Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.10.1

इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६.१०.१ ॥

亲爱的,这些河流流淌:东方来的流向东方,西方来的流向西方。它们从海洋而来,又回归海洋,成为海洋本身。在那里,它们不知道:“我是这个,我是这个。”

Chāndogya 6.10.2

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.१०.२ ॥

同样地,亲爱的,这些生灵从“有”(sat)而来,却不知道:“我们来自有。”在此,它们成为其所是——老虎、狮子、狼、野猪、虫、鸟、蚊或蝇——并变成那样。

Chāndogya 6.10.3

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.१०.३ ॥

此微妙之精华即是一切之自我(ātman);它是真实,它是自我。Śvetaketu,你就是那个。他说:“愿尊者再为我开示。”父亲说:“就这样吧,亲爱的孩子。”