蚁垤《罗摩衍那》 · 篇 7.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.70.1
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ ७.७०.१ ॥
罗婆那被杀后,以因陀罗为首、以阿耆尼居前的诸神,用极其温和的言语对焚敌者设睹卢祇那说道。
7.70.2
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः ।
हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ ७.७०.२ ॥
孩子,幸运的是你获得了胜利;幸运的是罗刹罗婆那已被杀死。人中之虎,持善愿者,请选择一个恩赐吧。
7.70.3
वरदास्तु महाबाहो सर्व एव समागताः ।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ७.७०.३ ॥
大臂者啊,我们这些赐予恩惠的诸神都已聚集于此,怀着希望你获胜的心愿而来。我们向你显现,实属不虚。
7.70.4
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥ ७.७०.४ ॥
大臂的勇士设睹卢祇那听了诸神的话,双手合十置于头顶,以自制的心回答道。
7.70.5
इयं मधुपुरी रस्या मधुरा देवनिर्मिता ।
निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ॥ ७.७०.५ ॥
愿这座由诸神所建的美丽的摩偷城——摩偷罗——迅速恢复人烟,这便是我最高的恩赐。
7.70.6
तं देवाः प्रीतमनसो बाढमित्येव राघवम् ।
भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ७.७०.६ ॥
诸神欢喜地对那位罗怙族后裔说:“就这样吧。”这座美丽的城市将成为首罗塞那,此事毫无疑问。
7.70.7
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।
शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ॥ ७.७०.७ ॥
众大德如此说罢,便升天而去。威光盛大的舍睹卢那也召集了那支军队。
7.70.8
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् ।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ७.७०.८ ॥
那支军队听闻舍睹卢那的命令,迅速赶来;舍睹卢那在室罗伐那月开始建立城邑。
7.70.9
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे ।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ७.७०.९ ॥
那座城市昔日如同天界;在吉祥的第十二年,它被安置为舍罗色那人的领地,无所畏惧。
7.70.10
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ ७.७०.१० ॥
田地盛产庄稼,因陀罗按时降雨;其中的勇士身强无病,由舍睹卢那的臂膀守护。
7.70.11
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता ।
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ।
चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥ ७.७०.११ ॥
形如半月,以亚穆纳河岸为饰;以主要的房屋、广场、市场与街巷为饰;具备四种姓;以种种商贸为饰。
7.70.12
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् ।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ॥ ७.७०.१२ ॥
他先前所建造的宏大白色之城,舍睹卢那以各种色彩加以装饰。
7.70.13
आरामैश्च विहारैश्च शोभमानं समन्ततः ।
शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ॥ ७.७०.१३ ॥
那座城市四面闪耀着园林与游憩之地,装饰着美好之物,并有天神与凡人点缀其间。
7.70.14
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ॥ ७.७०.१४ ॥
那座城市如同天界,装饰着各色货物,也有来自各地的商贾点缀其中。
7.70.15
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः ।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ ७.७०.१५ ॥
见到那繁荣的城市,已成就心愿的婆罗多之幼弟设睹那,极为欢喜,获得了无上的喜悦。
7.70.16
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।
रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ॥ ७.७०.१६ ॥
在建立摩图罗城之后,我心中生出一念:十二年已经过去,我现在要去瞻仰罗摩的足。
7.70.17
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् ।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ ७.७०.१७ ॥
于是,那位增益罗怙家族的人主,建立了这座如同天城、人众云集的城市后,便立下决心,要瞻仰罗怙之主的足。