蚁垤《罗摩衍那》 · 篇 7.79
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.79.1
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः ।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ ७.७९.१ ॥
罗怙之后(罗摩)听到阿伽斯蒂亚那番极其奇妙的话,出于敬重与惊异,便再次开口发问。
7.79.2
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः ।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ ७.७९.२ ॥
尊者啊,在那可怕的森林里,维达尔巴国王舍婆正在修苦行,那里怎么会没有走兽和飞鸟呢?
7.79.3
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् ।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ७.७९.३ ॥
那位国王是如何进入那片没有人烟的空寂森林去修苦行的呢?我想如实听闻其中的真相。
7.79.4
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् ।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ७.७९.४ ॥
听罢罗摩充满好奇的话语,至尊光辉的阿伽斯蒂亚便开始讲述。
7.79.5
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ ७.७९.५ ॥
往昔在圆满时代,罗摩啊,有执杖之主摩奴。他的伟大儿子是伊克什瓦库,是家族的喜悦。
7.79.6
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् ।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ७.७९.६ ॥
他将那位不可战胜的长子立于王位,并对他说:“你要成为大地上王族的开创者。”
7.79.7
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव ।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥ ७.७९.७ ॥
“就这样吧。”儿子接受了父亲的承诺。罗怙之后啊!于是极为欣喜的摩奴对儿子说道。
7.79.8
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः ।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ७.७९.८ ॥
“我很高兴,至仁之人啊!你必定会成为君主,毫无疑问。以刑罚保护百姓,不要无故施刑。”
7.79.9
अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ७.७९.९ ॥
在人间对罪犯所施的刑罚,若依规定恰当施行,便能引导君王升入天界。
7.79.10
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक ।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ ७.७९.१० ॥
因此,大臂之子啊,你要谨慎地运用刑罚。世间法最为崇高,你若依之而行,它便归你所有。
7.79.11
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ७.७९.११ ॥
他欣然前往三界天界,前往永恒的梵天世界。
7.79.12
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ।
जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ॥ ७.७९.१२ ॥
他升天之后,光辉无量的伊剋湿伐伽陷入忧虑:“我将如何生育儿子呢?”
7.79.13
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् ।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ ७.७९.१३ ॥
这位心怀正法的摩奴之子,以种种善行,生下了百子,如同天神之子。
7.79.14
तेषामवरजस्तात सर्वेषां रघुनन्दन ।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ ७.७९.१४ ॥
亲爱的,罗怙之喜悦者!他们之中最小的那个愚笨无学,也不侍奉兄长。
7.79.15
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः ।
अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ॥ ७.७९.१५ ॥
父亲为这愚笨的儿子取名为"檀陀";他的身上必定会遭受杖刑。
7.79.16
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव ।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ ७.७९.१६ ॥
罗怙之子啊,他见儿子无处可去,只有那可怖之地,故而,啊,制敌者!将位于频耶山与赛瓦拉之间的王国交给了他。
7.79.17
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि ।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ ७.७९.१७ ॥
罗摩啊,檀陀在那里,于秀丽的山坡上成为国王,并建立了一座无与伦比、至上的城市。
7.79.18
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ ७.७९.१८ ॥
啊,主上!他为城市取名"摩度摩特",并选择誓言坚定的乌until纳斯为祭司。
7.79.19
एवं स राजा तद्राज्यमकरोत्सपुरोहितः ।
प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ॥ ७.७९.१९ ॥
就这样,那位国王与他的祭司一同治理那个国家,那里挤满了欢喜的百姓,犹如诸神之王因陀罗。
7.79.20
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् ।
चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ॥ ७.७९.२० ॥
那时,人主之子那位国王与乌商那斯一同治理大国;那位高尚的人伟大,犹如天上与乌商那斯同在的帝释天。