蚁垤《罗摩衍那》 · 篇 7.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.76.1
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।
अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥ ७.७६.१ ॥
闻听无忧功业之罗摩的这番话,他低下头,说出了这些话。
7.76.2
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।
देवत्वं पार्थये राम सशरीरो महायशः ॥ ७.७६.२ ॥
我生于首陀罗之胎,名为商拘。罗摩啊,大名者,我愿以此身求得神性。
7.76.3
न मिथ्या ऽहं वदे राम देवलोकजिगीषया ।
शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ७.७६.३ ॥
罗摩啊,我并非妄言;是出于征服天界之愿。迦恭特斯啊,请知道我是首陀罗,正在行苦烈的苦行。
7.76.4
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ७.७६.४ ॥
那首陀罗正在说话之时,罗怙后裔从鞘中抽出一柄极为美丽、明亮的剑,斩下了他的头。
7.76.5
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।
साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ७.७६.५ ॥
那首陀罗被杀之后,以因陀罗与火神为首的诸天神一再赞叹迦恭特斯,说道:“善哉,善哉!”
7.76.6
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ७.७६.६ ॥
降下了一场盛大的天界香花之雨;被风吹落的花朵从四面八方飘落。
7.76.7
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।
सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७.७६.७ ॥
诸神大悦,对真正勇武的罗摩说:“仁善者啊,大智者啊,你已很好地完成了诸神的这件事。”
7.76.8
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।
स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ॥ ७.७६.८ ॥
“仁善者啊,你所愿求的恩赐尽管接受吧,制服敌人者。罗怙子孙的喜悦啊,即便为了你,这位首陀罗也不能分享天界。”
7.76.9
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ७.७६.९ ॥
罗怙之子听了诸神的话,心神极为专注,合掌向千眼的补兰陀罗说了这番话。
7.76.10
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।
दिशन्तु वरमेतं मे इप्सितं परमं मम ॥ ७.७६.१० ॥
“如果诸神对我满意,愿那位婆罗门之子活过来。请赐予我这最上的所求之恩。”
7.76.11
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः ।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ७.७६.११ ॥
因我的过失,那位婆罗门的独子已经死去。时辰未到,死神便将他带往毗婆娑多(阎摩)之域。
7.76.12
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ ।
द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ॥ ७.७६.१२ ॥
“请使他复生吧,愿你们吉祥。你们不应做虚妄之事。为了践行我对婆罗门的承诺,我将使你的儿子复活。”
7.76.13
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।
प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ ७.७६.१३ ॥
诸神中的翘楚听了罗怙之子的话,心生欢喜,便回应这充满情意的罗怙之子。
7.76.14
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।
जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ ७.७६.१४ ॥
迦古特斯特啊,请安心吧。就在这一天,那个孩子重获生命,又与亲人团聚了。
7.76.15
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः ।
तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ॥ ७.७६.१५ ॥
迦古特斯特啊,就在这名首陀罗被杀的那一刻,那个孩子又与生命相连了。
7.76.16
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।
अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ ७.७६.१६ ॥
愿你平安吉祥。人中之雄啊,好,我们走吧。罗怙之子啊,我们想去看看阿伽斯提亚的修行处。
7.76.17
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।
द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ ७.७६.१७ ॥
那位大光辉的梵仙的誓愿已经圆满,十二年已经过去,简言之,他曾发愿以水为卧。
7.76.18
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।
त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ ७.७६.१८ ॥
因此,迦古特斯特啊,我们将前去拜会这位圣人。愿你吉祥;你也一同来,去见那位最优秀的仙人。
7.76.19
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ ७.७६.१९ ॥
罗怙之子的喜悦者说“就这样吧”,并允诺诸神,随即登上了饰以黄金的天车普湿波迦。
7.76.20
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।
रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ ७.७६.२० ॥
随后诸神乘着众多宽大的天车启程;罗摩也迅速跟随前往瓶生者(阿伽斯蒂亚)的苦行林。
7.76.21
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ ७.७६.२१ ॥
见诸神到来,苦行的宝库、心怀正法的阿伽斯蒂亚不分彼此,一一敬礼了他们。
7.76.22
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ ७.७६.२२ ॥
诸神接受了供奉,礼敬了这位大仙,欢喜地与随从一同返回天界。
7.76.23
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।
ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ ७.७६.२३ ॥
诸神离去后,迦古特斯塔族的罗摩从普湿波迦天车上下来,向诸仙中最优秀的阿伽斯蒂亚致敬。
7.76.24
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ ७.७६.२४ ॥
他向那位光辉如同燃烧的大德致敬,接受了最高的款待,然后这位人主便坐了下来。
7.76.25
तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ॥ ७.७६.२५ ॥
大光明、大苦行的瓶生仙人对他说:欢迎你,人中之最。罗怙之子啊,你幸运地来到了这里。
7.76.26
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।
अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ ७.७६.२६ ॥
罗摩啊,你以众多卓越的品德为我所敬重。作为客人,你值得尊敬,你也永远住在我的心中。
7.76.27
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ ७.७६.२७ ॥
诸天说:你是作为杀害首陀罗者而来;然而依照法,你使一位婆罗门之子复活了。
7.76.28
उष्यतां चेह रजनी सकाशे मम राघव ।
प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ॥ ७.७६.२८ ॥
罗怙之子啊,请在我这里过夜。黎明时,你将乘坐普什帕卡车返回你自己的城市。
7.76.29
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।
त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ ७.७६.२९ ॥
你正是光荣的那罗延;一切都确立于你之中。你是诸天的主宰;你是永恒的原人。
7.76.30
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ७.७६.३० ॥
温和的人啊,这件饰物是毗首羯磨所造。它神圣,配得上神圣之身,以自身的光辉闪耀。迦古特斯塔啊,请收下它,成全我的心愿吧,罗怙之子。
7.76.31
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।
भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥ ७.७६.३१ ॥
据说,将已经布施之物再次布施,功德极为广大,因为您甚至能够供养因陀罗及诸风神。
7.76.32
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ॥ ७.७६.३२ ॥
您甚至能够救度因陀罗及天界众神;因此,人主啊,我将依照仪轨把它献给您,请您接受。
7.76.33
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ७.७६.३३ ॥
那件神圣而奇妙的饰物如太阳般光辉灿烂。
7.76.34
अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।
रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ ७.७६.३४ ॥
于是,伊刹婆迦族的大车士、智者中最杰出的罗摩,念及刹帝利之法,对那位大德说道。
7.76.35
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।
गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ॥ ७.७६.३५ ॥
尊者啊,接受婆罗门的布施并不值得非议;但我身为刹帝利,又怎能接受呢,婆罗门中最殊胜者?
7.76.36
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ।
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ७.७६.३६ ॥
婆罗门所施之物尤其(值得接受);您应当解释此事。罗摩如此说后,大仙答道。
7.76.37
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ७.७६.३७ ॥
罗摩啊,在圆满时代,在梵天统治的那古老时代,所有民众都没有国王;诸神的国王是因陀罗。
7.76.38
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ ७.७६.३८ ॥
那些民众为了求一位国王,奔向诸神之主,说:“神啊,是您亲自立因陀罗为诸神之王。”
7.76.39
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ।
यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।
न वसामो विना राज्ञा एष नो निश्चयः परः ॥ ७.७६.३९ ॥
世界之主啊,请赐给我们一位人中之尊的国王;我们尊敬他,便可远离罪恶而生活。没有国王,我们便不能生存;这是我们坚定的决心。
7.76.40
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ॥ ७.७६.४० ॥
听了民众的话,并决定了最好的办法,
7.76.41
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।
समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ ७.७६.४१ ॥
于是,诸神中最尊贵的梵天召集了世界守护者和因陀罗,对他们all说:“请交出你们各自的光辉之分。”
7.76.42
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः ।
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ७.७६.४२ ॥
于是所有世界守护者都献出了各自的光辉之分。梵天便从中造出了名为“毗舍”(Kṣupa)的国王,由此诞生了国王毗舍。
7.76.43
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् ।
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ७.७६.४३ ॥
梵天以护世神的份额与他结合。随后,他将国王刹噗(Kṣupa)赐予众生,作为他们的主宰。
7.76.44
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।
वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥ ७.७६.४४ ॥
这位国王以因陀罗的份额统治大地;以婆楼那的份额,这位地上的君王身体得以强健。
7.76.45
कौबेरेण तु भागेन वित्तमासां ददौ तदा ।
यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ ७.७६.४५ ॥
他以俱毗罗的份额,当时赐予他们财富;而那属于阎摩的份额,他便以此统治臣民。
7.76.46
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ ७.७६.४६ ॥
人中之最,罗怙家族的喜悦,请接受因陀罗的那份。愿你吉祥,主上,为了救度我。
7.76.47
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।
तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ७.७६.४७ ॥
罗摩听闻那位至为正法的仙人之言,便接受了仙人那件上好的饰物。
7.76.48
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ७.७६.४८ ॥
于是,罗摩接受了那件上好的饰物,开始询问那位光辉者的来历。
7.76.49
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।
कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ७.७६.४९ ॥
这件物品极其奇妙、神圣,并具有至高的形体。它是如何到你手中的?是被谁、从何处夺取的?
7.76.50
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।
आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ ७.७६.५० ॥
婆罗门啊,大名的圣者,我出于好奇向您请教,因为您是众多奇迹的至高宝藏。
7.76.51
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ७.७६.५१ ॥
当迦恭特斯族的罗摩如此说时,仙人说了这些话:罗摩,请听,往昔在三时代(特雷塔)中,一代又一代所发生的事情。
7.76.52
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।
आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ ७.७६.५२ ॥
在这片可爱地区的森林里,我所见之事令我惊异,啊,大臂者,全凭布施之力。