Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.86

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.86.1

तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।
कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ ७.८६.१ ॥

于是人中之最的罗什曼那,将弗栗多被杀的全部经过讲完后,开始讲述余下的故事。

7.86.2

ततो हते महावीर्ये वृत्रे देवभयङ्करे ।
ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ ७.८६.२ ॥

于是,令诸神恐惧的大勇者弗栗多被杀之后,被杀婆罗门之罪所笼罩的因陀罗,虽为杀弗栗多者,却未能恢复神智。

7.86.3

सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः ।
कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ॥ ७.८६.३ ॥

他躲在诸世界的边缘,失去知觉、神智昏迷,在那里停留了一段时间,如同蜷缩的蛇。

7.86.4

अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।
भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ ७.८६.४ ॥

千眼因陀罗消失之后,世界陷入动荡;大地仿佛毁坏,失去湿润,森林干枯。

7.86.5

निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा ।
सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ॥ ७.८६.५ ॥

所有的湖泊和河流都失去了流动,因缺雨,众生之间生出了骚乱。

7.86.6

क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः ।
यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ७.८६.६ ॥

此世界将要衰亡之时,心神惶乱的诸神,便举行了先前毗湿奴所说的那场祭祀。

7.86.7

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।
तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७.८६.७ ॥

于是诸天众神,连同他们的师长与仙人,来到了因恐惧而迷惑的因陀罗所在之处。

7.86.8

ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया ।
तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ ७.८६.८ ॥

他们看到千眼因陀罗被杀害婆罗门的罪业所笼罩,便推举天主为首,开始了马祭。

7.86.9

ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।
ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ॥ ७.८६.९ ॥

啊,人主!于是,伟大的摩亨陀罗的马祭愈加隆重,为的是洗净杀害婆罗门的罪业。

7.86.10

ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः ।
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ ७.८६.१० ॥

于是祭祀完成后,杀害婆罗门的罪业来到这位大德面前说道:"你们要为我安排在哪里?"

7.86.11

ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ।
चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ७.८६.११ ॥

那时,众神心怀欢喜与善意,对她说:"啊,难以接近者,你自己以自身之力分为四份吧。"

7.86.12

देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् ।
सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ ७.८६.१२ ॥

杀害婆罗门的罪业听了众神的话,在诸大德面前请求另立一处为恩赐之地;杜尔婆娑也这样做了。

7.86.13

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।
चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ ७.८६.१३ ॥

我将以一部分身躯居于水流充盈的河流中,度过雨季四个月——摧毁傲慢,成就愿望。

7.86.14

भूम्यामहं सर्वकालमेकेनांशेन सर्वदा ।
वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ ७.८६.१४ ॥

我将在大地上、时时刻刻,以一部分身躯永远居住——毫无疑问。我以真实之言告诉你们。

7.86.15

यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु ।
त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ॥ ७.८६.१५ ॥

我的这第三部分将在充满青春与傲慢的女子之中居住三夜,作为摧毁傲慢者。

7.86.16

हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् ।
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ ७.८६.१६ ॥

那些以谎言为先、杀害无罪婆罗门的人——诸神中的雄牛啊,我将以我的第四部分依附于他们。

7.86.17

प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।
तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ ७.८६.१७ ॥

于是诸神回答她说:“就照你所说的,啊,杜尔婆娑,就这样吧;成就你所想要的一切。”

7.86.18

ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे ।
विज्वरः स च पूतात्मा वासवः समपद्यत ॥ ७.८६.१८ ॥

于是诸神欢喜,向千眼者(因陀罗)致敬;灵魂得净的婆娑(因陀罗)便脱离了苦恼。

7.86.19

प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते ।
यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ॥ ७.८६.१९ ॥

千眼者(因陀罗)复位后,整个世界恢复平静;于是帝释敬重那场如奇迹般的祭祀。

7.86.20

ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन ।
यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ ७.८६.२० ॥

马祭的恩德确实如此,荷祖之乐啊。大福的君王啊,请以马祭来举行祭祀吧。

7.86.21

परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ ७.८६.२१ ॥

其勇武与威力可比因陀罗者,闻此之后,心中欢喜,得到了满足。