Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.74.1

तथा तु करुणं तस्य द्विजस्य परिदेवनम् ।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ ७.७४.१ ॥

如此,罗怙之后(罗摩)听到了这位婆罗门充满悲痛与哀愁的哀哭。

7.74.2

स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् ।
वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ॥ ७.७४.२ ॥

他被悲痛折磨,召集了那些大臣:瓦希斯塔与瓦摩提婆、两位兄弟以及城中的居民。

7.74.3

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः ।
राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ॥ ७.७४.३ ॥

随后,与瓦希斯塔一同,八位婆罗门被引入,他们对如神一般的国王说:“愿您昌盛。”

7.74.4

मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा ।
एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥ ७.७४.४ ॥

摩根德亚、毛德伽利耶、瓦摩提婆、迦叶波、迦旃延、阇婆离、乔达摩与那罗陀——这些婆罗门中的俊杰都被请上座位坐下。

7.74.5

महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः ।
मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ ७.७४.५ ॥

他合掌向前来的大仙致敬,并以适当而和善的方式对待大臣与城民。

7.74.6

तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।
राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ॥ ७.७४.६ ॥

待这些光辉灿烂之人全部落座后,罗怙之后(罗摩)将一切道出:“这位婆罗门正因我而受阻。”

7.74.7

तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः ।
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥ ७.७४.७ ॥

那悲伤的国王说完,那罗陀在诸仙人面前对国王说了这番吉祥的话。

7.74.8

शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः ।
श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ॥ ७.७४.८ ॥

请听,国王:按时节,孩子的死亡已经发生。罗怙之乐啊,请听取应当做的事并去做。

7.74.9

पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः ।
अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ॥ ७.७४.९ ॥

往昔,国王啊,在克里塔时代,只有婆罗门才是苦行者。国王啊,那时没有任何非婆罗门以任何方式成为苦行者。

7.74.10

तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते ।
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ ७.७४.१० ॥

当那个时代光明炽盛、充满梵性、没有遮蔽之时,那时所有远见者都生而不死。

7.74.11

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् ।
क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ॥ ७.७४.११ ॥

之后到来了名为特雷塔的时代,属于有身体的人类;在其中,刹帝利出生,具备圆满的苦行。

7.74.12

वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि ।
मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ ७.७४.१२ ॥

他们在前世的勇力与苦行上更为殊胜;而生活在这个特雷塔时代的伟大人类,也同样如此。

7.74.13

ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् ।
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ ७.७४.१३ ॥

无论前后,婆罗门与刹帝利在两个时代中都具有同等的勇力。

7.74.14

अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः ।
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥ ७.७४.१४ ॥

然而他们看不到任何特别的优越,于是在那里同意设立四种姓制度。

7.74.15

तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते ।
अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ ७.७४.१५ ॥

在那充满法、光明而无障碍的时代里,非法把一只脚踏落在大地之上。

7.74.16

अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ ७.७४.१६ ॥

与非法相结合,光辉将变得黯淡。

7.74.17

आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् ।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ ७.७४.१७ ॥

古人所有的肉食与极重的罗阇污秽,那名为虚妄(anṛta)的存在以一足降临大地。

7.74.18

अनृतं पातयित्वा तु पादमेकमधर्मतः ।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ ७.७४.१८ ॥

虚妄因非法而以一足降临之后,先前所定的寿命便显现出来,并被限定。

7.74.19

पतिते त्वनृते तस्मिन्नधर्मे च महीतले ।
शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ॥ ७.७४.१९ ॥

虚妄与非法坠落于大地之上,世人仍行善事,专心于真实与法。

7.74.20

त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये ।
तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ ७.७४.२० ॥

在特雷塔时代,婆罗门与刹帝利皆修苦行,其余众人则行侍奉。

7.74.21

स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् ।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ ७.७४.२१ ॥

他们的至上之法及于吠舍与首陀罗;诸种姓皆受供奉,而首陀罗尤其如此。

7.74.22

एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह ।
ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥ ७.७४.२२ ॥

于此期间,因他们的非法与虚妄,王中至尊啊,往昔的美德大为减损。

7.74.23

ततः पादमधर्मस्स द्वितीयमवतारयत् ।
ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ॥ ७.७४.२३ ॥

于是非法放下了第二只脚,此时代便得名为双韦波罗。

7.74.24

तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये ।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ ७.७४.२४ ॥

人中之尊啊,当名为双韦波罗的那一时代正在进行、时代衰落之际,非法与虚妄便增长了。

7.74.25

तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् ।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ ७.७४.२५ ॥

在名为二分时的那个时代,苦行进入了吠舍;从三个时代起,依次进入三个种姓。

7.74.26

त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः ।
न शुद्धो लभते धर्मं युगतस्तु नरर्षभ ।
हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ ७.७४.२६ ॥

从三个时代起,法也在三个种姓中确立;人中之牛啊,依时代而言,清净者并不能获得法。王中至尊啊,低等种姓者行极大的苦行。

7.74.27

भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे ।
अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ॥ ७.७४.२७ ॥

将来,苦行只会在首陀罗之胎中进行,在迦利时代。王啊,在二分时,因首陀罗的出生将产生极大的非法。

7.74.28

स वै विषयपर्यन्ते तव राजन्महातपाः ।
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ ७.७४.२८ ॥

他是你国境边缘的大苦行者。王啊,今天这个心术不正的人正在苦行,因此这个孩子被杀了。

7.74.29

यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु ।
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः ।
क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ७.७४.२९ ॥

凡在国王的领土或城中作非法或不当之事——那是不幸的根源——那心术不正之人很快会堕入地狱;国王也会如此,毫无疑问。

7.74.30

अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ ७.७४.३० ॥

依法保护臣民的国王,将获得学习、苦行、行为与善业之功德的第六份。

7.74.31

षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ॥ ७.७४.३१ ॥

享用六分之一者,为何不保护他的臣民?

7.74.32

स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् ।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ ७.७४.३२ ॥

人中之虎啊,你去巡视自己的国土;凡见有恶行之处,便去努力纠正。

7.74.33

एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् ।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ७.७४.३३ ॥

人中最好者啊,若如此,则法将增长,人们的寿命将延长,此孩子的生命也将得以保全。