奥义书 · Aitareya 3.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Aitareya 3.1.1
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा । येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१.१ ॥
“这个我是谁,我们应当崇拜?那个我是哪一个?人借以见,借以听,借以嗅香气,借以发出言语,借以分辨甜与不甜?”
Aitareya 3.1.2
यदेतद्धृदयं मनश्चैतत् । सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिधृर्तिमतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.१.२ ॥
这就是心与意:觉知、认识、理解、智慧(prajñāna)、慧、见、定力、思、智慧、冲动、记忆、决心、意志、生气、欲望与自制——这一切都是智慧(prajñāna)的名称。
Aitareya 3.1.3
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव । बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३.१.३ ॥
此即梵,此即因陀罗,此即生主;一切诸神,这五大元素——地、风、空、水、光——以及一切细小混杂之物,种子与其他,卵生、胎生、湿生、卵生植物,马、牛、人、象,一切行动的、有翼的以及静止的,凡此一切,都以智慧(prajñā)为眼,安立于智慧之中。智慧是世界之眼,智慧是根基。智慧(prajñāna)即是梵。
Aitareya 3.1.4
स एतेन प्राज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥ ३.१.४ ॥
他与此有慧之我一同离开此世,在那天界之中获得一切所欲,成为不死者,成为不死者。