奥义书 · Chāndogya 3.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 3.14.1
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिꣳल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ ३.१४.१ ॥
此一切诚然是梵;由彼而生,入彼而灭,在彼中呼吸;应以寂静之心如此观想。人是由意志(欲望)所成的:他在此世的意志如何,离此而去后便成为如何。因此他应当立下志愿。
Chāndogya 3.14.2
मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३.१४.२ ॥
由意而成,以气息为身,光明之形,真实的志愿,以虚空为自我,行一切事,具一切欲,具一切香与一切味;遍摄此一切,寂默而无所执着。
Chāndogya 3.14.3
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३.१४.३ ॥
我内在心中的这个阿特曼,比一粒米、一粒大麦、一粒芥子、一粒黍米或黍米仁还要小。我内在心中的这个阿特曼,比大地大,比中间空界大,比天界大,比所有这些世界都大。
Chāndogya 3.14.4
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३.१४.४ ॥
凡拥有一切行为、一切欲望、一切香气、一切滋味,包容这一切、寂静而无所执着的,——我内在心中的这个阿特曼就是梵。离开此处之后,我将达到它——凡对此确信不疑者,便无疑惑。沙溺利耶如是说,沙溺利耶。