蚁垤《罗摩衍那》 · 篇 7.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.90.1
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् ।
उवाच लक्ष्मणो भूयो भरतश्च महायशाः ॥ ७.९०.१ ॥
罗摩如此说完后,大名远扬的罗什曼那与婆罗多听闻那奇妙的出生,又再次开口。
7.90.2
इला सा सोमपुत्रस्य संवत्सरमथोषिता ।
अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ॥ ७.९०.२ ॥
人中之最!那月神之子与伊拉同住一年之后,她做了什么?这件事你应当告诉我们。
7.90.3
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः ।
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ॥ ७.९०.३ ॥
罗摩听到这二人发问时甘美的话语,便再次讲述了这个关于生主之子的故事。
7.90.4
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् ।
संवर्तं परमोदारमाजुहाव महायशाः ॥ ७.९०.४ ॥
英雄恢复男性之身后,极其睿智、大名远扬的佛陀(Budha)召来了极其慷慨的桑伐尔达。
7.90.5
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् ।
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ॥ ७.९०.५ ॥
他召来了婆利古之子车耀仙、仙人阿里斯塔奈弥、施予欢喜的普拉摩达那,然后是仙人杜尔婆娑。
7.90.6
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः ।
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ ७.९०.६ ॥
召集了他们所有人之后,通晓言辞之义、洞见真理的佛陀,以坚定之心对所有专心凝神的朋友们说道。
7.90.7
अयं राजा महाबाहुः कर्दमस्य इलः सुतः ।
जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ॥ ७.९०.७ ॥
这位臂力强大的国王是卡尔达玛之子伊罗。请如实地认识他,并在此处决定什么是最好的。
7.90.8
तेषां संवदतामेव तमाश्रममुपागमत् ।
कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ ७.९०.८ ॥
他们正在交谈之时,大光辉的卡尔达玛与诸位大德的再生婆罗门一同来到了那座净修林。
7.90.9
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च ।
ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ॥ ७.९०.९ ॥
补罗斯提亚、克拉都、瓦沙特卡拉,以及同样大光辉的奥迦罗,也来到了那座净修林。
7.90.10
ते सर्वे हृष्टमनसः परस्परसमागमे ।
हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ ७.९०.१० ॥
他们众人心中欢喜,相会之际,愿巴赫利之主得福,各自说出了不同的话语。
7.90.11
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् ।
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ७.९०.११ ॥
于是卡尔达玛为了儿子说出了最有益的话语:"诸位再生婆罗门,请听我的话,这对国王是有益的。"
7.90.12
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् ।
नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ।
तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ॥ ७.९०.१२ ॥
除了牛旗之主(湿婆)之外,我看不到别的药方。没有比马祭更高的祭祀,而且它也为伟大灵魂所喜爱。因此,我们大家都应为国王举行这难以成就的祭祀。
7.90.13
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ।
रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ॥ ७.९०.१३ ॥
迦尔达摩如此说后,所有最优秀的再生者都赞同为礼敬鲁陀罗而举行那场祭祀。
7.90.14
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः ।
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ ७.९०.१४ ॥
摩噜多,乃王仙僧伐多之弟子,征服诸城而以此名闻名,他主持了那场祭祀。
7.90.15
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः ।
रुद्रश्च परमं तोषमाजगाम महायशाः ॥ ७.९०.१५ ॥
随后,在菩陀的净修处附近举行了盛大的祭祀,大名远扬的鲁陀罗得到了无上的欢喜。
7.90.16
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ।
उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ॥ ७.९०.१६ ॥
祭祀完成后,乌玛之主满心欢喜,在伊罗面前对所有再生者说道。
7.90.17
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः ।
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ॥ ७.९०.१७ ॥
诸位再生者中的至尊啊,我因这次马祭和你们的虔诚而欢喜。我该为这位巴赫利卡之主施予何种吉祥的恩惠呢?
7.90.18
तथा वदति देवेशे द्विजास्ते सुसमाहिताः ।
प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ ७.९०.१८ ॥
天神之主如此说时,那些再生者们全神贯注地去取悦天神之主,以使伊罗成为男子。
7.90.19
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ।
इलायै सुमहातेजा दत्त्वा चान्तरधीयत ॥ ७.९०.१९ ॥
于是大天神心生欢喜,再次赐予伊罗男性之身;这位大光辉者施予恩典后便隐去了。
7.90.20
निवृत्ते हयमेधे च गतश्चादर्शनं हरः ।
यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ ७.९०.२० ॥
马祭完成后,哈罗从视野中消失;所有远见的婆罗门都按来时的方式返回了。
7.90.21
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् ।
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ ७.९०.२१ ॥
国王离开巴赫利卡,在中部之地建立了一座无与伦比、能带来荣誉的城市——普罗提斯塔那。
7.90.22
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः ।
प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ ७.९०.२२ ॥
王仙沙舍滨都是征服巴赫利卡诸城的人;在普罗提斯塔那,统治者是伊罗王,生主之子,强大有力。
7.90.23
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् ।
ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ ७.९०.२३ ॥
时机成熟时,伊罗抵达了梵天的至高世界;伊罗之子、王者补茹罗婆获得了普罗提斯塔那。
7.90.24
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ ।
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ ७.९०.२४ ॥
两位人中雄牛啊,马祭的威力正是如此:化为女身者又得回男身,还得到了其他难得之物。