阿闼婆吠陀 · 颂诗(Sūkta) 10.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
10.5.1
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥ १०.५.१ ॥
你们是因陀罗的活力(ojas),因陀罗的力量(saha),因陀罗的力(bala),因陀罗的威力(vīrya),因陀罗的男力(nṛmṇa)。为了胜利与结合,我以梵的结合将你们相连。
10.5.2
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥ १०.५.२ ॥
你们是因陀罗的活力(ojas),因陀罗的力量(saha),因陀罗的力(bala),因陀罗的威力(vīrya),因陀罗的男力(nṛmṇa)。为了胜利与结合,我以刹帝利的结合将你们相连。
10.5.3
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥ १०.५.३ ॥
你们是因陀罗的活力(ojas),因陀罗的力量(saha),因陀罗的力(bala),因陀罗的威力(vīrya),因陀罗的男力(nṛmṇa)。为了胜利与结合,我以因陀罗的结合将你们相连。
10.5.4
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥ १०.५.४ ॥
你们是因陀罗的活力(ojas),因陀罗的力量(saha),因陀罗的力(bala),因陀罗的威力(vīrya),因陀罗的男力(nṛmṇa)。为了胜利与结合,我以苏摩的结合将你们相连。
10.5.5
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥ १०.५.५ ॥
你们是因陀罗的活力(ojas),因陀罗的力量(saha),因陀罗的威力(bala),因陀罗的英勇(vīrya),因陀罗的男力(nṛmṇa)。为了胜者的轭合,我以水的轭合将你们相连。
10.5.6
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥ १०.५.६ ॥
你们是因陀罗的活力、力量、威力、英勇与男力。为了胜者的轭合,愿一切众生站在我身边;水啊,你们为我而相连。
10.5.7
अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.७ ॥
你们是阿耆尼的分。神圣的水啊,请将水的光明(śukra)安置于我们之中作为光辉(varcas)。凭借生主(Prajāpati)的居所,我为此世界安置你们。
10.5.8
इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.८ ॥
你们是因陀罗的分。神圣的水啊,请将水的光明(śukra)安置于我们之中作为光辉(varcas)。凭借生主(Prajāpati)的居所,我为此世界安置你们。
10.5.9
सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.९ ॥
你们是苏摩的分。神圣的水啊,请将水的光明(śukra)安置于我们之中作为光辉(varcas)。凭借生主(Prajāpati)的居所,我为此世界安置你们。
10.5.10
वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.१० ॥
你们是伐楼那的份额。神圣的水啊,请在我们之中安置光明的精华与威力。以生主之居所,我为此世界安置你们。
10.5.11
मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.११ ॥
你们是密多罗与伐楼那的份额。神圣的水啊,请在我们之中安置光明的精华与威力。以生主之居所,我为此世界安置你们。
10.5.12
यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.१२ ॥
你们是阎摩的份额。神圣的水啊,请在我们之中安置光明的精华与威力。以生主之居所,我为此世界安置你们。
10.5.13
पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.१३ ॥
你们是祖先们的份额。神圣的水啊,请在我们之中安置光明的精华与威力。以生主之居所,我为此世界安置你们。
10.5.14
देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥ १०.५.१४ ॥
你们是天神萨维特里的份额。神圣的水啊,请在我们之中安置光明的精华与威力。以生主之居所,我为此世界安置你们。
10.5.15
यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१५ ॥
哦,诸水,你们在水中的份额,适于献祭、诸神的祭场——我将它从此送走;愿它不要洗涤我。借此我们送走那恨我们的人,以及我们所恨的人。愿我们击打他,愿我们毁灭他——以此神圣的咒语,以此仪式,以此咒术。
10.5.16
यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१६ ॥
哦,诸水,你们在水中的波浪,适于献祭、诸神的祭场——我将它从此送走;愿它不要洗涤我。借此我们送走那恨我们的人,以及我们所恨的人。愿我们击打他,愿我们毁灭他——以此神圣的咒语,以此仪式,以此咒术。
10.5.17
यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१७ ॥
哦,诸水,你们在水中的小牛,适于献祭、诸神的祭场——我将它从此送走;愿它不要洗涤我。借此我们送走那恨我们的人,以及我们所恨的人。愿我们击打他,愿我们毁灭他——以此神圣的咒语,以此仪式,以此咒术。
10.5.18
यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१८ ॥
诸水啊,你们中的公牛,水中当被祭祀、诸神的祭场——我将他驱遣远去;愿他不被洗濯于我身上。借此,我们将那憎恨我们、我们所憎恨的人驱遣远去。愿我们击杀他、毁灭他——以此梵,以此业,以此神圣之言。
10.5.19
यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१९ ॥
诸水啊,你们中的金胎者,水中当被祭祀、诸神的祭场——我将他驱遣远去;愿他不被洗濯于我身上。借此,我们将那憎恨我们、我们所憎恨的人驱遣远去。愿我们击杀他、毁灭他——以此梵,以此业,以此神圣之言。
10.5.20
यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२० ॥
诸水啊,你们中的石头、斑驳而天上的者,水中当被祭祀、诸神的祭场——我将他驱遣远去;愿他不被洗濯于我身上。借此,我们将那憎恨我们、我们所憎恨的人驱遣远去。愿我们击杀他、毁灭他——以此梵,以此业,以此神圣之言。
10.5.21
यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।
इदं तमति सृजामि तं माभ्यवनिक्षि ।
तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२१ ॥
哦,水中的火,你们在水中有神的祭场,适于供奉!我将他驱逐远去;愿他不要在我身上擦拭。借此我们驱逐憎恨我们的人,和我们所憎恨的人。愿我们击杀他,毁灭他——以此祷词,以此仪式,以此神圣咒语。
10.5.22
यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।
आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥ १०.५.२२ ॥
凡在这三年之内我们所说的任何虚妄之语,愿水从那以及一切凶恶中保护我;愿它们从罪恶中守护我。
10.5.23
समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।
अरिष्टाः सर्वहायसो मा च नः किं चनाममत् ॥ १०.५.२३ ॥
我将你们送往大海;回归你们自己的源头吧。愿它们无害而利于一切,决不以任何方式伤害我们。
10.5.24
अरिप्रा आपो अप रिप्रमस्मत् ।
प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥ १०.५.२४ ॥
无染的水,请从我们身上驱除污秽;从我们身上驱除罪过与凶恶。愿美好形貌的水带走噩梦与污物。
10.5.25
विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।
पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.२५ ॥
你是毗湿奴之步,敌人的杀者,由大地磨砺,具有火焰之光辉。我在大地上迈步;从大地上我们驱逐憎恨我们的人与我们所憎恨的人。愿他不能活着见到我;愿他的气息离他而去。
10.5.26
विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.२६ ॥
你是毗湿奴的步伐,杀敌者,由虚空磨砺,具有风神的光辉。我踏上虚空;我们将憎恨我们、我们所憎恨的人驱离虚空。愿他不得活,愿气息离他而去。
10.5.27
विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।
दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.२७ ॥
你是毗湿奴的步伐,杀敌者,由天磨砺,具有太阳的光辉。我踏上天空;我们将憎恨我们、我们所憎恨的人驱离天空。愿他不得活,愿气息离他而去。
10.5.28
विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।
दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.२८ ॥
你是毗湿奴的步伐,杀敌者,由方位磨砺,具有心智的光辉。我踏上诸方;我们将憎恨我们、我们所憎恨的人驱离诸方。愿他不得活,愿气息离他而去。
10.5.29
विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।
आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.२९ ॥
你是毗湿奴的步伐,杀敌者,被方位磨利,具有风的威力。我沿着方位迈步;我们将憎恨我们、我们所憎恨的人从方位中驱除。愿他不让我活下去;愿他的气息离他而去。
10.5.30
विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।
ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.३० ॥
你是毗湿奴的步伐,杀敌者,被梨俱诗句磨利,具有娑摩颂歌的威力。我沿着梨俱诗句迈步;我们将憎恨我们、我们所憎恨的人从梨俱诗句中驱除。愿他不让我活下去;愿他的气息离他而去。
10.5.31
विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।
यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.३१ ॥
你是毗湿奴的步伐,杀敌者,被祭祀磨利,具有梵之威力。我沿着祭祀迈步;我们将憎恨我们、我们所憎恨的人从祭祀中驱除。愿他不让我活下去;愿他的气息离他而去。
10.5.33
विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।
ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ।
विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।
अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.३३ ॥
你是毗湿奴的步伐,灭敌者,以草药磨砺,具有苏摩的光辉。我追随草药而行;那恨我们、我们所恨的人,我们将他与草药隔开。愿他的气息离他而去;愿他不在我的寿命中活着。你是毗湿奴的步伐,灭敌者,在水中磨砺,具有婆罗尼的光辉。我追随诸水而行;那恨我们、我们所恨的人,我们将他与诸水隔开。愿他的气息离他而去;愿他不在我的寿命中活着。
10.5.34
विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।
कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.३४ ॥
你是毗湿奴的步伐,灭敌者,以耕作磨砺,具有食物的光辉。我追随耕作而行;那恨我们、我们所恨的人,我们将他与耕作隔开。愿他的气息离他而去;愿他不在我的寿命中活着。
10.5.35
विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।
प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
स मा जीवीत्तं प्राणो जहातु ॥ १०.५.३५ ॥
你是毗湿奴的步伐,击杀敌人者,以气息磨砺,具有男子的力量。我追随气息而迈步。那憎恨我们、我们所憎恨的人,我们将他与气息割离。愿他不让我存活;愿气息离弃他。
10.5.36
जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।
इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥ १०.५.३६ ॥
胜利属于我们,兴起属于我们;我们已战胜一切敌军与仇敌。我束缚这阿穆耶耶那、阿穆耶之子的光辉、精神、气息与寿命;使他俯首倒地。
10.5.37
सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।
सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥ १०.५.३७ ॥
我随太阳的运行而转,随南方而转。愿她赐我财富;愿她赐我婆罗门的光辉。
10.5.38
दिशो ज्योतिष्मतीरभ्यावर्ते ।
ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥ १०.५.३८ ॥
我转向光明的方位。愿它们赐我财富;愿它们赐我婆罗门的光辉。
10.5.39
सप्तऋषीन् अभ्यावर्ते ।
ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥ १०.५.३९ ॥
我转向七仙。愿他们赐我财富;愿他们赐我婆罗门的光辉。
10.5.40
ब्रह्माभ्यावर्ते ।
तन् मे द्रविणं यच्छन्तु तन् मे ब्राह्मणवर्चसम् ॥ १०.५.४० ॥
我转向梵。愿它赐我财富;愿它赐我婆罗门的光辉。
10.5.41
ब्राह्मणामभ्यावर्ते ।
ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥ १०.५.४१ ॥
转向梵:愿他们赐我财富,愿他们赐我婆罗门的光辉。
10.5.42
यं वयं मृगयामहे तं वधै स्तृणवामहै ।
व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥ १०.५.४२ ॥
我们所寻找的人,我们将其击倒以致死;以至上者张开的口,以梵咒,我们已将他毁灭。
10.5.43
वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।
इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥ १०.५.४३ ॥
以毗舍那罗的獠牙,火器已抓住了他。愿此供物吞噬他;愿神圣的薪柴,最为强大者,焚烧他。
10.5.44
राज्ञो वरुणस्य बन्धोऽसि ।
सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥ १०.५.४४ ॥
你是国王伐楼那的束缚。那个人——那位父亲、那位母亲的儿子——将他束缚于食物与气息之中。
10.5.45
यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।
तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥ १०.५.४५ ॥
啊,虚空之主!你那遍布大地的食物——请赐予我们。啊,虚空之主,啊,众生之主,请将它完整地赐予我们。
10.5.46
अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।
पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥ १०.५.४६ ॥
我已走向天界的诸水;我们已与其汁液相融。啊,阿耆尼,我已带着乳汁之丰足而来;请以光辉使我与之相合。
10.5.47
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥ १०.५.४७ ॥
阿耆尼啊,使我与光辉、子嗣、长寿相合。愿诸神与因陀罗同诸仙人,为我知晓此闪电。
10.5.48
यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥ १०.५.४८ ॥
阿耆尼啊,今日当那两对人诅咒、当仪轨歌者发出急促之言时,请以由心意与愤怒所生的箭,射穿心中的食人鬼。
10.5.49
परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥ १०.५.४९ ॥
以苦行之力,远远击碎食人鬼。阿耆尼啊,以你的火焰远远击碎罗刹。以你的光焰远远击碎欺诈之神;远远击碎吸取生命与焚烧者。
10.5.50
अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।
सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥ १०.५.५० ॥
我为他带来水之金刚杵,四棱,用以劈开头颅;愿知者碎裂他的所有肢体。愿诸神知晓我的身体。