蚁垤《罗摩衍那》 · 篇 7.87
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.87.1
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ ७.८७.१ ॥
罗怙之后、精于言辞、威光赫赫的罗摩听了罗什曼那所说的这番话,微笑着回答道。
7.87.2
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।
वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ ७.८७.२ ॥
说得对啊,人中之雄,罗什曼那:杀死弗栗多之事,以及马祭的全部果报,确实如你所言。
7.87.3
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ॥ ७.८७.३ ॥
温和的人啊,据说往昔有一位名叫伊罗的人,他是生主迦尔达摩之子,巴赫利卡的光荣之主,是一位志向远大的人。
7.87.4
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ ७.८७.४ ॥
那位极其正直的国王,征服了整个大地,像对待儿子一样,好好地守护着他的王国,人中之虎啊。
7.87.5
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥ ७.८७.५ ॥
被诸神、极其慷慨的提婆、极其富有的龙、罗刹、乾闼婆和夜叉——这些大德们所尊崇。
7.87.6
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।
अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ ७.८७.६ ॥
温和的人啊,罗怙之喜,他总是被惧怕的人们所尊崇;而那位大德在愤怒时,三界也不惧怕他。
7.87.7
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।
बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥ ७.८७.७ ॥
那位国王确实如此:安住于法与勇力,智慧极为宽厚,是巴赫利卡之主,声名远扬。
7.87.8
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।
चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ ७.८७.८ ॥
这位大臂者在恒河般美丽的森林中,于令人愉悦的遮怛罗月,与侍从、军队和车骑一同开始狩猎。
7.87.9
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः ।
हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ ७.८७.९ ॥
国王在林中射杀了成百上千的鹿,然而那位大德之王即使杀了也不满足。
7.87.10
नानामृगाणामयुतं वध्यमानं महात्मना ।
यत्र जातो माहासेनस्तं देशमुपचक्रमे ॥ ७.८७.१० ॥
大德之王射杀了多种鹿共万只;随后他前往摩诃塞那(室建)降生之地。
7.87.11
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।
रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ७.८७.११ ॥
在那片地区,诸神之主哈罗(湿婆),不可战胜,与所有随从一起使山王之女欢悦。
7.87.12
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।
देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ ७.८७.१२ ॥
牛旗之主、乌玛的主宰湿婆化身为女子,为了讨好女神,停留在那座山间的瀑布旁。
7.87.13
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।
वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ॥ ७.८७.१३ ॥
于是,那片林地中凡以阳性称呼的生灵,以及拥有男性名字的树木,此时都变成了女子。
7.87.14
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।
निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ ७.८७.१४ ॥
凡是那里的一切都获得了阴性的名称。此时,迦尔达摩之子国王伊罗杀戮成千上万的鹿,来到了那个地方。
7.87.15
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।
आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ ७.८७.१५ ॥
他看到一切都变成了阴性,包括蛇、兽与鸟;啊,罗怙之喜,他也看到自己和随从都变成了女子。
7.87.16
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् ।
उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ ७.८७.१६ ॥
看到自己变成了那样,他感到极大的悲伤;得知乌玛之主所做之事,他便生出了恐惧。
7.87.17
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।
जगाम शरणं राजा सभृत्यबलवाहनः ॥ ७.८७.१७ ॥
于是,那位国王携同仆从、军队与车骑,前往依附那位伟大的神灵——青颈、披发者。
7.87.18
ततः प्रहस्य वरदः सह देव्या महेश्वरः ।
प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ ७.८७.१८ ॥
于是,赐予恩惠的摩醯首罗与天女一同含笑,亲自对生主之子说出了这些话。
7.87.19
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।
पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ ७.८७.१९ ॥
起来吧,起来吧,王仙之子,迦尔达玛之子,大力者。善良的人啊,守誓的人啊,除了男性之外,请选择一个恩赐吧。
7.87.20
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।
न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ ७.८७.२० ॥
那位国王因悲痛而备受煎熬,被大德者拒绝,又已变成女身,便不再接受天神之中最尊者所赐的其他恩惠。
7.87.21
ततः शोकेन महता शैलराजसुतां नृपः ।
प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ ७.८७.२१ ॥
于是,国王怀着深重的悲痛,以全部内心向山王之女天神乌玛顶礼。
7.87.22
ईशे वराणां वरदे लोकानामसि भामिनी ।
अमोघदर्शने देवी भज सौम्येन चक्षुषा ॥ ७.८७.२२ ॥
你是众恩赐的主宰,赐予恩惠者;你是诸世界的主宰。光彩照人的女神啊,目光从不落空的女神啊,请以慈和的目光垂顾我吧。
7.87.23
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ ७.८७.२३ ॥
在哈罗面前,她了解了那位王仙心中所想,于是这位深受楼陀罗喜爱的女神说出了吉祥的话语。
7.87.24
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ ७.८७.२४ ॥
半恩之神是赐予恩惠的湿婆;而对你而言,你所得恩惠的一半也由我来赐予。因此你就接受一半吧,女性与男性之间,你想要多少便取多少。
7.87.25
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।
सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ ७.८७.२५ ॥
国王听了女神这最为奇妙、无上的恩赐,心中大喜,于是说道:
7.87.26
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ ७.८७.२६ ॥
女神啊,若您对我满意,愿我在人间容貌无比,先做一月女子,再做一月男子。
7.87.27
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।
प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ ७.८७.२७ ॥
女神明白了他的心愿,以吉祥之语回答:“就这样吧。”
7.87.28
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।
स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ ७.८७.२८ ॥
国王啊,你为男子时,将不记得女子之身;为女子时,整整一月将不记得男子之身。
7.87.29
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।
त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ॥ ७.८७.२९ ॥
于是那国王做了一个月的男子;随后,迦尔达马之子化为三界最美的女子伊拉,度过了一月。