蚁垤《罗摩衍那》 · 篇 7.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.72.1
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा ।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ ७.७२.१ ॥
虽然他躺着,那时睡眠却没有降临到这位人中之虎身上,因为他正在思索罗摩那无与伦比的歌曲的种种含义。
7.72.2
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् ।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ ७.७२.२ ॥
听到他那与琴弦节奏相协的极其甜美的歌声,伟大的舍睹卢那的夜晚很快过去了。
7.72.3
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् ।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ ७.७२.३ ॥
那个夜晚过去、黎明来临后,舍睹卢那完成了午前的仪式,合掌向最优秀的仙人说了这些话。
7.72.4
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् ।
त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ७.७२.४ ॥
尊者,我想见罗怙族的喜悦者罗ghava;我希望得到您的允许,与这些持严格誓愿的人一同前往。
7.72.5
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् ।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥ ७.७२.५ ॥
说完这些话的舍睹卢那,这位令敌人苦恼的人,被跋弥迎抱住,随后被送往罗ghava那里。
7.72.6
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् ।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ७.७२.६ ॥
向最优秀的仙人致敬后,登上光辉的车驾,渴望见到罗ghava,他很快动身前往阿约提亚。
7.72.7
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७.७२.७ ॥
这位光辉的伊刹婆迦之子、大臂者,进入了那座美丽的城市,那里有大光明的罗摩。
7.72.8
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् ।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ७.७२.८ ॥
他看见罗摩坐在大臣之中,面容如满月,犹如千眼(因陀罗)坐在诸天之中。
7.72.9
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ७.७२.९ ॥
他向闪耀光辉的大德致敬,合掌向真正勇猛的罗摩说了这些话。
7.72.10
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् ।
हतः स लवणः पापः पुरी चास्य निवेशिता ॥ ७.७२.१० ॥
大王,凡所命令,我皆已完成。罪人罗婆那已被杀死,他的城池也已建立。
7.72.11
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन ।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ७.७२.११ ॥
罗怙之子的喜悦啊,没有你,这十二年已经过去。国王啊,与你分离,我无法在此居住。
7.72.12
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम ।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ ७.७२.१२ ॥
迦古特之裔啊,武勇无量者,请对我施恩。如同失去母亲的小牛不会久离,愿我也不久离于你。
7.72.13
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ ७.७२.१३ ॥
他拥抱正在如此说话的舍special,说道:勇士啊,不要悲伤;这不是刹帝利的行为。
7.72.14
नावसीदन्ति राजानो विप्रवासेषु राघव ।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ ७.७२.१४ ॥
国王不会因婆罗门的流放而悲伤,罗怙之子啊;我们应当依照刹帝利的职责保护我们的臣民,罗怙之子啊。
7.72.15
काले काले तु मां वीर अयोध्यामवलोकितुम् ।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ ७.७२.१५ ॥
勇士啊,时常来阿约迪亚看望我;人中最杰出者啊,你也将前往你的城市。
7.72.16
ममापि त्वं सुदयितः प्राणैरपि न संशयः ।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ ७.७२.१६ ॥
你比我的生命还要亲爱,这毫无疑问;治理国家的责任必须履行。
7.72.17
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस ।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ ७.७२.१७ ॥
因此,卡库特斯特啊,你在此停留七夜;之后你将带着随从、军队和车辆前往摩图拉。
7.72.18
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् ।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ ७.७२.१८ ॥
舍special听了罗摩这句合乎法度、出自心意的话语,便以谦卑的声音说:「好。」
7.72.19
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया ।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ ७.७२.१९ ॥
依罗怀婆的命令,大弓手迦固特斯塔在那里停留了七夜,然后开始准备出发。
7.72.20
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् ।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ ७.७२.२० ॥
向真正勇武的大心罗摩、婆罗多和罗什曼那告别后,他登上了大战车。
7.72.21
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना ।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥ ७.७२.२१ ॥
大心罗什曼那与婆罗多一路远送,之后舍睹卢祇那迅速从那里前往城中。