蚁垤《罗摩衍那》 · 篇 7.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.91.1
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ।
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ ७.९१.१ ॥
说完这些,无量光辉的迦古特斯塔之子(罗摩)又对两位兄弟,并对罗什曼那说出了这番合乎法的话。
7.91.2
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् ।
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ ७.९१.२ ॥
婆尸owed
7.91.3
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण ।
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ॥ ७.९१.३ ॥
召集他们全部并商议之后,啊罗什曼那,我将依仪式从容地放出那匹具备相状的马。
7.91.4
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः ।
द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ॥ ७.९१.४ ॥
罗怙婆之子说完此言,行动迅捷的(罗什曼那)听后,召集全体再生族,把他们引见给罗怙婆之子。
7.91.5
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् ।
राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ७.९१.५ ॥
他们见罗怙婆之子如神一般,向他们足下礼拜,极难被战胜,便以祝福之辞敬奉他。
7.91.6
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् ।
आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ॥ ७.९१.६ ॥
于是,罗怙婆之子合掌而立,大名远扬,向最优秀的再生族宣示了他关于马祭的意图。
7.91.7
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् ।
अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७.९१.७ ॥
众婆罗门听了罗摩的话,向牛旗神(湿婆)礼敬,并全面地尊崇马祭。
7.91.8
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् ।
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ॥ ७.९१.८ ॥
听到这些最尊贵的婆罗门关于马祭的奇妙言辞,他当时非常欢喜。
7.91.9
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् ।
प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ॥ ७.९१.९ ॥
罗摩明白了他们的意图,便对罗什曼那说:“速派使者前往大心的须羯哩婆。”
7.91.10
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् ।
सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ॥ ७.९१.१० ॥
请与众多大猴及林中居民一同前来,愿你吉祥,共享这盛大的庆典。
7.91.11
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः ।
अश्वमेधं महायज्ञमायात्वतुलविक्रमः ॥ ७.९१.११ ॥
愿无双勇武的毗卑沙那也率领众多随意往来的罗刹前来这场大马祭。
7.91.12
राजानश्च महाभागा ये मे प्रियचिकीर्षवः ।
सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ॥ ७.९१.१२ ॥
愿那些有大福、想要善待我的诸王,速携随从前来观看这最殊胜的大祭。
7.91.13
देशान्तरगता ये च द्विजा धर्मसमाहिताः ।
आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ॥ ७.९१.१३ ॥
啊,罗什曼那,请邀请所有前往他乡、坚守法道的再生者,参加马祭。
7.91.14
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः ।
देशान्तरगताः सर्वे सदाराश्च द्विजातयः ।
तथैव तालावचरास्तथैव नटनर्तकाः ॥ ७.९१.१४ ॥
啊,大臂者,也请召集以苦行为财富的仙人;请召集前往他乡的所有再生者,偕同妻子,以及拍子舞者与演员舞者也同样召集。
7.91.15
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने ।
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ॥ ७.९१.१५ ॥
请下令在戈玛蒂河畔的奈米沙森林中建造大型祭场;啊,大臂者,那地方极为神圣、至高无上。
7.91.16
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ॥ ७.९१.१६ ॥
啊,大臂者,也请在四方举行平息之仪。
7.91.17
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् ।
अनुभूय महायज्ञं नैमिशे रघुनन्दन ॥ ७.९१.१७ ॥
啊,罗摩后裔的欢喜者,愿在奈米沙,数以百计的法智者也能亲历这至上的大祭,诸祭之首。
7.91.18
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि ।
प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ॥ ७.९१.१८ ॥
依礼受到尊敬、得到供养并满足的众人,都将获得欢喜;啊,知法者,请迅速召集众人。
7.91.19
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् ।
अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ॥ ७.९१.१९ ॥
愿百千车饱满优质的米,与万车芝麻和绿豆先行,啊大力者。
7.91.20
चणकानां कुलित्थानां माषाणां लवणस्य च ।
अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ॥ ७.९१.२० ॥
鹰嘴豆、马豆、黑豆与盐;并依此配备酥油、油和香料,哪怕只是少量。
7.91.21
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ॥ ७.९१.२१ ॥
数以千万计的金币,以及百余枚银币;以婆罗多为首,让它们安详地先行。
7.91.22
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः ।
सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ॥ ७.९१.२२ ॥
中间还有市场街道,所有的演员与舞者,厨师,以及许多青春洋溢的女子。
7.91.23
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः ।
नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ॥ ७.९१.२३ ॥
与婆罗多一同,让他们前行,军队在前;城中居民、久经沙场的老兵与心志专一的婆罗门也同行。
7.91.24
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् ।
मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ॥ ७.९१.२४ ॥
工程监管、木匠、库房主管与商人;还有我所有的母亲、王子们以及后宫。
7.91.25
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि ।
अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ॥ ७.९१.२५ ॥
愿名声显赫的婆罗多走在前面,将我金制的妻像与精通授戒仪式的贤者置于前列。
7.91.26
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ॥ ७.९१.२६ ॥
这位力量强大的人中之最,下令为光辉显赫的诸王及其随从备办珍贵而有用之物。