Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 13.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.1.1

उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत् ।
यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥ १३.१.१ ॥

起来吧,强健者。愿那在水中之物进入这富有真正慷慨的王国。愿产生这整个世界的罗希多为了王国善加扶持你。

13.1.2

उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः ।
सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥ १३.१.२ ॥

愿在水中的伐阇升起。登临那些以你为根源的人民之上。持捧苏摩,在此安立水、草药、牛群、四足与两足之物。

13.1.3

यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।
आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥ १३.१.३ ॥

你们,猛烈的摩录多,斑母之子,与因陀罗同伴,摧毁敌人。愿善施的罗希多听从你们,你们二十一位以甘甜为乐的摩录多。

13.1.4

रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।
ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥ १३.१.४ ॥

上升者罗希多已经上升;作为众生之胎的他,登上了众生之膝。被他们激发,他们找到了通往六个广阔世界的道路;你在此注视着王国,因而取得了它。

13.1.5

आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत् ।
तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥ १३.१.५ ॥

为了你,罗希多在此带来了王国;敌人四散,无畏降临于你。愿天与地,以其富足与强大之流,在此为他和你挤出心愿。

13.1.6

रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥ १३.१.६ ॥

罗希多生出天与地;在那里,至上者伸展了丝线。在那里,独足的不生者安坐,并以力量使天地坚固。

13.1.7

रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः ।
तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥ १३.१.७ ॥

罗希多使天与地坚固;借他,天界被支撑,穹苍得以稳固。借他,虚空与诸界被量度;借他,诸神得到了不死。

13.1.8

वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।
दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥ १३.१.८ ॥

罗希多遍及万象,同时生成嫩芽与生长之物。他生长至天界,以其伟大的威严,愿以乳与酥膏为你的王国灌顶。

13.1.9

यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।
तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥ १३.१.९ ॥

你的那些生长、嫩芽与攀升,你借之充满天与虚空——借其神圣的言词与乳而增长,啊罗希多,在王国的民众之中保持警醒。

13.1.10

यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।
तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥ १३.१.१० ॥

那些从你的苦行中生成的民众,跟随小牛与伽耶特里来到这里——愿他们以吉祥之心进入你中;愿小牛罗希多与母亲一同来到你面前。

13.1.11

ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः ।
तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥ १३.१.११ ॥

罗希塔高高地立于天界(nāka),这位年轻的诗人产生一切形态。阿耆尼以锐利的光在第三个轮、在大气中照耀可爱之物。

13.1.12

सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।
मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥ १३.१.१२ ॥

千角公牛,遍知者,以酥油供奉,背负苏摩,富有良好的英雄。愿无人舍弃我,愿我这求助者不舍弃你;赐予我牲畜的滋养与英雄的滋养。

13.1.13

रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥ १३.१.१३ ॥

罗希塔是祭祀的生育者与面容。我以言语、听觉与心意向罗希塔献祭。诸神心怀喜悦走向罗希塔;愿他以增长使我成长,为了萨米祭。

13.1.14

रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः ।
वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥ १३.१.१४ ॥

罗希塔为万物的创造者设立了祭祀;因此这些光辉来到了我这里。我要向你宣说世界的脐,位于至高之处。

13.1.15

आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः ।
आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥ १३.१.१५ ॥

布利哈蒂与潘克蒂韵律,带着光辉的卡库卜韵律,哦遍知者,已登临于你。乌什尼音节已登临于你;瓦沙特之呼已登临于你;罗希塔携带精种一同登临于你。

13.1.16

अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।
अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥ १३.१.१६ ॥

此者包裹大地之胎;此者包裹天空;此者包裹虚空。此者于 Bradhna 之广延中,抵达了天界诸世界。

13.1.17

वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥ १३.१.१७ ॥

啊,言语之主!愿大地对我们安泰;愿安适的子宫与床榻对我们最为吉祥。愿气息就在此处,伴随我们的友谊。啊,至高居者!愿阿耆尼以寿命与光辉环绕并护持你。

13.1.18

वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥ १३.१.१८ ॥

啊,言语之主!属于毗首羯摩、在我们二人周围生起的五季:愿气息就在此处,伴随我们的友谊。啊,至高居者!愿赤色者以寿命与光辉环绕并护持你。

13.1.19

वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥ १३.१.१९ ॥

啊,言语之主!请在牛栏中赐予我们善意与心志;使牛群与子嗣在胎中生长。愿气息就在此处,伴随我们的友谊。啊,至高居者!愿我以寿命与光辉环绕并护持你。

13.1.20

परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।
सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत् ॥ १३.१.२० ॥

天神 Savitṛ 与阿耆尼以光辉将你安置于周围;Mitra 与 Varuṇa 将你安置于周围。来吧,踏平一切敌意,使这王国充满悦耳的真实。

13.1.21

यं त्वा पृषती रथे प्रष्टिर्वहति रोहित ।
शुभा यासि रिणन्न् अपः ॥ १३.१.२१ ॥

斑点母马与红色辕马在车中载着你,你光辉闪耀,搅动着水流前行。

13.1.22

अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।
तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥ १३.१.२२ ॥

随从赤色者的罗希尼,如太阳般金黄、广大而光辉;愿借她赢得万形之力,借她战胜一切军队。

13.1.23

इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।
तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥ १३.१.२३ ॥

这是罗希尼、赤者的座位;那是斑点母马行走的道路。乾闼婆与迦叶波将她提升,智者们不懈地守护她。

13.1.24

सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।
घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥ १३.१.२४ ॥

太阳的马,黄褐色而带旌旗,永远不死,轻松地驾着车;饮酥油的赤者、光辉之神,与斑点母马一同进入天界。

13.1.25

यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।
यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥ १३.१.२५ ॥

那赤色的公牛,尖角,环绕着阿耆尼与太阳而生;他支撑大地与天空,诸神由他而一次次创造万物。

13.1.26

रोहितो दिवमारुहन् महतः पर्यर्णवात् ।
सर्वो रुरोह रोहितो रुहः ॥ १३.१.२६ ॥

赤者升上天界,从大海中升起;整个赤者升起,这便是升腾。

13.1.27

वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।
इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥ १३.१.२७ ॥

噴涌吧,牛啊,富含乳汁,流淌酥油;这是诸神不可触碰的神牛。愿因陀罗饮苏摩,愿安宁降临;愿阿耆尼赞颂,驱散敌人。

13.1.28

समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।
अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥ १३.१.२८ ॥

愿被点燃而炽烈的阿耆尼,因酥油而增长、以酥油供奉,克服一切、征服一切者,击杀那些与我为敌的对手。

13.1.29

हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।
क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥ १३.१.२९ ॥

愿那率军攻击我们的敌人击杀并焚烧他们;我们以火焚烧食肉的对手,我们将对手彻底焚尽。

13.1.30

अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।
अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥ १३.१.३० ॥

啊因陀罗,臂膀强健者,以金刚杵击倒那些低首的对手;然后我以阿耆尼的光辉驱策我的敌人。

13.1.31

अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते ।
इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥ १३.१.३१ ॥

啊阿耆尼,使对手低下倒下,将他们远离我们;啊梵主,以苦痛推倒那肿胀的同族。愿因陀罗-阿耆尼与密特拉-伐楼那使他们低陷,克制而无怒。

13.1.32

उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि ।
अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥ १३.१.३२ ॥

啊太阳神,你升起之时,为我击倒我的对手;用石头击打他们。愿他们坠入最低的黑暗。

13.1.33

वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।
घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥ १३.१.३३ ॥

毗罗阁之犊,诸思之公牛,背如光辉,升上了虚空。他们以酥油与颂歌敬奉这犊;既是梵,便以梵使其增长。

13.1.34

दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।
प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥ १३.१.३४ ॥

升上天,升上地,升上国家,升上财富;升上子孙,升上不死。与赤色者(罗希多)相合,使你的身体相连。

13.1.35

ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् ।
तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥ १३.१.३५ ॥

凡护持国家的诸神,向四方趋向太阳者,愿与他们相和,罗希多心意欢喜,为你确立王国。

13.1.36

उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।
तिरः समुद्रमति रोचसेऽर्णवम् ॥ १३.१.३६ ॥

以梵净化的祭祀将你向上托举;道路上的赤色驹马载着你。你横渡大海,在洪流之外闪耀。

13.1.37

रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।
सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥ १३.१.३७ ॥

天与地依止于罗希多,他是胜财者、胜牛者、共同胜得财富者。对于那有千次与七次生命的,我将在其力量中称他为你的脐,世界的脐。

13.1.38

यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।
यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥ १३.१.३८ ॥

你以光荣行于方位与次方位之间,以光荣行于牲畜与人群之中,以光荣行于大地与阿底提的怀抱之中。愿我如萨维特尔一般俊美。

13.1.39

अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि ।
इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥ १३.१.३९ ॥

你在彼世之中,知道并看见此处所聚之物。从此处,他们看见天上闪耀的、洞察一切的太阳。

13.1.40

देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।
समानमग्निमिन्धते तं विदुः कवयः परे ॥ १३.१.४० ॥

神啊,你尊敬众神,在海洋之中运行。他们点燃的正是同一个阿耆尼;至高的智者知道他。

13.1.41

अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥ १३.१.४१ ॥

从下与从上,以此足,母牛站起,携带着小牛。她转向东北;她远远地走向哪一半?她在何处产子?不在这群之中。

13.1.42

एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।
सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥ १३.१.४२ ॥

她成为一足、二足、四足、八足、九足。她是世界的千音节之行;其上的海洋分流而下。

13.1.43

आरोहन् द्याममृतः प्राव मे वचः ।
उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥ १३.१.४३ ॥

你升上天界,不朽者啊,你护佑了我的言辞。由神圣之言净化的祭祀将你托向上方;沿路而行的赤褐色骏马驮着你。

13.1.44

वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि ।
यत्ते सधस्थं परमे व्योमन् ॥ १३.१.४४ ॥

不死者啊,你知道你升往天空的路,也知道你在至高虚空中的共同居所。

13.1.45

सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति ।
सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥ १३.१.४५ ॥

太阳看天,太阳看地;太阳甚至越过诸水而观看。太阳是众生的唯一之眼;它已升上广大的天空。

13.1.46

उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।
तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥ १३.१.४६ ॥

围绕的木柱宽阔;大地被准备为祭坛。罗希多在那里安置了这两团火——寒与热。

13.1.47

हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।
वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥ १३.१.४७ ॥

安置寒与热,以群山为祭柱,雨与酥油之两火被罗希多的寻天者所崇拜。

13.1.48

स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।
तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥ १३.१.४८ ॥

借罗希多寻天者的神圣咒语,阿耆尼被点燃。由此生出热,由此生出寒,由此生出祭祀。

13.1.49

ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ १३.१.४९ ॥

借咒语而增长、借咒语而壮大、在咒语中被献上、借咒语而点燃的这两团火,被罗希多的寻天者所崇拜。

13.1.50

सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ १३.१.५० ॥

一者立于真理之中,另一者在水中燃烧。被圣言点燃的这两团火,受到知晓天界的罗希多信徒们的供奉。

13.1.51

यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥ १३.१.५१ ॥

被风装饰、被因陀罗与梵主装饰的那一物;被圣言点燃的这两团火,受到知晓天界的罗希多信徒们的供奉。

13.1.52

वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।
घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥ १३.१.५२ ॥

以大地为祭坛,以天空为祭礼之酬,以那热力为火,罗希多以雨水与酥油创造了整个有生命的世界。

13.1.53

वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।
तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत् ॥ १३.१.५३ ॥

雨水成为酥油,热力成为火,大地成为祭坛。在那里,阿耆尼以颂歌将这些山峰高高竖立起来。

13.1.54

गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत् ।
त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥ १३.१.५४ ॥

罗希多以颂歌将它们高高立起之后,对大地说:“愿一切在你之中诞生——凡已存在的,与将要存在的。”

13.1.55

स यज्ञः प्रथमो भूतो भव्यो अजायत ।
तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥ १३.१.५५ ॥

那祭祀最先生成,作为将要存在者而诞生。从它诞生了此间闪耀的一切——由仙人罗希多所承载。

13.1.56

यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति ।
तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥ १३.१.५६ ॥

凡以脚踢牛、面向太阳小便者,我斩断他的根;诸作者啊,勿使他的影子成为别的。

13.1.57

यो माभिछायमत्येषि मां चाग्निं चान्तरा ।
तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥ १३.१.५७ ॥

你越过我的影子,穿行于我与火之间,我斩断你的根;诸作者啊,勿使他的影子成为别的。

13.1.58

यो अद्य देव सूर्य त्वां च मां चान्तरायति ।
दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥ १३.१.५८ ॥

神啊太阳,今日在你与我之间出现的那人身上,我们拭去噩梦、污秽与诸般恶事。

13.1.59

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्त स्थुर्नो अरातयः ॥ १३.१.५९ ॥

愿我们不离正道;因嚮因陀罗,压榨苏摩的我们不离祭祀;愿我们的敌人不成为我们的终结。

13.1.60

यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतमशीमहि ॥ १३.१.६० ॥

愿我们获得那作为完成祭祀之线、遍布于诸神之间的供物。