蚁垤《罗摩衍那》 · 篇 7.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.9.1
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ ७.९.१ ॥
某时,名叫苏摩利的罗刹从罗萨塔拉来到凡人世界,四处游荡。
7.9.2
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।
कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ ७.९.२ ॥
他如蓝色雷云,戴着烧红的金耳环,带着女儿同行,her如离开莲花的吉祥天女。
7.9.3
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ।
तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ७.९.३ ॥
那时,在大地上游荡的罗刹王看见财神俱毗罗乘着普须波迦飞车经过。
7.9.4
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् ।
तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥ ७.९.४ ॥
他看见补罗斯底耶之子、威力强大的俱毗罗,正前去探望父亲补罗斯底耶,他如天神一般,行动自在如太阳……
7.9.5
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः ।
इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ७.९.५ ॥
他从凡人世界进入罗萨塔拉,心中惊叹,这位罗刹中的大智者如此思量。
7.9.6
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् ।
अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ७.९.६ ॥
“我们该做什么才好?我们怎样才能兴盛?”他如此思量,便对名叫迦迦西的女儿说道。
7.9.7
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते ।
प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७.९.७ ॥
女儿啊,这是出嫁的时候了,你的青春正在流逝。求婚者因畏惧被拒绝,不肯接纳你。
7.9.8
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ।
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.९.८ ॥
因为你,我们虽然心存法义,却都受到束缚。女儿啊,你具备一切美德,仿佛就是吉祥天女本人。对于所有渴望声誉的人来说,做女儿的父亲是一种忧愁。
7.9.9
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ७.९.९ ॥
女儿啊,谁会选择这位女子,尚不可知。
7.9.10
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते ।
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७.९.१० ॥
女儿啊,你具备一切美德,仿佛就是吉祥天女本人。母族与父族托付之处,少女总是立于其间,使三族都悬于疑虑之中。
7.9.11
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् ।
भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ७.९.११ ॥
因此,女儿啊,去投奔生于生主之族的诸仙中最优者毗什罗婆,并亲自选择补罗私多之子吧。
7.9.12
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ।
तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ॥ ७.९.१२ ॥
女儿啊,你必会生出像他这样的儿子,毫无疑问,其光辉如太阳,正如这位财神。
7.9.13
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् ।
तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ ७.९.१३ ॥
少女听了这话,出于对父亲的敬重,走到毗首罗婆修行之处,站在那里。
7.9.14
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।
अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ ७.९.१४ ॥
罗摩啊,此时补罗斯底耶之子那位再生婆罗门正在行火供,犹如第四堆圣火。
7.9.15
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् ।
उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ।
विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ ७.९.१५ ॥
出于对父亲的敬重,她不顾那可怕的时刻,走到他面前,低头面向他的脚站立,用大脚趾尖反复在地上划着。
7.9.16
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ।
अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ ७.९.१६ ॥
他见她腰肢优美,面如满月,以自身光辉照耀,那位极为宽厚的人便开口说道。
7.9.17
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।
किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ ७.९.१७ ॥
善良的女子,你是谁的女儿?从何处来到这里?为了什么事,或因为谁而来?光彩照人的人啊,请如实告诉我。
7.9.18
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।
आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ ७.९.१८ ॥
少女听他这样问,合掌回答说:圣人啊,您可以凭自己的神通知道我的心意。
7.9.19
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् ।
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ ७.९.१९ ॥
但请知道,婆罗门仙人,我是奉父亲之命而来的。我名为迦迦西;其余的您应当知晓。
7.9.20
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ ७.९.२० ॥
那位仙人入定之后说道:善女啊,你心中的缘由,我已经知晓了。
7.9.21
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि ।
दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ ७.९.२१ ॥
你行走如发情的象,你想要儿子的念头来自于我,因为你在这可怕的时刻来到了我这里。
7.9.22
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ ७.९.२२ ॥
因此,善女啊,听着:你将生下怎样的儿子——可怖的,形貌可怖的,喜爱可怖家族的。
7.9.23
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ।
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ ७.९.२३ ॥
美腰的女子啊,你将生下行为残酷的罗刹。她听了这些话,便行礼并这样说道。
7.9.24
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः ।
नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ ७.९.२४ ॥
尊贵的仙人,宣说吠陀者啊,我不愿从您这里得到这样的儿子;我不想要行为极其邪恶的儿子。请您施恩。
7.9.25
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ।
उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ ७.९.२५ ॥
女儿这样说后,最优秀的仙人毗奢罗婆又对迦迦西说话,如满月之于罗曷尼。
7.9.26
पश्चिमो यस्तव सुतो भविष्यति शुभानने ।
मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ ७.९.२६ ॥
吉祥面容的女子啊!你将生的最小的儿子,将配得上我的家族,并且心怀正法。
7.9.27
एवमुक्ता तु सा कन्या राम कालेन केनचित् ।
जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ ७.९.२७ ॥
罗摩啊!这样被说之后,那位少女迦迦西在一定时候生下了一个丑陋至极的罗刹形体。
7.9.28
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् ।
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ ७.९.२८ ॥
他有十个脖颈,巨大的獠牙,身躯如一堆青色的黛墨,红色的嘴唇,二十只手臂,巨口,和闪耀的头发。
7.9.29
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः ।
क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ ७.९.२९ ॥
就在他诞生的那一刻,口衔火焰的豺狼和食肉之兽开始向左做不吉祥的盘旋。
7.9.30
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः ।
प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ७.९.३० ॥
天神降下血雨,乌云发出粗厉的雷声,太阳不再放光,大流星坠落于地上。
7.9.31
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः ।
अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ ७.९.३१ ॥
大地震动,狂风猛烈地吹起。不可撼动的河流之主大海也翻腾起来。
7.9.32
अथ नामाकरोत्तस्य पितामहसमः पिता ।
दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ॥ ७.९.३२ ॥
于是与梵天相同的父亲为他取名:“此子生而十颈,他将名为十颈王(Daśagrīva)。”
7.9.33
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ७.९.३३ ॥
此后,大力的鸠婆羯罗那(Kumbhakarṇa)出生,他庞大的身躯在此无可比拟。
7.9.34
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना ।
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ७.९.३४ ॥
接着生下一女名为首哩潘那卡(Śūrpaṇakhā),面容丑陋;品德高尚的毗भीषण是迦迦悉的幼子。
7.9.35
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ७.९.३५ ॥
当那位伟大的生灵降生时,天降花雨。
7.9.36
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ।
वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ ७.९.३६ ॥
此时天空中响起诸神的鼓声,空中回荡着“善哉,善哉”的声音。
7.9.37
तौ तु तत्र महारण्ये ववृधाते महौजसौ ।
कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ७.९.३७ ॥
那两位大力者,鬼王昆跋迦尔纳与十首罗波那,当时在那大森林中成长,使诸世界心生恐惧。
7.9.38
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ।
त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥ ७.९.३८ ॥
昆跋迦尔纳狂放不羁,四处游荡,不断吞食热爱正法的大仙和三界,从未满足。
7.9.39
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।
स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ७.९.३९ ॥
然而善心正直的维毗沙那始终安住于正法;他勤于诵习、饮食有节,克制诸根,如此而住。
7.9.40
अथ वैश्रवणो देवस्तत्र कालेन केनचित् ।
आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ७.९.४० ॥
此后不久,神明毗沙罗婆那(财神俱毗罗)乘着普什帕卡飞车来到那里,去看望他的父亲。
7.9.41
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।
आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ७.९.४१ ॥
罗刹女迦盖西见他在那里光芒灼耀,仿佛燃烧一般,便走来对十首罗波那说道。
7.9.42
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।
भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ७.९.४२ ॥
"儿啊,看看你的兄长毗沙罗婆那,周身笼罩着光华。作为兄弟,你们二人本是平等的;可你再看看自己,你是这样的吗?"
7.9.43
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम ।
यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥ ७.९.४३ ॥
十首之王,威力无量,你要如此努力;我的儿子,你要成为与毗沙罗婆那相等的人。
7.9.44
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ७.९.४४ ॥
十首罗刹听了母亲的这番话,心中生起无比的愤怒,于是立下誓愿。
7.9.45
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा ।
भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ ७.९.४५ ॥
我真诚地向你保证:我将与兄弟们相等,甚至超过他们,凭借我自己的力量;放下你心中的这份忧伤吧。
7.9.46
ततस्तेनैव कोपेन दशग्रीवः सहानुजः ।
चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ७.९.४६ ॥
于是,凭着那股愤怒,十首罗刹与其幼弟,想要完成艰难的功业,心意坚定地投入苦修。
7.9.47
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च ।
आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ७.९.४७ ॥
他决定:“我将凭苦修得到我的心愿。”于是为了成就自身,他前往吉祥的瞿羯罗(Gokarṇa)修行处。
7.9.48
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः ।
अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ७.९.४८ ॥
那罗刹与幼弟在彼处进行了无与伦比的苦修;他使无所不在的祖父(梵天)欢喜,梵天欢喜后赐予带来胜利的恩惠。