Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.78

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.78.1

श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ ७.७८.१ ॥

罗摩啊,那位天界者听了我吉祥的言语,合掌回答道:罗怙之喜啊。

7.78.2

शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।
अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ ७.७८.२ ॥

婆罗门啊,请听:这是我苦乐的旧事,你所问的正是不可回避之事。再生者啊!

7.78.3

पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ७.७८.३ ॥

往昔,毗达婆国王、我的父亲,名为苏提婆的大名者,闻名三界,威力强大。

7.78.4

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ॥ ७.७८.४ ॥

婆罗门啊,他从两位妻子那里生了两个儿子:我名为白(Śveta),年幼者成为苏罗陀(Suratha)。

7.78.5

ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ ७.७८.५ ॥

此后,父亲升天,城中百姓为我灌顶,我在那里专心而合乎法度地治理国家。

7.78.6

एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ७.७८.६ ॥

如此,持善誓者啊,婆罗门啊,我以法治理、庇护臣民,时光流逝了千年之久。

7.78.7

सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७.७८.७ ॥

最优秀的再生者啊,我因某种缘故得知自己寿数将尽,便将时间的法则(死亡)存于心中,于是进入了森林。

7.78.8

सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ॥ ७.७८.८ ॥

我进入了这片难以通行、没有鹿和鸟的森林,在一个吉祥的湖边修行苦行。

7.78.9

भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ७.७८.९ ॥

我在王国中为兄弟苏罗陀加冕为大地之主后,来到此湖,长久地修行苦行。

7.78.10

सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ ७.७८.१० ॥

在这片大森林中,经历数千年,我修持了极为艰难的苦行,得到了至高的梵天世界。

7.78.11

तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ ७.७८.११ ॥

最优秀的再生者啊,在那如天界般的世界中,饥渴开始折磨我;最慷慨的人啊,那时我的感官痛苦不堪,于是我走到三界之首的祖父面前,开口说道。

7.78.12

भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ ७.७८.१२ ॥

尊者啊,这梵天世界没有饥渴;而我却受饥渴所随。这是哪一种业行的果报呢?

7.78.13

आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ ७.७८.१३ ॥

神啊,祖父啊,我的食物是什么?请告诉我。

7.78.14

पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ ७.७८.१४ ॥

祖父对我说:“善天之子啊,这就是你的食物。要经常吃你自己美味的肉。”

7.78.15

स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ ७.७८.१५ ॥

你行了至高的苦行,滋养了自己的身体。白者啊,大智者啊,未播种之物永不生长。

7.78.16

तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।
पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।
न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ॥ ७.७८.१६ ॥

国王啊,在这充满众生的森林里,你连一丝满足也没有。从前,与因陀罗相等的你,没有施舍乞食的苦行者,甚至没有招待客人。

7.78.17

दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ ७.७८.१७ ॥

你连一点布施也没有做,只是修苦行。因此,孩子啊,你已升天,仍被饥渴所折磨。

7.78.18

स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥ ७.७८.१८ ॥

吃下你自己那饱经滋养的至上身体,你将尝到如甘露般的精华,由此你便得到满足。

7.78.19

यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ॥ ७.७८.१९ ॥

啊,白者,当伟大而不可战胜的仙人阿伽斯缔来到那片森林时,你便将从这苦难中解脱。

7.78.20

स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ ७.७८.२० ॥

啊,温和者,他连众天神也能救度;何况你,大臂者,已陷于饥渴之中!

7.78.21

सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं स्वशरीरं द्विजोत्तम ॥ ७.७८.२१ ॥

啊,再生者中最优者,我听闻世尊天神之主的决定后,以自己的身体——这可耻的食物——

7.78.22

बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ ७.७८.२२ ॥

啊,婆罗门,多年来我一直在吞食这身体,它却不曾穷尽,啊梵仙,我也未得至上的满足。

7.78.23

तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ ७.७८.२३ ॥

请将陷于苦难的我从此苦难中解救;此处除了再生者瓶生(阿伽斯缔)之外,别无他人可作依靠。

7.78.24

इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ ७.७८.२४ ॥

啊,温和者,再生者中最优者,请为我的解脱收下这件饰物;愿你吉祥;你值得施恩。

7.78.25

इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ ७.७८.२५ ॥

此金、财富与衣服,婆罗门啊;可食之物与可享之物,以及饰物,梵仙啊,我奉上。

7.78.26

सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ ७.७८.२६ ॥

一切愿望与享受我都将赐予,贤者中最上者啊;尊者啊,请在这救度之事上对我施恩。

7.78.27

तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम् ॥ ७.७८.२७ ॥

我听到那位升天者充满悲伤的话语,为了救度,便接受了那件上好的饰物。

7.78.28

मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥ ७.७८.२८ ॥

我一接受那件吉祥的饰物,那位王仙的前世人身便消亡了。

7.78.29

प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ ७.७८.२९ ॥

那身体消亡后,那位王仙心满意足,满怀至上的喜悦,欣然升往天界。

7.78.30

तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ ७.७८.३० ॥

那位与因陀罗相等的人把这件神圣的饰物给了我;考古特斯塔啊,因那件事,这件外观奇妙的饰物被赠予。