Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.82.1

ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।
उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ॥ ७.८२.१ ॥

罗摩领会了仙人的话,便前往一处圣洁的湖泊举行黄昏祭礼,那里常有成群的天女来往。

7.82.2

तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ ७.८२.२ ॥

罗摩在那里以水净身,完成了傍晚的sandhyā祭礼,随后走进了大德的瓶生者(阿加斯蒂亚)的修行林。

7.82.3

तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् ।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ७.८२.३ ॥

阿加斯蒂亚为他准备了饮食:多种有益的块茎与根、草药,以及如沙利米(śāli)稻等洁净的谷物。

7.82.4

स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ७.८२.४ ॥

人中之杰罗摩食用了那如甘露般的食物,心中欢喜,十分满足,于是在那里安坐,度过了那一夜。

7.82.5

प्रभाते काल्यमुत्थाय कृत्वा ऽ ऽह्निकमरिन्दमः ।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ७.८२.५ ॥

黎明时分,罗摩早早起身,完成日常礼仪后,这位降伏敌人、罗怙族的最胜者,便走近仙人,准备启程。

7.82.6

अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम् ।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ७.८२.६ ॥

罗摩恭敬行礼后,对大仙瓶生者(阿加斯蒂亚)说:“我请求告辞,返回自己的城邑;请您允许我离去。”

7.82.7

धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७.८२.७ ॥

我有福了,蒙受这位大德者的恩典。为了洗净自己,我还要再来这里拜见他。

7.82.8

तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ७.८२.८ ॥

当Kākutstha Rāma说出这些奇妙的话语时,那位以法为眼、富有苦行的仙人非常欢喜,说道:

7.82.9

अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् ।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ७.८२.९ ॥

罗摩啊,你的这些话极为奇妙,字字吉祥。罗怙之悦啊,唯有你才是一切众生的净化者。

7.82.10

मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ।
पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ॥ ७.८२.१० ॥

罗摩啊,无论谁哪怕见你一瞬,便得清净,堪升天界,并为一切天神所敬仰。

7.82.11

ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ ७.८२.११ ॥

世间那些以恶毒之眼看你的众生,立刻被阎摩的杖击杀,堕入地狱。

7.82.12

ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।
भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ॥ ७.८२.१२ ॥

罗怙之最优者啊,你正是如此,是一切有身众生的净化者。罗ghava啊,即便在世间谈论你的人,也将获得成就。

7.82.13

गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ ७.८२.१३ ॥

平安而镇定地走那无惧的道路吧。以法(dharma)治理王国,因为你正是世界的依靠。

7.82.14

एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ।
अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ ७.८२.१४ ॥

贤明的国王听了仙人这样的话,合掌恭敬,向那位有功德的仙人行礼致敬。

7.82.15

अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ ७.८२.१५ ॥

向最杰出的仙人和所有具足苦行功德者行礼之后,那平静的国王登上了饰有黄金的普湿波迦车。

7.82.16

तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।
अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ ७.८२.१६ ॥

他启程之时,各群仙人从四面以祝福礼敬他,如同诸天礼敬千眼因陀罗一般,他光辉如大因陀罗。

7.82.17

स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते ।
शशी मेघसमीपस्थो यथा जलधरागमे ॥ ७.८२.१७ ॥

平静自持的罗摩出现在饰有黄金的普湿波迦车上,如同雨季来临时靠近云朵的月亮。

7.82.18

ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ ७.८२.१८ ॥

随后正午时分,罗摩——迦恭斯特族之人——在四方受到礼敬,抵达阿逾陀,降落在中庭。

7.82.19

ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ।
विसर्जयित्वा गच्छेति स्वस्ति ते ऽस्त्विति च प्रभुः ॥ ७.८२.१९ ॥

随后,这辆美丽的普史帕卡车(可随意前往任何地方)被主君遣去,他说:“去吧,愿你平安。”

7.82.20

कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ॥
ममागमनमाख्याय शब्दापयत मा चिरम् ॥ ७.८२.२० ॥

罗摩对站在另一间殿堂门口的守门人说了这些话:“去见步伐轻捷的罗什曼那和婆罗多,告知我的到来,不要耽搁,立即把他们请来。”