蚁垤《罗摩衍那》 · 篇 7.83
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.83.1
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः ।
द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ ७.८३.१ ॥
守门人听了行事不费力的罗摩的话,召来两位王子,向罗怙后裔禀报。
7.83.2
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ।
परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ ७.८३.२ ॥
罗怙后裔见亲爱的婆罗多与罗什曼那到来,便拥抱他们,随即说了这些话。
7.83.3
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥ ७.८३.३ ॥
我已如实完成了为再生者所作的最高功业。罗怙诸子啊,现在我又想再次建造法桥。
7.83.4
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ॥ ७.८३.४ ॥
在我看来,法桥是不朽不灭的,因为它成就法,并灭除一切罪过。
7.83.5
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ७.८३.५ ॥
我想与你们二人——你们如同我自身——一同举行最殊胜的王祭,因为其中有永恒的法。
7.83.6
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः ।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ७.८३.६ ॥
灭敌的弥陀罗举行罗阇苏耶祭,凭借妥善献上的供物与善祭,得到了伐楼那之位。
7.83.7
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ।
प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७.८३.७ ॥
月神苏摩亦依法举行王祭大典,通晓法则,在一切世界中获得了永恒的荣耀之地。
7.83.8
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।
हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ७.८३.८ ॥
今日何者为善,请与我共同思量;对你们二人而言,应当谨慎去做那有益且利于未来的事。
7.83.9
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.८३.९ ॥
罗怙之后(罗摩)说完这些话,善于言辞的婆罗多合掌而立,说出了这番话。
7.83.10
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा ।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ ७.८३.१० ॥
善人啊,至高的法在你身上;整个大地都依托于你。大臂者啊,无量勇猛者啊,荣耀也确立于你身上。
7.83.11
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।
निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ॥ ७.८३.११ ॥
所有的国王都如同瞻仰生主、诸天一般瞻仰你;我们也如此瞻仰你这位大德、世界之主。
7.83.12
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।
पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ॥ ७.८३.१२ ॥
大王啊,大力者啊,儿子们也像看待父亲一样看待你。罗怙之后啊,你是大地的依靠,也是众生的归宿。
7.83.13
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ ७.८३.१३ ॥
国王啊,你怎能举行这样一场祭祀,在其中可见大地上王族的灭绝?
7.83.14
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥ ७.८३.१४ ॥
国王啊,大地上凡已达到勇武的男子,都将在那里遭遇由众怒所生的毁灭。
7.83.15
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ ७.८३.१५ ॥
人中之虎啊,你的勇武与德行无与伦比,你不应毁灭大地,因为它就在你的掌控之中。
7.83.16
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ ७.८३.१६ ॥
罗摩听到婆罗多那如甘露般的话语,以其真实的勇武,此时感到无比的喜悦。
7.83.17
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् ।
प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ॥ ७.८३.१७ ॥
他说出了增加吉祥与喜悦的话,使凯刻伊欢喜:“无瑕的人啊,今日我因你的言语而欢喜,心满意足。”
7.83.18
इदं वचनमक्लीबं त्वया धर्मसमाहितम् ।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ ७.८३.१८ ॥
人中之虎啊,你说出了这些坚定、依于法的话,它们关乎大地的护持。
7.83.19
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् ।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ ७.८३.१९ ॥
知法者啊,因你的善言,我将放弃由我们的意愿而将举行的最殊胜祭礼——王祭(罗阇苏耶)。
7.83.20
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।
बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज ।
तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ॥ ७.८३.२० ॥
使世间受苦的行为,智者不应去做。即便是孩童的善言也应当接受。因此,罗什曼那的兄长啊,大智者,我聆听你良善而恰当的话语。