Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.7.1

कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् ।
क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥ १०.७.१ ॥

它的哪一肢体上承载着它的苦行(tapas)?哪一肢体中安放着它的秩序(ṛta)?它的誓愿(vrata)在何处,它的信心(śraddhā)在何处立足?它的真实(satya)确立于哪一肢体?

10.7.2

कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।
कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥ १०.७.२ ॥

从它的哪一肢体中,火(Agni)燃烧?从哪一肢体中,风(Mātariśvan)吹拂?从哪一肢体中,月亮测量并伸展,测量着大柱(skambha)的肢体?

10.7.3

कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् ।
कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥ १०.७.३ ॥

它的哪一肢体上立着大地?哪一肢体上立着中界(antarikṣa)?哪一肢体上立着所安放的天(dyau)?哪一肢体上立着天之上的那一部分?

10.7.4

क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।
यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.४ ॥

火(Agni)高举着在何处因渴求而燃烧?风(Mātariśvan)在何处因渴求而吹拂?那些渴求者所趋向的被环绕者——请告诉我那根大柱(skambha),他究竟是哪一位?

10.7.5

क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।
यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.५ ॥

半月何往?月与岁相合而往,何往?季节所往,时令所往之处,请告诉我那根支柱(skambha)是谁?

10.7.6

क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।
यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.६ ॥

渴望到达的年轻女子,形态各异的昼与夜,一致地奔向何处?渴望到达的水流接近之处,请告诉我那根支柱(skambha)是谁?

10.7.7

यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत् ।
स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.७ ॥

生主将其牢牢固定,于其中承载了一切世界,请告诉我那根支柱(skambha)是谁?

10.7.8

यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।
कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥ १०.७.८ ॥

生主所造的最高、最低与中间的宇宙形态,支柱(skambha)进入其中多少?未进入其中的又有多少?

10.7.9

कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य ।
एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥ १०.७.९ ॥

支柱(skambha)进入已有之物的有多少,进入将有之物的有多少?在它的根基之中,他将一肢化作千种形态;支柱进入其中多少?

10.7.10

यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः ।
असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१० ॥

在那里,世界与宝库、诸水与梵为人所知,有与无在那里终结——请告诉我那根支柱,它是哪一个?

10.7.11

यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् ।
ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.११ ॥

在那里,凭借苦行与努力,将誓愿持守为至上;在那里,天理、信心、诸水与梵聚集一处——请告诉我那根支柱,它是哪一个?

10.7.12

यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता ।
यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१२ ॥

地、虚空与天安立于其中,火、月、日与风被固定其上而立——请告诉我那根支柱,它是哪一个?

10.7.13

यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः ।
स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१३ ॥

三十三神皆聚集于其肢体之中——请告诉我那根支柱,它是哪一个?

10.7.14

यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही ।
एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१४ ॥

原初诸仙人、诸颂、诸歌、诸祭文与伟大的一仙人固定于其中——请告诉我那根支柱,它是哪一个?

10.7.15

यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते ।
समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१५ ॥

在人之中同置不死与死亡,其脉络即是置于人身的大海——请告诉我那根支柱,他究竟是谁?

10.7.16

यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।
यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१६ ॥

其四方的首要脉络屹立,祭祀在其中已向前推进——请告诉我那根支柱,他究竟是谁?

10.7.17

ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् ।
यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।
ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥ १०.७.१७ ॥

在人中认识梵的人,认识至高居所;认识至高居所者,认识生主者,认识长子婆罗门者,他们依照此而认识那支柱。

10.7.18

यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् ।
अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१८ ॥

其头为吠舍婆那罗,其眼成为安吉罗娑,其肢体为药杜——请告诉我那根支柱,他究竟是谁?

10.7.19

यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत ।
विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.१९ ॥

其口被称为梵,其舌为蜜鞭,其乳房被称为毗罗遮——请告诉我那根支柱,他究竟是谁?

10.7.20

यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।
सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.२० ॥

从谁中雕刻出ṛc,从谁中抽出yajus,谁的毛发是sāman,阿闼婆与安吉罗是谁的面容——告诉我那柱子是谁。

10.7.21

असच्शाखां प्रतिष्ठन्तीं परममिव जना विदुः ।
उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते ॥ १०.७.२१ ॥

人们知道那稳固的非有之枝为至上;而低劣者以为它是有,便去供奉那枝。

10.7.22

यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः ।
भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.२२ ॥

阿底提亚、楼陀罗与婆苏聚集之处,过去与未来及一切世界确立之处——告诉我那柱子是谁。

10.7.23

यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा ।
निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥ १०.७.२३ ॥

三十三神永远守护其宝藏——神啊,你们所守护的那宝藏,今天谁知道?

10.7.24

यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।
यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात् ॥ १०.७.२४ ॥

凡知梵之诸神在至上之梵中供奉之处,能直接知晓他们者,愿他成为梵天与知者。

10.7.25

बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे ।
एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥ १०.७.२५ ॥

那些名为伟大者(bṛhanta)的诸神,生于非有——人们说柱子的一支是非有。

10.7.26

यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत् ।
एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥ १०.७.२६ ॥

斯坎跋在生成之时使远古者转动,斯坎跋的那一肢体,智者称之为远古。

10.7.27

यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे ।
तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहमविदो विदुः ॥ १०.७.२७ ॥

诸神三十三位分配了他肢体中的各部分,那三十三位神,唯有少数梵智者才知晓。

10.7.28

हिरण्यगर्भं परममनत्युद्यं जना विदुः ।
स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥ १०.७.२८ ॥

至上的金胎,升起而呼吸,世人知晓;斯坎跋先将它作为黄金洒在诸世界之间。

10.7.29

स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् ।
स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥ १०.७.२९ ॥

诸世界在斯坎跋之中,苦行在斯坎跋之中,秩序(ṛta)安立于斯坎跋之中。斯坎跋啊,我亲见你;一切都汇聚于因陀罗之中。

10.7.30

इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् ।
इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥ १०.७.३० ॥

诸世界在因陀罗之中,苦行在因陀罗之中,秩序(ṛta)安立于因陀罗之中。因陀罗啊,我亲见你;一切在斯坎跋中稳固确立。

10.7.31

नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः ।
यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥ १०.७.३१ ॥

名以名呼唤,在太阳之前,在黎明之前。那先生起的无生者,获得了自主之王权;在他之上,再无更高的存在。

10.7.32

यस्य भूमिः प्रमान्तरिक्षमुतोदरम् ।
दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ १०.७.३२ ॥

其地为量,中空为腹,以天为首者,向那长者梵致敬。

10.7.33

यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः ।
अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ १०.७.३३ ॥

其目为日与复生之月,以火为口者,向那长者梵致敬。

10.7.34

यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् ।
दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ १०.७.३४ ॥

其息为风,其目为安吉罗娑,使方位有知者,向那长者梵致敬。

10.7.35

स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् ।
स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥ १०.७.३५ ॥

支柱承载此二者,天与地;支柱承载广阔的虚空;支柱承载六方广域;支柱进入此整个世界。

10.7.36

यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे ।
सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥ १०.७.३६ ॥

由勤劳与苦行而生,遍满一切世界,唯独造出苏摩者,向那长者梵致敬。

10.7.37

कथं वातो नेलयति कथं न रमते मनः ।
किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥ १०.७.३७ ॥

风为何不止息?心为何不欢喜?欲求真实的水,为何永不停歇?

10.7.38

महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।
तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥ १०.७.३८ ॥

伟大的神妙存在,在苦行的热力中显现于世界中央,立于水面之上。众神皆依托于其中,如同树干四周的枝条。

10.7.39

यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।
यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ १०.७.३९ ॥

为谁而以手、足、言、耳、目行事,众神常为之奉献祭品:在有限中之无限。请告诉我那根支柱,他究竟是谁?

10.7.40

अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।
सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥ १०.७.४० ॥

借他黑暗被消除,他远离罪恶。其中有一切光明,即三光,在生主之中。

10.7.41

यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।
स वै गुह्यः प्रजापतिः ॥ १०.७.४१ ॥

知晓立于水中的金色芦苇者,他确实就是隐秘的生主。

10.7.42

तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।
प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥ १०.७.४२ ॥

有人走向六条光线的经线,两位形貌不同的少女在其上织布。一人将线向前牵引,另一人握住;它们既不散开,也不到达终点。

10.7.43

तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात् ।
पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥ १०.७.४३ ॥

那两位环绕起舞者,我不清楚哪一位在先。男子编织此物,众人赞颂它;男子将它铺展在天穹之上。

10.7.44

इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥ १०.७.४४ ॥

这些光芒支撑起天空;为了风,它们把歌咏做成了转动的纺锤。