蚁垤《罗摩衍那》 · 篇 7.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.7.1
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ ७.७.१ ॥
那些吼叫的罗刹云团向那纳罗延山倾泻箭雨,犹如乌云向山岳降下暴雨。
7.7.2
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः ।
वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ॥ ७.७.२ ॥
毗湿奴虽肤色深暗却光辉耀眼,被那些深蓝色的夜行者中的上者环绕,宛如被降雨的云团所围绕的黑色眼药山。
7.7.3
शलभा इव केदारं मशका इव पर्वतम् ।
यथामृतघटं दंशा मकरा इव चार्णवम् ॥ ७.७.३ ॥
如蝗虫扑向田野,蚊蚋扑向山岳,牛虻扑向甘露瓶,鳄鱼扑向大海。
7.7.4
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।
हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ७.७.४ ॥
同样,罗刹弓弦射出的箭,快如金刚、风或心念,射入毗湿奴之身,犹如世界在劫末归于消融。
7.7.5
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः ।
अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥ ७.७.५ ॥
乘车者、骑在象背上的、骑马者以及步兵,全都停立在空中。
7.7.6
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः ।
निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥ ७.७.६ ॥
如山岳般的罗刹之王以箭、矛、投枪、长戟使毗湿奴窒息,犹如停止行持调息的再生者之呼吸。
7.7.7
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः ।
शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ॥ ७.७.७ ॥
如同大海被鱼群撞击,不可战胜的毗湿奴虽被夜行者所困,仍拉开沙朗伽弓,向罗刹射出箭矢。
7.7.8
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः ।
चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ॥ ७.७.८ ॥
毗湿奴以满弓射出的箭矢——箭头如金刚,速度如意念——将罗刹成百上千地斩杀。
7.7.9
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् ।
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ७.७.९ ॥
以箭雨驱散敌人,如风吹散升起的云,至上之人吹响名为般遮若耶的大螺号。
7.7.10
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।
ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ॥ ७.७.१० ॥
这螺王被哈里以全部气息吹响,发出可怕的轰鸣,仿佛要使三界痛苦。
7.7.11
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् ।
मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ७.७.११ ॥
于是螺王的吼声震慑了罗刹,如同森林中的狮子惊吓发情的大象。
7.7.12
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।
स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥ ७.७.१२ ॥
战马不能站立,大象失去了狂性,勇士们被螺声震得虚弱,纷纷从战车上跌落。
7.7.13
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ ७.७.१३ ॥
从沙尔嘎弓射出的箭,箭头如金刚杵,羽翎精美,穿透了那些罗刹,射入大地。
7.7.14
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः ।
निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ ७.७.१४ ॥
在战斗中被那罗延之手射出的箭矢射穿的罗刹,如被金刚击中的山峰一般倒在地上。
7.7.15
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै ।
असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥ ७.७.१५ ॥
敌人身上被毗湿奴法轮所伤的伤口,血如溪流般涌出,犹如山岳倾泻金色的溪流。
7.7.16
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा ।
राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ ७.७.१६ ॥
王者之螺的声音与沙尔嘎弓的弦响,以及毗湿奴之音,吞没了罗刹的哭喊。
7.7.17
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च ।
रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥ ७.७.१७ ॥
他们颤抖的头颅、箭矢、旗帜、弓、战车、幡旗与箭袋,那位哈里以箭将其一一斩断。
7.7.18
सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।
पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥ ७.७.१८ ॥
犹如太阳射出猛烈的光芒,大海涌出波浪,山岳走出大象,云中降下雨瀑,箭矢也如此纷飞而出。
7.7.19
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः ।
निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥ ७.७.१९ ॥
同样,从沙尔嘎弓射出、由那罗延发出的箭矢迅疾飞驰,成百上千。
7.7.20
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ ७.७.२० ॥
犹如狮子避开沙拉跋,大象避开狮子,老虎避开大象,豹子避开老虎。
7.7.21
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा ।
मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ॥ ७.७.२१ ॥
犹如狗避开豹子,猫避开狗,蛇避开猫,老鼠避开蛇。
7.7.22
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना ।
द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ॥ ७.७.२२ ॥
如此,所有那些罗刹被威力强大的毗湿奴驱赶而逃;另一些被驱散后,倒卧在地上。
7.7.23
राक्षसानां सहस्राणि निहत्य मधुसूदनः ।
वारिजं पूरयामास तोयदं सुरराडिव ॥ ७.७.२३ ॥
摧毁成千上万罗刹之后,摩图苏陀那吹响海螺,犹如天王充盈云雨。
7.7.24
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् ।
ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ ७.७.२४ ॥
罗刹大军被那罗延的箭矢惊吓,又被海螺声震得惶惑不安,溃散着朝楞伽方向逃去。
7.7.25
प्रभग्ने राक्षसबले नारायणशराहते ।
सुमाली शरवर्षेण निववार रणे हरिम् ॥ ७.७.२५ ॥
罗刹大军溃散,被那罗延之箭所伤,苏摩利在战场上以箭雨阻挡了诃利。
7.7.26
स तु तं छादयामास नीहार इव भास्करम् ।
राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ॥ ७.७.२६ ॥
他遮蔽了他,如雾遮蔽太阳;勇猛的罗刹们重新振作起来。
7.7.27
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः ।
महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥ ७.७.२७ ॥
于是那罗刹怀着愤怒、自恃力大,发出巨大的吼声向前冲去,仿佛要使罗刹们重获生命。
7.7.28
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः ।
ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ ७.७.२८ ॥
他高举长长的饰物,像大象挥动鼻子一样挥舞,罗刹欢喜地咆哮,如同带着闪电的乌云。
7.7.29
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।
चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ ७.७.२९ ॥
那咆哮的苏摩利的头颅,戴着闪耀的耳环,被斩断了;那罗刹御者的马也受惊迷乱。
7.7.30
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।
इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥ ७.७.३० ॥
罗刹之王苏摩利被那些迷乱的马拖着团团打转,如同被感官之马牵引、失去定力的人。
7.7.31
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे ।
हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ॥ ७.७.३१ ॥
当大臂的毗湿奴在战场上倒下、苏摩利的马匹夺走战车时,便朝向毗湿奴的战车。
7.7.32
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः ।
मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।
विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ ७.७.३२ ॥
摩利准备就绪,拿起搭箭的弓冲上前去。摩利弓上射出的金饰箭矢抵达哈里(毗湿奴)身上,如带羽箭射入鹤鸟一般穿入其身。
7.7.33
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः ।
चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ ७.७.३३ ॥
虽被摩利射来的成千上万支箭所刺伤,毗湿奴在战斗中并未动摇,正如克制诸根的人不会被心中的烦恼所扰乱。
7.7.34
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः ।
मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥ ७.७.३४ ॥
于是,那位创生万物的世尊、诛灭敌人者,拉响弓弦,向摩利射出了箭雨。
7.7.35
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।
पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥ ७.७.३५ ॥
那些如雷电般明亮的箭,抵达摩利的身体,饮尽他的鲜血,如诸龙饮用甘露一般。
7.7.36
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः ।
मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ॥ ७.७.३६ ॥
手持法螺、法轮与神杖的毗湿奴,使摩利转身退却,并击落了他的宝冠、旗帜、弓以及马匹。
7.7.37
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः ।
आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ॥ ७.७.३७ ॥
马利失去战车,便持起铁棒;夜行罗刹中的最强者手持铁棒,如狮子从山巅跃下一般扑上前去。
7.7.38
गदया गरुडेशानमीशानमिव चान्तकः ।
ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ॥ ७.७.३८ ॥
如阎摩击打伊until舍那,如因陀罗以金刚杵击山,他以铁棒击中迦鲁荼之主的前额。
7.7.39
गदयाभिहतस्तेन मालिना गरुडो भृशम् ।
रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ७.७.३९ ॥
迦楼罗被马利的铁棒重重击中,痛苦不堪,便退出了战场;他甚至使那位神也转身退去。
7.7.40
पराङ्मुखे कृते देवे मालिना गरुडेन वै ।
उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ॥ ७.७.४० ॥
当神灵被马利与迦楼罗逼退时,吼叫的罗刹们发出了震天的喧嚣。
7.7.41
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ॥ ७.७.४१ ॥
听到吼叫罗刹的呼声,诃利的幼弟(迦楼罗)……
7.7.42
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः ।
पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥ ७.७.४२ ॥
愤怒的世尊诃利侧立于鸟王之上,虽已背转身去,仍为了杀死马利而掷出了法轮。
7.7.43
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।
कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥ ७.७.४३ ॥
那圆盘如太阳之轮般闪耀,以自身光芒照亮天空,像时轮一样斩落了摩利的头颅。
7.7.44
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् ।
पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ७.७.४४ ॥
那颗被圆盘斩断的罗刹王可怖头颅,喷着鲜血坠落,正如往昔罗睺之首坠落一般。
7.7.45
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः ।
सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ॥ ७.७.४५ ॥
于是诸天与一切众生欢喜万分,发出如狮吼般的声音,高呼:“善哉,神!”
7.7.46
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि ।
सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ॥ ७.७.४६ ॥
见摩利阵亡,苏摩利与摩利婆梵皆因悲痛煎熬,与军队一同奔向楞伽。
7.7.47
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा ।
राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ७.७.४७ ॥
然而迦鲁达重新振作,如前一般折返,愤怒之下以双翼之风驱散了罗刹。
7.7.48
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः ।
लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ ७.७.४८ ॥
莲花般的面庞被圆盘斩断,胸膛被棍棒击碎,颈项被犁形兵器压坏,头颅被杵所劈裂。
7.7.49
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः ।
निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ७.७.४९ ॥
有些被刀剑斩断,另一些被箭所伤,从空中迅速坠入大海的水中。
7.7.50
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः ।
नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ॥ ७.७.५० ॥
那罗延以从弓中射出的上等箭矢,如雷霆一般,撕裂了那些披头散发的夜行者,正如携带闪电的巨大云层被霹雳劈开。
7.7.51
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।
विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥ ७.७.५१ ॥
那支军队,伞盖破碎,在箭下倒下,整齐的仪容已毁,肠子流出,眼中因恐惧而颤动,变得极度疯狂。
7.7.52
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् ।
रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ७.७.५२ ॥
如同被狮子所折磨的象群,夜行者与他们的象群,其呼喊与奔突变得相同,都被那古老的狮子所碾碎。
7.7.53
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः ।
धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥ ७.७.५३ ॥
虽被黄褐色箭网所阻,他们仍放出自己的箭网,向前奔突——夜行者,如末日的黑云,又如被风撕裂的黑云。
7.7.54
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः ।
अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥ ७.७.५४ ॥
头颅被轮形兵器的打击斩断,肢体被铁锤的击打砸成粉末,在猛烈的冲击下一分为二,罗刹之主们如山岳般倒下。
7.7.55
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः ।
निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥ ७.७.५५ ॥
夜行者们如同乌云,珠宝项链与耳环摇曳垂挂,不断被击倒,仿佛一座座青黑的山峰在崩落。