蚁垤《罗摩衍那》 · 篇 7.69
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.69.1
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।
क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७.६९.१ ॥
听到伟大的舍睹茹那的这番话,他勃然大怒,说道:"站住,站住!"
7.69.2
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ ७.६९.२ ॥
罗婆那两手相搓,咬牙切齿,一次又一次地向罗怙族的猛虎挑战。
7.69.3
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् ।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ७.६९.३ ॥
对于如此说话、相貌可怖的罗婆那,诛灭诸神之敌的舍睹茹那说了这番话。
7.69.4
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ ७.६९.४ ॥
舍睹茹那并非生来就像其他人那样被你征服。所以今天你就被我的箭射中,去往阎摩的居所吧。
7.69.5
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे ।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ७.६९.५ ॥
罪人啊!愿今日仙人、博学的婆罗门和诸神都看见你在战场上被我杀死,正如诸神曾经看见罗婆那那样。
7.69.6
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर ।
पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ७.६९.६ ॥
夜行者啊!今日你被我的箭烧中倒下,城邑与乡野必定会得到安宁。
7.69.7
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः ।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७.६९.७ ॥
今日,从我臂中射出、锋如金刚的箭,将刺入你的心,正如日光射入莲花。
7.69.8
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः ।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥ ७.६९.८ ॥
如此被责备后,罗婆那因愤怒而昏乱,将一棵大树投向舍睹卢诃那的胸膛;他却将它劈成百段。
7.69.9
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु ।
पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ॥ ७.६९.९ ॥
罗刹见其所为无效,便又拔起许多树木,向舍睹卢诃那掷去。
7.69.10
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् ।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ ७.६९.१० ॥
光辉的舍睹卢诃那又以三四支曲节箭,将冲向他的许多树木各一一斩断。
7.69.11
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥ ७.६९.११ ॥
于是勇猛的舍睹卢诃那向罗刹胸前倾泻箭雨,然而那罗刹并未受伤。
7.69.12
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् ।
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ ७.६९.१२ ॥
于是罗婆那大笑,举起一棵树击中英雄舍睹卢诃那的头部;他肢体松软,昏迷了过去。
7.69.13
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ ७.६९.१३ ॥
那位英雄倒下之后,众仙人、诸神众、乾闼婆与阿普莎拉斯中都发出了巨大的哀号。
7.69.14
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ ७.६९.१४ ॥
然而,罗刹以为舍睹卢那已死并倒在地上,尽管有了可乘之机,却没有回到自己的住所。
7.69.15
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।
ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥ ७.६९.१५ ॥
看见他倒在地上,他甚至没有拿起三叉戟;随后断定他已被杀,便把那些食物带走了。
7.69.16
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः ।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥ ७.६९.१६ ॥
片刻之后,舍睹卢那恢复了知觉,手持武器再次站立在城门口,受到众仙人的盛情敬奉。
7.69.17
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ ७.६९.१७ ॥
于是他拿起那支神圣、不会落空、殊胜的箭;它因自身光芒而燃烧,可怖,充满十方。
7.69.18
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ ७.६९.१८ ॥
箭头如金刚,速度如金刚,似须弥山与曼荼罗山;在各处关节都不弯曲,在一切战斗中不可战胜。
7.69.19
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।
दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ ७.६९.१९ ॥
身体如涂血红檀香,羽毛华美的那只鸟,能撕裂檀那婆之主和如山王般的阿修罗。
7.69.20
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते ।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ ७.६९.२० ॥
见他光焰炽盛如劫末出现的时之火,一切众生都陷入恐惧。
7.69.21
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ ७.६९.२१ ॥
连同诸天、阿修罗、乾闼婆、仙人与阿普萨拉群,整个不安的世界来到了祖父(梵天)面前。
7.69.22
उवाच देवदेवेशं वरदं प्रपितामहम् ।
देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ॥ ७.६९.२२ ॥
他们对诸神之神、赐恩者、曾祖父说道:诸天的恐惧与迷惑,指向诸世界的毁灭。
7.69.23
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह ।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥ ७.६९.२३ ॥
啊,曾祖父,此等之事从前未曾见过,也未曾听闻。诸天的恐惧与迷惑,指向诸世界的毁灭。
7.69.24
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।
भयकारणमाचष्ट लोकानामभयङ्करः ।
उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ॥ ७.६९.२४ ॥
梵天闻其言,乃诸世界之祖、赐予世界无畏者,宣说了恐惧的缘由,并以柔和的声音说:诸天众神,请听。
7.69.25
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः ।
तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ॥ ७.६९.२५ ॥
这是舍special在战斗中为杀死罗婆那而持握的箭。我们这些诸神中的最优者,都被它的光辉所迷惑。
7.69.26
एष पूर्वस्य देवस्य लोककर्तुः सनातनः ।
शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥ ७.६९.२६ ॥
这是创造诸世界的原始永恒之神的光辉之箭。孩子们,正是因为它,恐惧才真正降临。
7.69.27
एष वै कैटभस्यार्थे मधुनश्च महाशरः ।
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ ७.६९.२७ ॥
这支大箭确实是那位大德为凯塔巴和摩图而创造的,用来杀死那两个阿修罗。
7.69.28
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ ७.६९.२८ ॥
只有毗湿奴知道这支光辉之箭。实际上,这正是那位大德毗湿奴的原始形态。
7.69.29
इतो गच्छत पश्यध्वं वध्यमानं महात्मना ।
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ ७.६९.२९ ॥
你们从这里去看吧:罗刹中的最优者罗婆那,正被罗摩那位英勇的幼弟、大德者所杀。
7.69.30
तस्य ते देवदेवस्य निशम्य वचनं सुराः ।
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ७.६९.३० ॥
诸神听到神中之神的那些话后,来到了舍特卢娜与罗婆那两人激战的地方。
7.69.31
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ७.६९.३१ ॥
一切众生看见那支如神器般的箭,握在舍睹卢祇那手中,高举如劫末之火。
7.69.32
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ।
सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ॥ ७.६९.३२ ॥
罗怙之子见天空被诸神遮蔽,发出猛烈的狮吼,又看向罗什曼那。
7.69.33
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ७.६९.३३ ॥
被大德的舍睹卢祇那再次挑战,怒气满腔的楼婆前来应战。
7.69.34
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः ।
तं मुमोच महाबाणं लवणस्य महोरसि ॥ ७.६९.३४ ॥
于是箭手中最优秀的他将那弓拉至耳边,把那支大箭射向楼婆宽阔的胸膛。
7.69.35
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ ७.६९.३५ ॥
迅速穿透他的胸膛,便进入了地下的罗沙多罗界。
7.69.36
गत्वा रसातलं दिव्यः शरो विबुधपूजितः ।
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ ७.६९.३६ ॥
那支受诸天尊崇的神箭进入地下界后,很快又回到了甘蔗王族之子身边。
7.69.37
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।
पपात सहसा भूमौ वज्राहत इवाचलः ॥ ७.६९.३७ ॥
被设睹卢那的箭射穿的夜行者罗婆那突然倒在地上,如同被雷击中的山峰。
7.69.38
तच्च शूलं महत्तेन हते लवणराक्षसे ।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ७.६९.३८ ॥
罗婆那被杀之后,那把巨大的三叉戟在众天神注视下,又回到了楼陀罗的掌控之中。
7.69.39
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः ।
विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ७.६९.३९ ॥
以一箭之力彻底射倒了这个令三界恐惧的人,罗怙族的英雄手持上好的弓箭闪耀光芒,宛如驱散黑暗的千光之日。
7.69.40
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः ।
दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ७.६९.४० ॥
于是诸天神、仙人、龙蛇以及所有的天女都向他致敬。幸运的是,十车王之子获得了胜利,他抛弃了恐惧,如蛇一般安然平静。