६५.१५ ॥

他见那罗刹的同伴在旁观望,便使萨陀萨陷入可怕的痛苦,并说了这些话。

7.65.16

यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ ७.६५.१६ ॥

你无辜地杀了我的同伴,因此,最罪恶的人啊,我也要报复你。

7.65.17

एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहो ऽभवत् ॥ ७.६५.१७ ॥

那罗刹说完这些话,便当场消失了;随着时光流转,他成为了国王蜜多萨诃。

7.65.18

राजापि यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ॥ ७.६५.१८ ॥

国王也在仙人居所附近举行名为马祭的大祭典,而伐悉吒守护着这场祭典。

7.65.19

तत्र यज्ञो महानासीद्बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ॥ ७.६५.१९ ॥

那里举行了一场盛大的祭祀,持续了许多年、数万个周期;它以至高的光彩而兴盛,堪比诸神的祭祀。

7.65.20

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ ७.६५.२० ॥

此后,祭祀将尽之时,他想起往日的仇怨,化作伐悉瑟吒之形的罗刹便对国王这样说道。

7.65.21

अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम ।
दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ॥ ७.६५.२१ ॥

此次祭祀已经结束。请立即在此给我备一餐带肉的饭食,此事无须商议。

7.65.22

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ ७.६५.२२ ॥

这位以婆罗门之形出现的罗刹说了这些话,精于备办饮食的国王听后便说道:

7.65.23

हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।
तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ ७.६५.२३ ॥

备办一餐如祭品般洁净、带肉而美味的饭食;要快些做,使尊长十分满意。

7.65.24

शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।
स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ॥ ७.६५.२४ ॥

依国王之命,心神慌乱的厨师离去。此时,那罗刹又在那里化作厨师的模样。

7.65.25

स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ ७.६५.२५ ॥

他把人肉呈给国王,说:这是美味而清净的食物,连同肉一起带来了。

7.65.26

स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ ७.६५.२६ ॥

他与妻子一同为婆悉瑟吒送来食物;人中之虎啊,这是罗刹借摩陀演提之手送来的带肉的食物。

7.65.27

ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ॥ ७.६५.२७ ॥

婆罗门得知那肉被放在人的器皿中,大怒填胸,便开口说话。

7.65.28

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।
तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ ७.६५.२८ ॥

国王啊,因为你想把这食物给我,这食物就将归你所有,毫无疑问。

7.65.29

ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ ७.६५.२९ ॥

于是,愤怒的萨陀娑以手取水,开始诅咒婆悉瑟吒;他的妻子阻止了他。

7.65.30

राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ७.६५.३० ॥

国王啊,我们的主人是尊贵的仙人婆悉瑟吒;你无法回敬这位与神相等的家祭司一个诅咒。

7.65.31

ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ७.६५.३१ ॥

于是这位正法之人释放出充满愤怒、蕴含苦行火力的水,并用它浇洒了国王的双足。

7.65.32

तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः ।
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ७.६५.३२ ॥

那水使国王的双脚立刻变得斑驳;从那时起,这位大名鼎鼎的萨乌达萨王便以斑足王(Kalmāṣapāda)之名闻名于世。

7.65.33

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ७.६५.३३ ॥

那位国王与王后一同屡次叩拜,又对婆西斯塔说出了那位具梵身之人所说的话。

7.65.34

तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ७.६५.३४ ॥

婆西斯塔听闻这位王中之王的话,又知其被罗刹扭曲,便再次对那位人中之最的国王说道。

7.65.35

मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ७.६५.३५ ॥

我怀着愤怒所说的这番话,无法使之落空;但我仍将赐你一个恩惠。

7.65.36

कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति ।
मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥ ७.६५.३६ ॥

十二年的时间将是诅咒的终结;王中之王啊,凭我的恩典,你将不再记得已经过去的事。

7.65.37

एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ७.६५.३७ ॥

如此,那位灭敌之王承受了那诅咒之后,重新夺回王国,又庇护了他的臣民。

7.65.38

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ॥ ७.६५.३८ ॥

卡尔玛沙波陀的祭祀吉祥之地就在这隐修处附近,罗怙之子啊,你所问的正是此地。

7.65.39

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ७.६५.३९ ॥

听完那位王中之王极其可怕的故事,并向大仙致敬之后,他走进了叶屋。