Vedyatra वेदयात्रा
搜索

奥义书 · Maitrāyaṇī 3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Maitrāyaṇī 3.1

ते होचुर्भगवन्यद्येवमस्यात्मनो महिमानं सूचयसीत्यन्यो वा परः कोऽयमात्मा सितासितैः कर्मफलैरभिभूयमानः सदसद्योनिमापद्यत इत्यवाचीं वोर्ध्वां वा गतं द्वन्द्वैरभिभूयमानः परिभ्रमतीति कतम एष इति तान्होवाच ॥ ३.१ ॥

他们说:尊者,若您如此指示此自我的伟大,那么这被白与黑的业果所制服、进入有与无之胎、向下或向上而去、被诸对立所制服而流转者,是另一个,还是至上者?此为何者?是哪一个?于是他对他们说。

Maitrāyaṇī 3.2

अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः कर्मफलैरभिभूयमानः सदसदयोनिमापद्यत इत्यवाचीं वोर्ध्वां गतिं द्वन्द्वैरभिभूयमानः परिभ्रमतीत्यस्योपव्याख्यानं पञ्च तन्मात्राणि भूतशब्देनोच्यन्ते पञ्च महाभूतानि भूतशब्देनोच्यन्तेऽथ तेषां यः समुदायः शरीरमित्युक्तमथ यो ह खलु वाव शरीरमित्युक्तं स भूतात्मेत्युक्तमथास्ति तस्यात्मा बिन्दुरिव पुष्कर इति स वा एषोऽभिभूतः प्राकृत्यैर्गुणैरित्यतोऽभिभूतत्वात्संमूढत्वं प्रयात्यसंमूढस्त्वादात्मस्थं प्रभुं भगवन्तं कारयितारं नापश्यद्गुणौघैस्तृप्यमानः कलुषीकृतास्थिरश्चञ्चलो लोलुप्यमानः सस्पृहो व्यग्रश्चाभिमानत्वं प्रयात इत्यहं सो ममेदमित्येवं मन्यमानो निबध्नात्यात्मनात्मानं जालेनैव खचरः कृतस्यानुफलैरभिभूयमानः परिभ्रमतीति ॥ ३.२ ॥

确实另有一个低等的众生自我(ātman),被白与黑的业果所制服,进入有与无之胎,向下或向上而去,被诸对立所制服而流转。其解释如下:五种微细元素被称为“bhūta”,五大元素也被称为“bhūta”;它们的集合被称为身体;而被称为身体者,即称为“众生自我”。其自我如莲叶上的一滴水。被天然诸德(guṇa)所制服,它陷入迷惑;因被制服,它达到昏乱。虽不昏乱,它却看不见在自我中的主宰、尊者、使之行动者。被诸德之流所满足、受污染、不稳定、躁动、贪婪、有欲、烦乱,它达到我慢。思念“我即是他,此为我所有”,它以自己束缚自己,如鸟陷于网中;被所作之业的果报所制服,它流转。

Maitrāyaṇī 3.3

अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः कारयितान्तःपुरुषोऽथ यथाग्निनायःपिण्डो वाभिभूतः कर्तृभिर्हन्यमानो नानात्वमुपैत्येवं वाव खल्वसौ भूतात्मान्तःपुरुषेणाभिभूतो गुणैर्हन्यमानो नानात्वमुपैत्यथ यत्त्रिगुणं चतुरशीतिलक्षयोनिपरिणतं भूतत्रिगुणमेतद्वै नानात्वस्य रूपं तानि ह वा इमानि गुणानि पुरुषेणेरितानि चक्रमिव चक्रिणेत्यथ यथायःपिण्डे हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति ॥ ३.३ ॥

他处亦云:作者即是此元素自我(bhūtātman),借诸根而令作业;内在补鲁沙(antaḥ-puruṣa)驱动之。如铁球受火烧炙、被锤击而呈现种种形状,此元素自我为内在补鲁沙所制,为诸德(guṇa)所击,遂入于多相。此三德之物,变为八百四十万胎藏,即是多相之形。诸德由补鲁沙推动,如轮由转轮者推动。如被击的铁球中火并不被制,那补鲁沙也不被制;此元素自我因与之相连而被制。

Maitrāyaṇī 3.4

अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं निरय एव मूत्रद्वारेण निष्क्रामन्तमस्थिभिश्चितं मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः परिपूर्णं कोश इवावसन्नेति ॥ ३.४ ॥

他处亦云:此身生于交合,无有觉知,实为地狱。它从小便之道排出,以骨累成,以肉涂抹,以皮缚束,充满粪、尿、胆、痰、髓、脂、膏及众多其他污秽,如物居于鞘中。

Maitrāyaṇī 3.5

अथान्यत्राप्युक्तं संमोहो भयं विषादो निद्रा तन्द्री व्रणो जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्यमज्ञानं मात्सर्यं वैकारुण्यं मूढत्वं निर्व्रीडत्वं निकृतत्वमुद्धातत्वमसमत्वमिति तामसान्वितस्तृष्णा स्नेहो रागो लोभो हिंसा रतिर्दृष्टिव्यापृतत्वमीर्ष्या काममवस्थितत्वं चञ्चलत्वं जिहीर्षार्थोपार्जनं मित्रानुग्रहणं परिग्रहावलम्बोऽनिष्टेष्विन्द्रियार्थेषु द्विष्टिरिष्टेश्वभिषण्ग इति राजसान्वितैः परिपूर्ण एतैरभिभूत इत्ययं भूतात्मा तस्मान्नानारूपाण्याप्नोतीत्याप्नोतीति ॥ ३.५ ॥

他处亦云:以迷惑、恐惧、沮丧、睡眠、昏沉、伤、老、忧愁、饥渴、吝啬、愤怒、不信、无知、嫉妒、无悲、愚痴、无惭、欺诈、骄慢与不平等而具足他摩(tamas);以渴爱、执著、贪恋、贪婪、暴力、喜乐、耽于观看、嫉妒、欲望、不定、躁动、欲夺、聚财、厚待朋友、执取财物、厌恶不可意之根境与执著可意者而具足罗阇(rajas)。充满这些并为之所制,此元素自我因此而得多种形相,得之。